श्वशुरश्राद्धकालश्च श्वश्र्वाश्चैव महामते । तच्छ्रुत्वा तद्वचस्तेषां गृहं त्यक्त्वा पलायसे
धर्ममार्गो न दृष्टो हि श्रुतो नैव कदा त्वया । लोभो मातापिता भ्राता लोभः स्वजनबांधवाः
पालितो लोभ एवैकस्त्यक्त्वा धर्मं सदैव हि । तस्माद्दुःखी भवाञ्जातो दारिद्रेणाति पीडितः
दिनेदिने महातृष्णा हृदये ते प्रवर्त्तते । यदायदा गृहे द्रव्यं वृद्धिमायाति ते सदा
तृष्णया दह्यमानस्तु तदा त्वं वह्निरूपया । रात्रौ वा त्वं प्रसुप्तस्तु लोभं चिंतयसेऽधिकम्
दिनं प्राप्य महामोहैर्व्यापितो हि सदैव हि । सहस्रं लक्षतः कोटिः कदावार्बुदमेव च
भविष्यति कदा खर्वो निखर्वश्चाथ मे गृहे । एवं सहस्रलक्षं च कोटिरर्बुदमेव च
खर्वो निखर्वः संजातस्तृष्णा नैव प्रगच्छति । एवं कालं परित्यज्य वृद्धिमायाति सर्वदा
नैव दत्तं हुतं विप्र भुक्तं नैव कदा त्वया । निश्चितं भूमिमध्ये तत्क्षिप्तं पुत्रानजानते
अन्यमेवमुपायं तु द्रव्यागमनकारणात् । कुरुषे सर्वदा विप्र लोकान्पृच्छसि बुद्धिमान्
खनित्रमंजनं वादं धातुवादमतःपरम् । पृच्छमानो भ्रमस्येकस्तृष्णया परिमोहितः
सर्वांश्चिंतयसे नित्यं कल्पान्सिद्धि प्रदायकान् । प्रवेशं चित्रवर्णानां चिंतामणिं च पृच्छसि
तृष्णानलेनदग्धोसि सुखं नैव प्रगच्छसि । तृष्णानलप्रदीप्तोसि हाहाभूतोऽप्रचेतनः
एवंभूतोसि विप्रेंद्र गतस्त्वं कालवश्यताम् । दारपुत्रेषु तद्द्रव्यं पृच्छमानेषु वै त्वया
कथितं नैव तद्दत्तं प्राणांस्त्यक्त्वा गतो यमम् । एवं सर्वंम याख्यातं वृत्तांतं तव पूर्वकम्
अनेन कर्मणा विप्र निर्धनोसि दरिद्रवान् । संसारे यस्य सत्पुत्रा भक्तिमंतः सदैव हि
सुशीला ज्ञानसंपन्नाः सत्यधर्मरताः सदा । संभवंति गृहे तस्य यस्य विष्णुः प्रसीदति
धनं धान्यं कलत्रं तु पुत्रपौत्रमनंतकम् । सभुंक्ते मर्त्यलोके वै यस्य विष्णुः प्रसन्नवान्
विना विष्णोः प्रसादेन दाराः पुत्रा भवंति न । सुजन्म च कुले विप्र तद्विष्णोः परमं पदम्
इति श्रीपद्मपुराणे पातालखंडे वैशाखमासमाहात्म्ये देवशर्मोपाख्याने एकोननवतितमोऽध्यायः
देवशर्मोवाच- पूर्वजन्मकृतं पापं त्वयाख्यातं ममैव तत् । शूद्रत्वेन हि विप्रेंद्र मयैवं धनमर्जितम्
विप्रत्वं हि मया प्राप्तं तत्कथं द्विजसत्तम । तत्सर्वं कारणं ब्रूहि ज्ञानविज्ञानपंडित
दुर्ल्लभं भारते वर्षे जन्म तस्मान्मनुष्यता । मानुष्ये ब्राह्मणत्वं च सुतरां सत्कुलोदितम्
तत्रापीदृग्विधा भार्या सर्वज्ञा प्रियवादिनी । सती सर्वगुणोपेता दुर्लभा सा कुतोऽभवत्
वसिष्ठ उवाच-। यत्त्वया चेष्टितं पूर्वं धर्मकर्मकृतं द्विज । तदहं संप्रवक्ष्यामि श्रूयतां यदि मन्यसे
ब्राह्मणैकः सुधर्मात्मा सदाचारः सुपंडितः । विष्णुभक्तस्तु धर्मात्मा नित्यं विष्णुपरायणः
स्नानार्थमपि तीर्थानां भ्रमत्येकः स मेदिनीम् । अटमानः समायातस्तव गेहे महामतिः
तस्य दर्शनमात्रेण समुत्पन्न सुधीस्तव । यतो धर्मगते गेहे सतामागमनं भवेत्
किंकिं न लभ्यते विप्र विप्रवैष्णवसेवया । दुर्ल्लभं यच्च लोके स्यान्मोक्षस्थानमपि स्थिरम्
याचितं स्थानमेकं वै वासार्थं तेन सत्तम । तवैव भार्यया दत्तं त्वया च सह पुत्रकैः