तदयश्चूर्णीभूतबीजसमुद्भूता वज्रसन्निभा महाकाशाः संबभूवुः
तत्र तं मुसलावशिष्टं कनिष्ठांगुलिमात्रं मत्स्यो जग्रास तं मत्स्यं निषादो गृहीत्वा तदुदरस्थं मुशलखण्डमादाय बाणाग्रे फलकमकरोत्
कदाचित्सर्वे यादवा रामकृष्णप्रद्युम्नादयो मघवता प्रेषितां वारुणीं पीत्वा मत्ता बभूवुः
परस्परं वीरणं नीत्वा बहून्याक्रोशवाक्यानि वदंतो युद्धं चक्रुः क्षयं च गताः
कृष्णस्तु युद्धश्रांतः कल्पतरुच्छायायां शयनं चकार स निषादो धनुर्बाणं गृहीत्वा खेटकवृत्तिं जगाम
एवं निःशेषं त्यक्तजीविता बभूवुस्ते सर्वे स्वान्स्वांस्त्रिदशान्प्रपेदिरे
एवं मुशलेन संहृत्य सर्वं स्वयमेको देवो बहुगुल्मसमाकीर्णमहाद्रुमछायायां सुप्तश्चतुर्विधव्यूहगतं वासुदेवात्मकमात्मानं चिंतयञ्जानूपरिपदं निधायात्मनो मानुषंवपुस्त्यक्तुमनुनिषसाद
एतस्मिनन्तरे मृगयाजीविको हरेः स तदा कालप्रभावेन चक्रवज्रध्वजांकुशादिचिह्नितमतिरक्ततमं हरेः पादकमलं दृष्ट्वा विव्याध
तदनंतरं श्रीकृष्णं ज्ञात्वा सुमहाभयार्तः प्रवेपमानः कृतांजलिपुटो महदपराधः सकलोपह्रियतामिति तं प्रणनाम
श्रीकृष्णस्तथाभूतं दृष्ट्वा सुधामयकराभ्यां तमुत्थाप्य भवतानापराद्धं कृतमिति वदन्महाभयपीडितमाश्वासयन्नुवाच
ततो योगिगम्यमपुनरावृत्तिशाश्वतं सर्वोपनिषदमयं वैष्णवं लोकं प्रददौ
असौ तस्मिन्नेव मुहूर्ते मानुषं रूपं विहाय पंचोपनिषन्मयं सकलपुत्रदारसहितो दीप्तिमयं वैष्णवं लोकं दिव्यं विमानमास्थाय सहस्रार्कद्युतिसदृशं दिव्याप्सरोगणाकीर्णं हिरण्मयं वासुदेवेत्येकं जगाम
तस्मिन्काले दारुको रथमारुह्य विष्णोः समीपं विवेश
कृष्णोऽपि मत्स्वरूपमर्जुनं पूर्वमानयस्वेति प्रेषयामास
स तु मनोजवस्यंदनमारुह्यार्जुनसमीपमाजगाम
एतस्मिन्नंतरे देव्यर्जुनस्तदारुह्य परिणीय नमस्कृत्वा किं करोमीति पुटांजलिरुवाच
कृष्णस्तु तमाह पार्थाहं स्वलोकं यास्यामि त्वं तु द्वारवतीं गत्वा तत्रस्था रुक्मिण्याद्यष्टभार्या आनीय मम शरीरे प्रेषय
स दारुकेण सहितो नगरीमाजगाम
एतस्मिन्नंतरे देवा विमानस्था नभसि संस्थिताः स्वर्लोकं यियान्तं कृष्णं दृष्ट्वा ऋषिभिः सार्द्धं स्तुत्वा पुष्पवर्षाणि ववृषुः
कृष्णोऽपि मानुषदेहं- संन्यस्यसकलजगत्स्थितिसंहारहेतुभूतं सकलक्षेत्रज्ञमंतर्यामियोगिध्येयमनामयं वासुदेवात्मकं देहं धृत्वा वैनतेयमारुह्य महर्षिभिस्तूयमानो जगाम
अर्जुनो वसुदेवोग्रसेनाभ्यां रुक्मिण्यादिमहिषीभ्यस्तत्सर्वं कथयामास
तच्छ्रुत्वा सर्वे पौरजनाः स्त्रियश्च द्वारवतीमुत्सृज्यांतःपुराद्बहिर्निष्क्रम्य सर्वास्ताः कृष्णवल्लभा वसुदेवोग्रसेनसहिताः शीघ्रमेव हरेः समीपं जग्मुः
ते सर्वे वसुदेवोग्रसेनाक्रूराः सर्वे यदुवृद्धा वपुस्त्यक्त्वा सनातनवासुदेवं समाजग्मुः
रेवतीच बलभद्रशरीरं परिष्वज्याग्निं प्रविश्य तस्मिन्देहं प्राप्य दिव्यविमानारूढा भर्तुः स्थानं संकर्षणलोकं दिव्यमवाप
तथैव प्रद्युम्नेन सह रुक्मपुत्री तथानिरुद्धेनोषापि सर्वाश्च यादवस्त्रियः स्वस्वभर्तुः शरीराणि संपूज्याग्निप्रवेशं चक्रुः
तेषां सर्वेषामर्जुनऔर्द्ध्वदैहिकं कृतवान्
तस्मिन्काले दिव्यवाजिसमायुक्तं सुग्रीवाख्यकं सर्वरत्नोपेतं दिव्यं स्यंदनमारुह्य दारुकोप्याजगाम
पारिजाततरुर्देवसभासुधर्मात्रिदशेंद्रलोकमयाताम्
तस्मिन्समये द्वारवतीपुरी महोदधौ निमग्नाभूत्
ततः सर्वाः षोडशसहस्रभार्य्या अर्जुनेनसहेंद्रप्रस्थं गच्छंतीर्दस्यवो जगृहुः