मिथः पाणी समालंब्य कामबाणवशं गतौ । रिरंसूविशतःकुञ्जंस्खलद्वाङ्मनसौपथि
क्रीडतश्च ततस्तत्र करिणीयूथपौ यथा । सख्योऽपि मधुभिर्मत्ता निद्रयापीडितेक्षणाः
अभितो मंजुकुंजेषु सर्वा एवापि शिश्यिरे । पृथगेकेन वपुषा कृष्णोऽपि युगपद्विभुः
सर्वासां संनिधिं गच्छेत्प्रियया प्रेरितो मुहुः । रमयित्वा च ताः सर्वाः करिणीर्गजराडिव
प्रियया च तथा ताभिः क्रीडार्थं च सरो व्रजेत् । जलसेकैर्मिथस्तत्र क्रीडतः सगणौ ततः
वासः स्रक्चंदनैर्दिव्यैर्भूषणैरपि भूषितौ । तत्रैव सरसस्तीरे दिव्यरत्नमये गृहे
प्रागेव फलमूलानि कल्पितानि मया मुने । हरिस्तु प्रथमं भुक्त्वा कांतया परिवेष्टितः
द्वित्राभिः सेवितो गच्छेच्छय्यां पुष्पविनिर्मिताम् । तांबूलैर्व्यजनैस्तत्र पादसंवाहनादिभिः
सेव्यमानो हसंस्ताभिर्मोदते प्रेयसीं स्मरन् । राधिकापि हरौ सुप्ते सगणा मुदितांतरा
अपि तत्र गतप्राणा तदुच्छिष्टं भुनक्ति च । किंचिदेव ततो भुक्त्वा व्रजेच्छय्यानिकेतनम्
द्रष्टुं कांतमुखांभोजं चकोरीव निशाकरम् । तांबूलचर्वितं तस्य तत्रत्याभिर्निवेदितम्
तांबूलान्यपि चाश्नाति विभजंती प्रियालिषु । कृष्णोऽपि तासां शुश्रूषुः स्वच्छंदं भाषितं मिथः
प्राप्तनिद्र इवाभाति विनिद्रोऽपि पटावृतः । ताश्च क्ष्वेली क्षणं कृत्वा कुतश्चिदनुमानतः
विदश्य रसनां दद्भिः पश्यंत्योऽन्योन्यमाननम् । विलीना इव लज्जाब्धौ क्षणमूचुर्न किंचन
क्षणादेव ततो वस्त्रं दूरीकृत्य तदंगतः । साधुनिद्रां गतोऽसीति हासयंत्यो हसंति च
एवं तैर्विविधैर्हास्यै रममाणौ गणैः सह । अनुभूय क्षणं निद्रा सुखं च मुनिसत्तम
उपविश्यासने दिव्ये सगणौ विस्तृते मुदा । पणीकृत्य मिथोहार चुंबाश्लेषपरिच्छदान्
अक्षै र्विक्रीडतः प्रेम्णा नर्मालापपुरस्सरम् । पराजितोऽपि प्रियया जितोहमिति वै ब्रुवन्
हारादिग्रहणे तस्याः प्रवृत्तस्ताड्यते तया । तयैवं ताडितः कृष्णः करेणास्य सरोरुहे
विषण्णमानसो भूत्वा गंतुं प्रकुरुते मतिम् । जितोऽस्मि चेत्त्वया देवि गृह्यतां यत्पणीकृतम्
चुंबनादि मया दत्तमित्युक्त्वा सा तथाचरेत् । कौटिल्यं तद्भ्रुवोर्द्रष्टुं श्रोतुं तद्भर्त्सनं वचः
ततः सारीशुकानां च श्रुत्वा वागाहवं मिथः । निर्गच्छतस्ततः स्थानाद्गंतुकामौ गृहं प्रति
कृष्णः कांतामनुज्ञाप्य गवामभिमुखं व्रजेत् । सा तु सूर्यगृहं गच्छेत्सखीमंडलसंयुता
कियद्दूरं ततो गत्वा परावृत्य हरिं पुनः । विप्रवेषं समास्थाय याति सूर्यगृहं प्रति
सूर्यं प्रपूजयेत्तत्र प्रार्थितस्तत्सखीजनैः । तदैव कल्पितैर्वेदैः परिहासविगर्भितैः
ततस्ता ज्ञापितं कांतं परिज्ञाय विचक्षणाः । आनंदसागरे मग्ना न विदुः स्वं न चापरम्
विहारैर्विविधैरेवं सार्द्धयामद्वयं मुने । नीत्वा गृहं व्रजेयुस्ताः स च कृष्णो गवां व्रजेत्
संगम्य स्वसखीन्कृष्णो गृहीत्वा गाः समंततः । आगच्छति व्रजं हर्षान्नादयन्मुरलद्यं मुने
ततो नंदादयः सर्वे श्रुत्वा वेणुरवं हरेः । गोधूलिपटलव्याप्तं दृष्ट्वा चापि नभस्तलम्
विसृज्य सर्वकर्माणि स्त्रियो बालादयोऽपि च । कृष्णस्याभिमुखं यांति तद्दर्शनसमुत्सुकाः