राजमार्गे व्रजद्वारि यत्र सर्वे व्रजौकसः । कृष्णोऽपि तान्समागम्य यथावदनुपूर्वशः
दर्शनस्पर्शनैर्वाचा स्मितपूर्वावलोकनैः । गोपवृद्धान्नमस्कारैः कायिकैर्वाचिकैरपि
अष्टांगपातैः पितरौ रोहिणीमपि नारद । नेत्रांतसूचितेनैव विनयेन प्रियां तथा
एवं तैस्तद्यथायोग्यं व्रजौकोभिः प्रपूजितः । गवालये तथा गाश्च संप्रवेश्य समंततः
पितृभ्यामर्थितो याति भ्रात्रा सह निजालयम् । स्नात्वा पीत्वा तत्र किंचिद्भुक्त्वा मात्रानुमोदितः
गवालयं पुनर्याति दोग्धुकामो गवां पयः । ताश्च दुग्ध्वा दोहयित्वा पाययित्वा च काश्चन
पित्रा सार्द्धं गृहं याति तत्र भावशतानुगः । तत्र पित्रा पितृव्यैश्च तत्पुत्रैश्च बलेन च
भुनक्ति विविधान्नानि चर्व्यचोष्यादिकानि च । तन्मतिः प्रार्थनात्पूर्वं राधिका च तदैव ह
प्रस्थापयेत्सखीद्वारा पक्वान्नानि तदालयम् । श्लाघयंश्च हरिस्तानि भुक्त्वा पित्रादिभिः सह
सभागृहं व्रजेत्तैश्च जुष्टं बंदिजनादिभिः । पक्वान्नानि गृहीत्वा याः सख्यस्तत्र पुरागताः
बहूनि च पुनस्तानि प्रदत्तानि यशोदया । सख्यस्तत्र तया दत्तं कृष्णोच्छिष्टं नयंति च
सर्वं ताभिः समानीय राधिकायै निवेद्यते । सापि भुक्त्वा सखीवर्गयुता तदनुपूर्वशः
सखीभिर्मंडिता तिष्ठेदभिसर्त्तुं समुद्यता । प्रस्थाप्यते मया काचिदित एव ततः सखी
तयाभिसारिता साथ यमुनायाः समीपतः । कल्पवृक्षनिकुंजेऽस्मिन्दिव्यरत्नमये गृहे
सितकृष्णनिशायोग्यवेषा याति सखीवृता । कृष्णोऽपि विविधं तत्र दृष्ट्वा कौतूहलं ततः
कात्यायन्या मनोज्ञानि श्रुत्वा संगीतकान्यपि । धनधान्यादिभिस्ताश्च प्रीणयित्वा विधानतः
जनैराराधितो मात्रा याति सख्यानिकेतनम् । मातरि प्रस्थितायां च भोजयित्वा ततो गृहम्
संकेतकं कांतयात्र समागच्छेदलक्षितः । मिलित्वा तावुभावत्र क्रीडतो वनराजिषु
विहारैर्विविधै रासलास्यहासपुरस्सरैः । सार्द्धयामद्वयं नीत्वा रात्रेरेवं विहारतः
सुषुप्सू विशतः कुंजं पक्षिणीभिरलक्षितौ । एकांते कुसुमैः कॢप्ते केलितल्पे मनोहरे
सुप्ता वा तिष्ठतस्तत्र सेव्यमानौ निजालिभिः । इति ते सर्वमाख्यातं नैत्यकं चरितं हरेः
पापिनोऽपि विमुच्यंते श्रवणादस्य नारद । नारद उवाच- धन्योऽस्म्यनुगृहीतोऽस्मि त्वया देवि न संशयः
हरेर्दैनंदिनीलीला यतो मेऽद्य प्रकाशिता । सूत उवाच- इत्युक्त्वा तां परिक्रम्य तया चापि प्रपूजितः
अंतर्धानं गतो ब्रह्मन्नारदो मुनिसत्तमः । मयाप्येतच्चानुपूर्व्यात्सर्वमेव प्रकीर्तितम्
जपेन्नित्यं प्रयत्नेन मंत्रयुग्ममनुत्तमम् । कृष्णवक्त्रादिदं लब्धं पुरा रुद्रेण यत्नतः
तेनोक्तं नारदायापि नारदेन ममोदितम् । संस्कारांश्च विधायैव मयाप्येतत्तवोदितम्
त्वयाप्येतद्गोपनीयं रहस्यं परमाद्भुतम् । शौनक उवाच- कृतकृत्योभवं साक्षात्त्वत्प्रसादादहं गुरो
रहस्यानां रहस्यं यत्त्वया मह्यं प्रकाशितम् । सूत उवाच- धर्मानेतानुपातिष्ठञ्जल्पन्मंत्रमहर्निशम्
अचिरादेव तद्दास्यमवाप्स्यसि न संशयः । मयापि गम्यते ब्रह्मन्नित्यमायतनं विभोः
गुरोर्गुरोर्भानुजायाः कूले गोपीश्वरस्य च