प्रारभेत व्रतमिदं पौर्णमास्यां मधोर्नृप । यमैश्च नियमैर्युक्तः शक्त्या किंचित्प्रदाय च
हविष्यभुग्भूमिशायी ब्रह्मचर्यव्रते स्थितः । कृच्छ्रादितपसा क्षामो ध्यायन्नारायणं हृदि
एवं प्राप्य च वैशाखीं दद्यान्मधुतिलादिकम् । भोजनं द्विजमुख्येभ्यो भक्त्या धेनुं सदक्षिणाम्
अच्छिद्रं प्रार्थयेच्चापि तस्य स्नानस्य भूसुरान् । यथा लक्ष्मीः प्रिया भूप माधवस्य जगत्पतेः
तथैव माधवो मासो मधुसूदनवल्लभः । एवं विधियुतो मर्त्यः स्नात्वा द्वादशवत्सरम्
उद्यापनं चरेच्छक्त्या मधुसूदनतुष्टये । इदं माधवमासस्य माहात्म्यं कथितं तव
यत्पुरा ब्रह्मणो वक्त्राच्छ्रुतमासीन्मया नृप
इति श्रीपद्मपुराणे पातालखंडे वैशाखमासमाहात्म्ये षडशीतितमोऽध्यायः
सप्ताशीतितमोऽध्यायः । सूतउवाच- इति तस्य वचः श्रुत्वा नारदस्य स भूपतिः । प्रणम्य विस्मितः प्राह चिन्तयन्मनसा हरिम्
अंबरीष उवाच- कथमेतद्विमुह्यामः स्वल्पायासेन वै मुने । प्राप्यते स्नानमात्रेण फलं चैवातिदुर्ल्लभम्
नारद उवाच- सत्यमुक्तं त्वया राजन्नल्पायासेन यन्महत् । फलं संप्राप्यते तत्र श्रद्धत्स्व विधिभाषितम्
धर्मस्य गतयः सूक्ष्मा दुर्ज्ञेया हीश्वरैरपि । मुह्यंते चात्र विद्वांसोऽचिंत्यशक्ति हरेः कृतौ
विश्वामित्रादयो राजन्धर्माधिक्येन बाहुजाः । ब्राह्मण्यं समुपायाताः सूक्ष्मा धर्मगतिस्त्वतः
अजामिलोऽपि भूपाल दासीपतिरिति श्रुतः । धर्मपत्नीपरित्यागी नित्यं पापपथिस्थितः
म्रियमाणः सुतस्नेहात्प्रोच्य नारायणेति च । तद्ध्याननामग्रहणात्पदं लेभे सुदुर्ल्लभम्
अनिच्छयापि दहति स्पृष्टो हुतवहो यथा । तथा दहति गोविंद नामव्याजादपीरितम्
कानीनस्य मुनेः पौत्रा भ्रातृजायाभिगामिनः । गोलकस्य च वै पंडोः पुत्राः कुंडाः स्वयं तथा
ते पंचापि च भूपाल पांडवा द्रौपदीरताः । तेषां च पुण्यश्लोकत्वं सूक्ष्माधर्मगतिस्ततः
विचित्राणि च कर्माणि विचित्रा भूतभावनाः । विचित्राणि च भूता निविचित्राः कर्मशक्तयः
कदाचित्सुकृतं कर्म कूटस्थं यदवस्थितम् । केनचित्कर्मणा भूप शुभेन परिवर्धते
फलं ददाति सुमहत्कस्मिन्नपि च जन्मनि । सूक्ष्मो धर्मोऽतिगहनो मीयते न यथा तथा
नैतस्य फलदानस्य श्रूयते भूपनिश्चयः । यत्किंचित्सुकृतं कर्मच्छन्नं पापांतरैरपि
तदागत्य कुतः क्वापि स्वं फलं च प्रयच्छति । कृतस्य नेह नाशोऽस्ति पुण्यस्य दुरितस्य च
तथापि बहुभिः पुण्यैर्दुरितं याति दारुणम् । यदुक्तं भवता राजन्नायासाधिक्यतो भवेत्
महत्पुण्यं च तत्रापि कारणं मे निशामय । स्वल्पायासमहायासौ यद्यल्पत्व महत्त्वयोः
महापुण्यास्ततस्ते स्युः संततं कर्षकादयः । मंत्रोच्चारं च सिंहादेरायासं बहुलं त्वतः
पंचगव्यं प्रशस्तं हि व्रतांगत्वेन नो भवेत् । इति कर्तव्यबाहुल्यं महत्त्वं च तदल्पता
जलाग्न्यादिप्रवेशस्य प्रसज्येत व्रतांतरात् । इदमल्पं महच्चैतदिति नैव नियामकम्
फलं यच्चोदितं शास्त्रे तदेव स्यान्महन्नृप । यथाल्पनाशो महता महन्नाशस्तथाल्पतः
किं त्वल्पविस्फुलिंगेन तृणराशिः प्रदह्यते