शुभार्थं च प्रविंदामि कथं पुत्रानहं लभे । एवं चिंतयते नित्यं दिवारात्रौ विमोहितः
क्षणमेकं प्रपश्येत्स चिंतामध्ये महत्सुखम् । पुनश्चैतन्यमायाति महादुःखेन पीड्यते
चिंतामोहौ परित्यज्य अनुवर्तस्व तं द्विज । संसारे नास्ति संबंधः केन सार्धं महामते
मित्राश्च बांधवाः पुत्राः पितामाता सुतास्तथा । स्वसंबंधा भवंत्येते कलत्रादि तथैव च
देवशर्मोवाच-। संबंधः कीदृशो भद्रे तन्मे विस्तरतो वद । येन जायंति ते सर्वे धनपुत्रादि बांधवाः
सुमनोवाच-। भर्तः पंचविधाः पुत्रा जायंते तान्वदाम्यहम् । न्यासापहारकं चैकमृणसंबंधिनं परम्
रिपुं लभ्यमुदासीनमिति कांत भवंति ते । लक्षणानि प्रवक्ष्यामि तेषामीश पृथक्पृथक्
पुत्रा मित्राः प्रिया भार्या पिता माता च बांधवाः । स्वेनस्वेन हि जायंते संबंधेन महीतले
न्यासापहारभावेन यस्य येन हृतं भुवि । न्यासस्वामी भवेत्पुत्रो गुणवान्रूपवान्भुवि
येन ह्यपहृतं न्यासं तस्य गेहे न संशयः । न्यासापहारणं दुःखं स दत्त्वा दारुणं गतः
न्यासस्वामी सुपुत्रोऽभून्न्यासापहारकस्य च । गुणवान्रूपवांश्चैव सर्वलक्षणसंयुतः
भक्तिं च दर्शयेत्तस्य पुत्रो भूत्वा दिनेदिने । प्रियवाङ्मधुरोवाग्मी बहुस्नेहं विदर्शयेत्
स्वीयं द्रव्यं समुद्ग्राह्य प्रीतिमुत्पाद्य चातुलाम् । यथा तेन प्रदत्तं तन्न्यासापहरणात्परम्
दुःखमेवं महाभाग दारुणं प्राणनाशनम् । तादृशं तस्य सो दद्यात्पुत्रो भूत्वा महागुणः
अल्पायुषस्तथा भूत्वा मरणं चोपगच्छति । दुःखं दत्वा प्रयात्येवं प्रहृत्यैवं पुनःपुनः
यदाह पुत्रपुत्रेति प्रलापं हि करोति यः । तदा हास्यं करोत्येष कस्तु पुत्रो हि कस्य च
अनेनापहृतं न्यासं मदीयं पापचारिणा । द्रव्यापहारणेनापि मम प्राणागताः किल
दुःखेन महता चैव असह्येन च वै पुरा । तदा दुःखं मया दत्वाद्रव्यमुद्ग्राह्यमुत्तमम्
इति श्रीपद्मपुराणे पातालखंडे वैशाखमाहात्म्ये सप्ताशीतितमोऽध्यायः
सुमनोवाच- ऋणसंबंधिनं पुत्रं प्रवक्ष्यामि तवाग्रतः । ऋणं यस्य गृहीत्वा यः प्रयाति मरणं किल
अर्थदाता सुतो भूत्वा भ्रातावाथ पिता प्रिया । मित्ररूपेण वर्तेत अंतर्दुष्टः सदैव सः
गुणं नैव प्रपश्येत स क्रूरो निष्ठुराकृतिः । जल्पते निष्ठुरं वाक्यं सदैव स्वजनेषु च
मिष्टं मिष्टं समश्नाति भोगान्भुंजति नित्यशः । द्यूतकर्मरतो नित्यं चौरकर्मणि सस्पृहः
गृहाद्द्रव्यं चोरयति वार्यमाणः स कुप्यति । पितरं मातरं चैव कुत्सते च दिनेदिने
एवं संक्षीयते द्रव्यमेवमेतद्वदत्यपि । गृहं क्षेत्रादिकं सर्वं ममैव हि न संशयः
पितरं मातरं चैव हिनस्त्येव दिने दिने । सुदंडैर्मुशलैश्चैव केशोत्पाटैश्च दारुणैः
मृते तु तस्मिन्पितरि मातरि चातिनिष्ठुरः । निःस्नेहो निष्ठुरश्चैव जायते नात्र संशयः
श्राद्धकार्याणि दानानि न करोति सदैव सः । एवंविधाः प्रियाः पुत्रा भवंति च महीपते
रिपुं पुत्रं प्रवक्ष्यामि तवाग्रे द्विजसत्तम । बाल्येवयसि संप्राप्ते पुत्रत्वे वर्तते सदा
पितरं मातरं चैव क्रीडमानो हि ताडयेत् । ताडयित्वा प्रयात्येवं प्रहस्यैवं पुनः पुनः