पूर्वं देवगंधर्वयोषितो ह्यष्टावक्रं महामुनिं दृष्ट्वा जहसुस्ततस्तेन शप्ता वेश्या भविष्यथ ततस्ताभि प्रसादितः पूजितश्च तत्प्रसादात्सर्वलोकैश्च नमस्कृतं वासुदेवं भर्तारमवाप्यापि तेनैव दस्युहस्तं गता अभवन्
अर्जुनोऽपि दस्युभिर्निर्जितः शोकसमाविष्टो मम भुजबलं सवीर्यं कृष्णेनैव सह सर्वमैश्वर्यं निर्यातमिति मत्वा अद्य मम भाग्य क्षय इति वदन्सायं संध्यारविरिव निःशेषविनष्टतेजाः स्वां पुरीं समाजगाम
एवं हितार्थाय सर्वदेवानां समस्तभूभारविनाशाय यदुवंशेऽवतीर्य सकलराक्षसविनाशं कृत्वा महांतमपि चोर्वीभारं नाशयित्वा नंदव्रजद्वारकामथुरानिवासिनः सर्वान्स्थावरजंगमान्कालभवबंधैर्मोचयित्वा परमैश्वर्गे शाश्वते योगिगम्ये हिरण्मये रम्ये सात्विके संस्थाप्य नित्यं दिव्यमहिष्यादिसंसेव्यमानो वासुदेव उवास
अत्र श्लोकाः - अन्ये सर्वेऽवताराः स्युः कृष्णस्य चरितं महत् । भूभारकविनाशाय प्रादुर्भूतो रमापतिः
एतत्कृष्णस्य चरितं दुष्टानां नाशहेतवे । श्रीकृष्णः करुणासिंधुर्वैकुंठे मोदते सदा १०० 6.252.
अत्यद्भुतमिदं देवि कृष्णस्य चरितं शुभम् । संग्रहेण मयैवोक्तं तव सर्वफलप्रदम्
वासुदेवस्य चरितं यः पठेद्धरिसन्निधौ । स्मरेद्वा शृणुयाद्भक्त्या स याति परमं पदम्
महापातकयुक्तो वा तथोपपातकसंयुतः । बालकृष्णस्य चरितं श्रुत्वा पापैः प्रमुच्यते
द्वारवत्यां समासीनं रुक्मिणीसहितं हरिम् । स्मरन्वै महदैश्वर्यमनेनाप्नोत्यसंशयः
संग्रामे संकटे दुर्गे शत्रुभिः परिवेष्टिते । नेतारं सर्वदेवानां ध्यात्वा सुविजयी भवेत्
यः स्मरेद्गोपकन्याभिः क्रीडंतं गोव्रजे शुभे । सर्वकामानवाप्नोति सौभाग्यं चैव विंदति
महोपसर्गरोगाद्यैर्युक्तो यस्तु सनातनम् । जेतारं च महारौद्रीं कृत्यां काशीपुरे स्थिताम्
किमत्र बहुनोक्तेन सर्वकालेषु चाप्सु भे । कृष्णाय नम इत्येवं मंत्रमुच्चारयेद्बुधः
कृष्णाय वासुदेवाय हरये परमात्मने । प्रणतः क्लेशनाशाय गोविंदाय नमोनमः
इमं मंत्रं जपन्देवि भक्त्या प्रतिदिनं नरः । सर्वपापविनिर्मुक्तो विष्णुलोकमवाप्नुयात्
सर्वेषामेव देवानामीश्वरोऽसौ जनार्दनः । रक्षणाय च लोकानामवस्थांतरमेति वै
त्रिपुरं हंतुकामेन मया संपूजितो हरिः । बुद्धरूपधरः श्रीमान्मोहयामास तद्रिपून्
मोहितास्तेन शास्त्रेण सर्वधर्मविवर्जिताः । नारायणास्त्रेण मया निहता देवशत्रवः
अवतीर्य कलावंते ब्राह्मणस्य निवेशने । हनिष्यति तथा रौद्रान्म्लेच्छान्सर्वाञ्जनार्दनः
तैस्तैर्भावैर्मयावस्थाः सर्वाः प्रोक्ता जगत्पतेः । किमन्यच्छ्रोतुकामासि तद्ब्रवीमि शुभानने
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे। उमामहेश्वरसंवादे श्रीकृष्णचरिते श्रीकृष्णस्वधामगमननिरूपणंनाम द्विपंचाशदधिकद्विशततमोऽध्यायः
जैमिनिरुवाच- क्रियायोगस्य तत्वं मे ब्रूहि व्यास महामते । क्रियायोगमहं ज्ञातुमिच्छामि भवदग्रतः
व्यास उवाच- शरीरं मानुषं विप्र दुर्लभं चात्र भूतले । धीरः शरीरमासाद्य मोक्षार्थं योगमभ्यसेत्
क्रियायोगध्यानयोगावुभौ योगौ प्रकीर्तितौ । तयोराद्यः क्रियायोगः कुर्वतां सर्वकामदः
गङ्गा श्रीर्विष्णुपूजा च दानानि द्विजसत्तम । ब्राह्मणानां तथा भक्तिर्भक्तिरेकादशी व्रते
धात्री तुलस्योर्भक्तिश्च तथा चातिथिपूजनम् । क्रियायोगाङ्गभूतानि प्रोक्तानीति समासतः
क्रियायोगादृते विप्र ध्यानयोगेन सिद्ध्यति । क्रियायोगरतो याति तद्विष्णोः परमं पदम्
जैमिनिरुवाच- क्रियायोगाङ्गभूतानि यानि प्रोक्तानि भोः प्रभो । तन्माहात्म्यानि कथय यदि भो मय्यनुग्रहः
गङ्गायाः के गुणा ब्रह्मन्विष्णुपूजाफलं च किम् । श्रेष्ठानि कानि दानानि का वा भक्तिर्द्विजन्मनाम्
एकादश्याः फलं किंवा धात्रीभक्तिश्च कीदृशी । तुलस्याः कीदृशी भक्तिः किं वा चातिथिपूजनम्