अवशिष्टदिनान्येव पंचमासस्य तस्य वै । एकादशीं समारभ्य सर्वमाससमानि वै
वैशाखे पूजितो देवो माधवो मधुहा तु यैः । नानोपचारै राजेंद्र तैः प्राप्तं जन्मनः फलम्
किं किं न दुर्ल्लभतरं प्राप्यते मासि माधवे । स्नानेन परमेशस्य पूजनेन यथाविधि
न दत्तं न हुतं जप्तं न तीर्थे मरणं कृतम् । यैर्हि नारायणो नैव ध्यातो निखिलपापहा
तेषां जन्म नृणां लोके ज्ञातव्यं निष्फलं नृप । द्रव्येषु विद्यमानेषु कृपणो यो भवेन्नरः
अदत्वा म्रियते यो हि तस्य द्रव्यं निरर्थकम् । तीर्थस्नानादि तपसा सत्कुले जन्म लभ्यते
न दानेन विना भूप किंचिदप्युपतिष्ठति । वैशाखस्नानमाहात्म्यादपि पंचदिनात्मकात्
सत्कुले प्राप्यते जन्म वैभवं विविधं तथा । सुपुत्रः सुकुलं भूप धनधान्यं वरस्त्रियः
सुजन्ममरणं चापि सुभोगाः सुखमेव च । सदा दानेऽधिका प्रीतिरौदार्यं धैर्यमुत्तमम्
प्रसादात्तस्य देवस्य विष्णोश्चैव महात्मनः । नारायणस्य जायंते सिद्धयो भूप वांच्छिताः
ऊर्जे मासि तपो मासि माधवे माधवप्रिये । स्नात्वा दामोदरं भक्त्या माधवं मधुसूदनम्
विशेषेण समभ्यर्च्य दत्वा दानानि शक्तितः । एहिकं सुखमासाद्य नरो हरिपदं व्रजेत्
अनेकजन्मार्जितपातकावली विलीयते माधवमज्जनेन । सूर्योदये भूप यथा तमिस्रं वचः स्वयंभूरिदमादिशन्मे
चकार विष्णुर्विपुलप्रचारं मासस्य वै माधवसंज्ञकस्य । यमस्य गुप्तं वचसा विचिंत्य मनुष्यलोकं गमितं चकार
तस्मादस्मिन्समायाते माधवे मासि वैष्णवैः । स्नात्वा पुण्यजले तीर्थे गंगायाः पावने नृणाम्
रेवाया वा महाराज यामुने शारदेऽथवा । प्रातस्त्वनुदिते भानौ विधानेन नृपोत्तम
पूजयित्वा च देवेशं मुकुंदं मधुसूदनम् । पुत्रपौत्रधनैः श्रेयो वांच्छितानि सुखानि च
अनुभूय तपस्त्वंते स्वर्गमक्षयमाप्नुयात् । एवं ज्ञात्वा महाभाग मधुसूदनमर्चय
स्नात्वा सम्यग्विधानेन वैशाखे तु विशेषतः । देवमाराध्य गोविन्दं नारायणमनामयम्
प्राप्स्यसि त्वं सुखं पुत्रं धनानि च हरेः पदम् । देवदेवं नमस्कृत्य माधवं पापनाशनम्
प्रारभेत व्रतमिदं पौर्णमास्यां मधोर्नृप । यमैश्च नियमैर्युक्तः शक्त्या किंचित्प्रदाय च
हविष्यभुग्भूमिशायी ब्रह्मचर्यव्रते स्थितः । कृच्छ्रादितपसा क्षामो ध्यायन्नारायणं हृदि
एवं प्राप्य च वैशाखीं दद्यान्मधुतिलादिकम् । भोजनं द्विजमुख्येभ्यो भक्त्या धेनुं सदक्षिणाम्
अच्छिद्रं प्रार्थयेच्चापि तस्य स्नानस्य भूसुरान् । यथा लक्ष्मीः प्रिया भूप माधवस्य जगत्पतेः
तथैव माधवो मासो मधुसूदनवल्लभः । एवं विधियुतो मर्त्यः स्नात्वा द्वादशवत्सरम्
उद्यापनं चरेच्छक्त्या मधुसूदनतुष्टये । इदं माधवमासस्य माहात्म्यं कथितं तव
यत्पुरा ब्रह्मणो वक्त्राच्छ्रुतमासीन्मया नृप
इति श्रीपद्मपुराणे पातालखंडे वैशाखमासमाहात्म्ये षडशीतितमोऽध्यायः
सप्ताशीतितमोऽध्यायः । सूतउवाच- इति तस्य वचः श्रुत्वा नारदस्य स भूपतिः । प्रणम्य विस्मितः प्राह चिन्तयन्मनसा हरिम्
अंबरीष उवाच- कथमेतद्विमुह्यामः स्वल्पायासेन वै मुने । प्राप्यते स्नानमात्रेण फलं चैवातिदुर्ल्लभम्