वैशाखांतानि पापानि सूर्यांतानि तमांसि च । परापकारपैशुन्य प्रांतानि सुकृतानि च
कार्तिके मासि यत्किंचित्तुलासंस्थे दिवाकरे । स्नानदानादिकं राजंस्तत्परार्धगुणं भवेत्
तस्मात्सहस्रगुणितं माघे मकरगे रवौ । ततोऽपि शतसंख्यातं वैशाखेमेषगे रवौ
ते धन्यास्ते सुकृतिनो नरा वैशाख मासि ये । प्रातः स्नात्वा विधानेन पूजयंति मधुद्विषम्
प्रातःस्नानं च वैशाखे यज्ञदानमुपोषणम् । हविष्यं ब्रह्मचर्यं च महापातकनाशनम्
पुनः कलियुगे राजन्नेतद्गोप्यं भविष्यति । अश्वमेधादिकं यस्मान्माहात्म्यं माधवस्य यत्
अश्वमेधमखः पुण्यः कलौ नैव प्रवर्तते । एष माधवमासस्य हयमेध समो विधिः
अश्वमेधस्य यत्पुण्यं स्वर्गमोक्षफलप्रदम् । न वेत्स्यंति कलौ पापा जना दुरितबुद्धयः
तस्मिन्भवैर्नरैः पापैर्गंतव्यं नरकार्णवे । अतस्तु विरलस्तस्य प्रचारो येन निर्मितः
इति श्रीपद्मपुराणे पातालखंडे वैशाखमासमाहात्म्ये पंचाशीतितमोऽध्यायः
सूत उवाच- इति तस्य वचः श्रुत्वा नारदस्य महात्मनः । अंबरीषश्च राजर्षिर्विस्मितो वाक्यमब्रवीत्
अंबरीष उवाच- मार्गशीर्षादिकान्मासान्हित्वा पुण्यान्महामुने । सर्वमासाधिकं मासं वैशाखं किं प्रशंससि
सर्वेभ्योऽप्यधिकः कस्मान्माधवो माधवप्रियः । को विधिस्तत्र किं दानं किं तपः का च देवता
त्वत्पादांभोजरजसा पावितस्य च मे मुने । उपदेशप्रसादेन प्रसादं कर्तुमर्हसि
धर्मज्ञो धर्ममार्गाणामुद्धर्तासि महामुने । त्वमेकोऽखिलतत्त्वार्थवेत्ता धर्मोपदेशकः
कर्तोपदेष्टा मंता वानुमंतापि प्रयोजकः । शास्त्रविद्भिर्मुनिवर स्मर्यंते समभागिनः
व्रतसत्रतपोदानैर्यत्फलं समवाप्यते । धर्मोपदेशनेनैव तत्सर्वमुपलभ्यते
तीर्थस्नानं तपोयज्ञकर्म यत्कुरुते मुने । अपि तत्फलभागीस्याद्यः प्रवर्तयिता भवेत्
यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः । स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते
तदर्हति भवान्धर्ममुपदेष्टुं तदद्भुतम् । दुर्ल्लभो गुरुसंबोधो देशकालोपपत्तयः
न केचन तथा भावाश्चेतः शीतलयंतिनः । राज्यलाभादयोऽप्येते यथा तव समागमः
सूत उवाच-। अथ मंदमृदुस्मेरस्फुरद्दंतप्रभानुगः । अंबरीषं प्रत्युवाच नारदो मुनिसत्तमः
नारद उवाच-। शृणु राजन्प्रवक्ष्यामि हिताय जगतस्तव । विधिर्माधवमासस्य यच्छ्रुतो ब्रह्मणः पुरा
दुर्ल्लभं भारते वर्षे जन्म तस्मान्मनुष्यता । मानुष्ये दुर्ल्लभे लोके स्वस्वधर्मप्रवर्त्तनम्
ततोऽपि भक्तिर्भूपाल वासुदेवेऽतिदुर्ल्लभा । तत्रापि दुर्ल्लभो मासो माधवो माधवप्रियः
तमवाप्य ततो मासं स्नानदानजपादिकम् । कुर्वंति विधिना ये तु धन्यास्ते कृतिनो नराः
तेषां दर्शनमात्रेण पापिनोऽपि विकिल्बिषाः । भवंति भगवद्भावभाविता धर्मकांक्षिणः
माधवे मासि यैः स्नातं प्रातर्नियमसंयुतैः । ते कोटिवर्षपर्यंतं क्रीडंते नंदने वने
यथा न वारिधिसमो लोके कोऽपि जलाशयः । तथा मासो न वैशाखसदृशो माधवप्रियः
तावत्पापानि तिष्ठंति मनुष्याणां कलेवरे । यावत्किलमलध्वंसी मासो नायाति माधवः