सूत उवाच- इति तस्य वचः श्रुत्वा नारदस्य महात्मनः । अंबरीषश्च राजर्षिर्विस्मितो वाक्यमब्रवीत्
अंबरीष उवाच- मार्गशीर्षादिकान्मासान्हित्वा पुण्यान्महामुने । सर्वमासाधिकं मासं वैशाखं किं प्रशंससि
सर्वेभ्योऽप्यधिकः कस्मान्माधवो माधवप्रियः । को विधिस्तत्र किं दानं किं तपः का च देवता
त्वत्पादांभोजरजसा पावितस्य च मे मुने । उपदेशप्रसादेन प्रसादं कर्तुमर्हसि
धर्मज्ञो धर्ममार्गाणामुद्धर्तासि महामुने । त्वमेकोऽखिलतत्त्वार्थवेत्ता धर्मोपदेशकः
कर्तोपदेष्टा मंता वानुमंतापि प्रयोजकः । शास्त्रविद्भिर्मुनिवर स्मर्यंते समभागिनः
व्रतसत्रतपोदानैर्यत्फलं समवाप्यते । धर्मोपदेशनेनैव तत्सर्वमुपलभ्यते
तीर्थस्नानं तपोयज्ञकर्म यत्कुरुते मुने । अपि तत्फलभागीस्याद्यः प्रवर्तयिता भवेत्
यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः । स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते
तदर्हति भवान्धर्ममुपदेष्टुं तदद्भुतम् । दुर्ल्लभो गुरुसंबोधो देशकालोपपत्तयः
न केचन तथा भावाश्चेतः शीतलयंतिनः । राज्यलाभादयोऽप्येते यथा तव समागमः
सूत उवाच-। अथ मंदमृदुस्मेरस्फुरद्दंतप्रभानुगः । अंबरीषं प्रत्युवाच नारदो मुनिसत्तमः
नारद उवाच-। शृणु राजन्प्रवक्ष्यामि हिताय जगतस्तव । विधिर्माधवमासस्य यच्छ्रुतो ब्रह्मणः पुरा
दुर्ल्लभं भारते वर्षे जन्म तस्मान्मनुष्यता । मानुष्ये दुर्ल्लभे लोके स्वस्वधर्मप्रवर्त्तनम्
ततोऽपि भक्तिर्भूपाल वासुदेवेऽतिदुर्ल्लभा । तत्रापि दुर्ल्लभो मासो माधवो माधवप्रियः
तमवाप्य ततो मासं स्नानदानजपादिकम् । कुर्वंति विधिना ये तु धन्यास्ते कृतिनो नराः
तेषां दर्शनमात्रेण पापिनोऽपि विकिल्बिषाः । भवंति भगवद्भावभाविता धर्मकांक्षिणः
माधवे मासि यैः स्नातं प्रातर्नियमसंयुतैः । ते कोटिवर्षपर्यंतं क्रीडंते नंदने वने
यथा न वारिधिसमो लोके कोऽपि जलाशयः । तथा मासो न वैशाखसदृशो माधवप्रियः
तावत्पापानि तिष्ठंति मनुष्याणां कलेवरे । यावत्किलमलध्वंसी मासो नायाति माधवः
अवशिष्टदिनान्येव पंचमासस्य तस्य वै । एकादशीं समारभ्य सर्वमाससमानि वै
वैशाखे पूजितो देवो माधवो मधुहा तु यैः । नानोपचारै राजेंद्र तैः प्राप्तं जन्मनः फलम्
किं किं न दुर्ल्लभतरं प्राप्यते मासि माधवे । स्नानेन परमेशस्य पूजनेन यथाविधि
न दत्तं न हुतं जप्तं न तीर्थे मरणं कृतम् । यैर्हि नारायणो नैव ध्यातो निखिलपापहा
तेषां जन्म नृणां लोके ज्ञातव्यं निष्फलं नृप । द्रव्येषु विद्यमानेषु कृपणो यो भवेन्नरः
अदत्वा म्रियते यो हि तस्य द्रव्यं निरर्थकम् । तीर्थस्नानादि तपसा सत्कुले जन्म लभ्यते
न दानेन विना भूप किंचिदप्युपतिष्ठति । वैशाखस्नानमाहात्म्यादपि पंचदिनात्मकात्
सत्कुले प्राप्यते जन्म वैभवं विविधं तथा । सुपुत्रः सुकुलं भूप धनधान्यं वरस्त्रियः
सुजन्ममरणं चापि सुभोगाः सुखमेव च । सदा दानेऽधिका प्रीतिरौदार्यं धैर्यमुत्तमम्
प्रसादात्तस्य देवस्य विष्णोश्चैव महात्मनः । नारायणस्य जायंते सिद्धयो भूप वांच्छिताः