सुप्ता वा तिष्ठतस्तत्र सेव्यमानौ निजालिभिः । इति ते सर्वमाख्यातं नैत्यकं चरितं हरेः
पापिनोऽपि विमुच्यंते श्रवणादस्य नारद । नारद उवाच- धन्योऽस्म्यनुगृहीतोऽस्मि त्वया देवि न संशयः
हरेर्दैनंदिनीलीला यतो मेऽद्य प्रकाशिता । सूत उवाच- इत्युक्त्वा तां परिक्रम्य तया चापि प्रपूजितः
अंतर्धानं गतो ब्रह्मन्नारदो मुनिसत्तमः । मयाप्येतच्चानुपूर्व्यात्सर्वमेव प्रकीर्तितम्
जपेन्नित्यं प्रयत्नेन मंत्रयुग्ममनुत्तमम् । कृष्णवक्त्रादिदं लब्धं पुरा रुद्रेण यत्नतः
तेनोक्तं नारदायापि नारदेन ममोदितम् । संस्कारांश्च विधायैव मयाप्येतत्तवोदितम्
त्वयाप्येतद्गोपनीयं रहस्यं परमाद्भुतम् । शौनक उवाच- कृतकृत्योभवं साक्षात्त्वत्प्रसादादहं गुरो
रहस्यानां रहस्यं यत्त्वया मह्यं प्रकाशितम् । सूत उवाच- धर्मानेतानुपातिष्ठञ्जल्पन्मंत्रमहर्निशम्
अचिरादेव तद्दास्यमवाप्स्यसि न संशयः । मयापि गम्यते ब्रह्मन्नित्यमायतनं विभोः
गुरोर्गुरोर्भानुजायाः कूले गोपीश्वरस्य च
इदं चरित्रं परमं पवित्रं प्रोक्तं महेशेन महानुभावम् । शृण्वंति ये भक्तियुता मनुष्यास्ते यांति नित्यं पदमच्युतस्य
धन्यं यशस्यमायुष्यमारोग्याभीष्टसिद्धिदम् । स्वर्गापवर्गसंपत्तिकारणं पापनाशनम्
भक्त्या पठंति ये नित्यं मानवा विष्णुतत्पराः । न तेषां पुनरावृत्तिर्विष्णुलोकात्कथंचन
ऋषय ऊचुः - सूतसूत महाभाग रोमहर्षणनंदन । कथा रम्या त्वया प्रोक्ता लोकस्यानंददायिनी
श्रीकृष्णस्य महाभाग चरितं महदद्भुतम् । श्रुतं सर्वं त्वया प्रोक्तं निर्वृतिस्तेन चाभवत्
अहो श्रीकृष्णमाहात्म्यं भक्तानां गतिदायकम् । यतस्तेन महाभाग निर्वृतिं को न चाप्नुयात्
अतः पुनरपि श्रीमत्कृष्णस्य चरितं महत् । श्रोतुमिच्छामहे चान्यद्व्रतदानार्हणादिकम्
स्नानं वापि महाभाग यथा येन कृतं पुरा । तत्सर्वं विस्तराद्ब्रूहि यथा नो निर्वृतिर्भवेत्
सूत उवाच- साधु पृष्टं द्विजश्रेष्ठा लोकानां तारणं परम् । यूयं कृतार्थाः कृष्णस्य भक्त्या संपूर्णमानसाः
श्रीकृष्णचरितं पुण्यं साधूनां हर्षदं परम् । प्रवक्ष्यामि द्विजश्रेष्ठा महदाख्यानमुत्तमम्
एकदा नारदो लोकान्पर्यटन्भगवत्प्रियः । मथुरायामंबरीषं कृष्णाराधनतत्परम्
महाभागं व्रतपरं ददर्श मुनिसत्तमः । स आगतं मुनिवरं सत्कृत्य मुनिसत्तमः
भवंत इव पप्रच्छ श्रद्धया हृष्टमानसः । अंबरीष उवाच-। यन्मुने परमं ब्रह्म वेदवादिभिरुच्यते
स देवः पुंडरीकाक्षः स्वयं नारायणः परः । योऽमूर्तो मूर्तिमानीशो व्यक्तोऽव्यक्तः सनातनः
सर्वभूतमयोऽचिंत्यो ध्यातव्यः स कथं हरिः । यस्मिन्सर्वमिदं विश्वमोतं प्रोतं प्रतिष्ठितम्
अव्यक्तमेकं परमं परमात्मेति विश्रुतम् । यतो जन्मादि जगतो यो निर्माय स्वयं भुवम्
ददौ तस्मै च निगमानात्मन्येव व्यवस्थितान् । कथमाराध्यते सोऽयं समग्रपुरुषार्थदः
योगिनामपि दुर्गम्यस्तदेतत्कृपया वद । अनाराधित गोविंदा न विदंति हितोदयम्
न तपो यज्ञदानानां लभते फलमुत्तमम् । अनास्वादितगोविंदपदांबुजरसश्च यः
मनोरथपथातीतं स्फीतं नाकलयेत्फलम् । हरेराराधनं हित्वा दुरितौघ निवारणम्