अर्थदाता सुतो भूत्वा भ्रातावाथ पिता प्रिया । मित्ररूपेण वर्तेत अंतर्दुष्टः सदैव सः
गुणं नैव प्रपश्येत स क्रूरो निष्ठुराकृतिः । जल्पते निष्ठुरं वाक्यं सदैव स्वजनेषु च
मिष्टं मिष्टं समश्नाति भोगान्भुंजति नित्यशः । द्यूतकर्मरतो नित्यं चौरकर्मणि सस्पृहः
गृहाद्द्रव्यं चोरयति वार्यमाणः स कुप्यति । पितरं मातरं चैव कुत्सते च दिनेदिने
एवं संक्षीयते द्रव्यमेवमेतद्वदत्यपि । गृहं क्षेत्रादिकं सर्वं ममैव हि न संशयः
पितरं मातरं चैव हिनस्त्येव दिने दिने । सुदंडैर्मुशलैश्चैव केशोत्पाटैश्च दारुणैः
मृते तु तस्मिन्पितरि मातरि चातिनिष्ठुरः । निःस्नेहो निष्ठुरश्चैव जायते नात्र संशयः
श्राद्धकार्याणि दानानि न करोति सदैव सः । एवंविधाः प्रियाः पुत्रा भवंति च महीपते
रिपुं पुत्रं प्रवक्ष्यामि तवाग्रे द्विजसत्तम । बाल्येवयसि संप्राप्ते पुत्रत्वे वर्तते सदा
पितरं मातरं चैव क्रीडमानो हि ताडयेत् । ताडयित्वा प्रयात्येवं प्रहस्यैवं पुनः पुनः
पुनरायाति तं तत्र पितरं मातरं पुनः । सक्रोधो वर्तते नित्यं कुत्सते च दिनेदिने
एवं संवर्तते नित्यं वैरकर्मणि संपदा । पितरं ताडयित्वा च मातरं च ततः पुनः
प्रयात्येवं स दुष्टात्मा पूर्ववैरानुभावतः । अथातः संप्रवक्ष्यामि यथालभ्यं भवेत्प्रियम्
जातमात्रं प्रियं कुर्याद्बाल्ये क्रीडनताडनैः । वयः प्राप्य प्रियं कुर्यान्मातृपित्रोरनंतरम्
भक्त्या संतोषयेन्नित्यं तावुभौ परितोषयेत् । स्नेहेन वचसा चैव प्रियसंभाषणेन च
मृतौ गुरू समाज्ञाय स्नेहेन रुदते पुनः । श्राद्धकर्माणि सर्वाणि पिंडदानादिकां क्रियाम्
करोत्येवसुदुःखार्तस्तेभ्यो यात्रां प्रयच्छति । ऋणत्रयान्वितः स्नेहान्मोचयेद्यस्तु निश्चितः
यस्माल्लभ्यं भवेत्कांत प्रयच्छति न संशयः । पुत्रो भूत्वा महाप्राज्ञ अनेनविधिना किल
उदासीनं प्रवक्ष्यामि तवाग्रे प्रिय सांप्रतम् । उदासीनेन भावेन सदैव परिवर्तते
ददाति नैव गृह्णाति न च कुप्यति तुष्यति । नो वा प्रयाति संत्यज्य उदासीनो द्विजोत्तम
भृत्याश्चापि समाख्याताः पशवस्तुरगास्तथा । गजा महिष्यो दास्यश्च ऋणसंबंधिनस्त्वमी
गृहीतमाययैकेन आवाभ्यां तु न कस्य हि । न्यासमेवं न कस्यापि कृतं वै पूर्वजन्मनि
राधयामि न कस्यापि क्षणं कांत शृणुष्व हि । न वैरमस्ति केनापि पूर्वजन्मनि वै कृतम्
आबाल्येन तु विप्रेंद्र न च त्यक्तो मया पतिः । एवं ज्ञात्वा शमं गच्छ त्यज चिंतामनर्थिकीम्
हृतं नैव च कस्यापि नैव दत्तं त्वया पुनः । कथं ते धनमायाति विस्मयं व्रज मा विभो
प्राप्तमेव हि यत्रैव रक्षितुश्च न तिष्ठति । एवं ज्ञात्वा शमं गच्छ त्यज चिंतामनर्थिकीम्
कस्य पुत्राः प्रिया भार्या कस्य स्वजनबांधवाः । कः कस्य नास्ति संसारे न संबंधो द्विजोत्तम
मायामोहेन संमूढा मानवाः पापचेतनाः । इदं गृहमयं पुत्र इयं भार्या ममैव हि
अनृतं दृश्यते कांत संसारस्य हि बंधनम्
इति श्रीपद्मपुराणे पातालखंडे वैशाखमासमाहात्म्ये अष्टाशीतितमोऽध्यायः