चुंबनादि मया दत्तमित्युक्त्वा सा तथाचरेत् । कौटिल्यं तद्भ्रुवोर्द्रष्टुं श्रोतुं तद्भर्त्सनं वचः
ततः सारीशुकानां च श्रुत्वा वागाहवं मिथः । निर्गच्छतस्ततः स्थानाद्गंतुकामौ गृहं प्रति
कृष्णः कांतामनुज्ञाप्य गवामभिमुखं व्रजेत् । सा तु सूर्यगृहं गच्छेत्सखीमंडलसंयुता
कियद्दूरं ततो गत्वा परावृत्य हरिं पुनः । विप्रवेषं समास्थाय याति सूर्यगृहं प्रति
सूर्यं प्रपूजयेत्तत्र प्रार्थितस्तत्सखीजनैः । तदैव कल्पितैर्वेदैः परिहासविगर्भितैः
ततस्ता ज्ञापितं कांतं परिज्ञाय विचक्षणाः । आनंदसागरे मग्ना न विदुः स्वं न चापरम्
विहारैर्विविधैरेवं सार्द्धयामद्वयं मुने । नीत्वा गृहं व्रजेयुस्ताः स च कृष्णो गवां व्रजेत्
संगम्य स्वसखीन्कृष्णो गृहीत्वा गाः समंततः । आगच्छति व्रजं हर्षान्नादयन्मुरलद्यं मुने
ततो नंदादयः सर्वे श्रुत्वा वेणुरवं हरेः । गोधूलिपटलव्याप्तं दृष्ट्वा चापि नभस्तलम्
विसृज्य सर्वकर्माणि स्त्रियो बालादयोऽपि च । कृष्णस्याभिमुखं यांति तद्दर्शनसमुत्सुकाः
राजमार्गे व्रजद्वारि यत्र सर्वे व्रजौकसः । कृष्णोऽपि तान्समागम्य यथावदनुपूर्वशः
दर्शनस्पर्शनैर्वाचा स्मितपूर्वावलोकनैः । गोपवृद्धान्नमस्कारैः कायिकैर्वाचिकैरपि
अष्टांगपातैः पितरौ रोहिणीमपि नारद । नेत्रांतसूचितेनैव विनयेन प्रियां तथा
एवं तैस्तद्यथायोग्यं व्रजौकोभिः प्रपूजितः । गवालये तथा गाश्च संप्रवेश्य समंततः
पितृभ्यामर्थितो याति भ्रात्रा सह निजालयम् । स्नात्वा पीत्वा तत्र किंचिद्भुक्त्वा मात्रानुमोदितः
गवालयं पुनर्याति दोग्धुकामो गवां पयः । ताश्च दुग्ध्वा दोहयित्वा पाययित्वा च काश्चन
पित्रा सार्द्धं गृहं याति तत्र भावशतानुगः । तत्र पित्रा पितृव्यैश्च तत्पुत्रैश्च बलेन च
भुनक्ति विविधान्नानि चर्व्यचोष्यादिकानि च । तन्मतिः प्रार्थनात्पूर्वं राधिका च तदैव ह
प्रस्थापयेत्सखीद्वारा पक्वान्नानि तदालयम् । श्लाघयंश्च हरिस्तानि भुक्त्वा पित्रादिभिः सह
सभागृहं व्रजेत्तैश्च जुष्टं बंदिजनादिभिः । पक्वान्नानि गृहीत्वा याः सख्यस्तत्र पुरागताः
बहूनि च पुनस्तानि प्रदत्तानि यशोदया । सख्यस्तत्र तया दत्तं कृष्णोच्छिष्टं नयंति च
सर्वं ताभिः समानीय राधिकायै निवेद्यते । सापि भुक्त्वा सखीवर्गयुता तदनुपूर्वशः
सखीभिर्मंडिता तिष्ठेदभिसर्त्तुं समुद्यता । प्रस्थाप्यते मया काचिदित एव ततः सखी
तयाभिसारिता साथ यमुनायाः समीपतः । कल्पवृक्षनिकुंजेऽस्मिन्दिव्यरत्नमये गृहे
सितकृष्णनिशायोग्यवेषा याति सखीवृता । कृष्णोऽपि विविधं तत्र दृष्ट्वा कौतूहलं ततः
कात्यायन्या मनोज्ञानि श्रुत्वा संगीतकान्यपि । धनधान्यादिभिस्ताश्च प्रीणयित्वा विधानतः
जनैराराधितो मात्रा याति सख्यानिकेतनम् । मातरि प्रस्थितायां च भोजयित्वा ततो गृहम्
संकेतकं कांतयात्र समागच्छेदलक्षितः । मिलित्वा तावुभावत्र क्रीडतो वनराजिषु
विहारैर्विविधै रासलास्यहासपुरस्सरैः । सार्द्धयामद्वयं नीत्वा रात्रेरेवं विहारतः
सुषुप्सू विशतः कुंजं पक्षिणीभिरलक्षितौ । एकांते कुसुमैः कॢप्ते केलितल्पे मनोहरे