वंचयित्वा ततः सर्वान्द्वित्रैः प्रियसखैर्वृतः । संकेतकं व्रजेद्धर्षात्प्रियासंदर्शनोत्सुकः
सापि कृष्णं वनं यातं दृष्ट्वा स्वं गृहमागता । सूर्यादिपूजाव्याजेन कुसुमाहृतये तथा
वंचयित्वा गुरून्याति प्रियसंगेच्छया वनम् । इत्थं तौ बहुयत्नेन मिलित्वा कानने ततः
विहारैर्विविधैस्तत्र दिनं विक्रीडतो मुदा । दोलायां च समारूढौ सखिभिर्दोलितौ क्वचित्
क्वापि वेणुं करस्रस्तं प्रिययापह्नुतं हरिः । अन्वेषयन्नुपालब्धो विप्रलब्धप्रियागणैः
हसितैर्बहुधा ताभिर्हासितस्तत्र तिष्ठति । वसंतवायुना जुष्टं वनखण्डं मुदा क्वचित्
प्रविश्य चंदनांभोभिः कुंकुमादिजलैरपि । निषिंचतो यंत्रमुक्तैस्तत्पंकैर्लिंपतो मिथः
सख्योऽप्येवं निषिंचंति ताश्च तौ सिंचतः पुनः । वसंतवायुजुष्टेषु वनखंडेषु सर्वतः
तत्तत्कालोचितैर्नानाविहारैः सगणौ द्विज । श्रांतौ क्वचिद्वृक्षमूलमासाद्य मुनिसत्तम
उपविश्यासने दिव्ये मधुपानं प्रचक्रतुः । ततो मधुमदोन्मत्तौ निद्रया मीलितेक्षणौ
मिथः पाणी समालंब्य कामबाणवशं गतौ । रिरंसूविशतःकुञ्जंस्खलद्वाङ्मनसौपथि
क्रीडतश्च ततस्तत्र करिणीयूथपौ यथा । सख्योऽपि मधुभिर्मत्ता निद्रयापीडितेक्षणाः
अभितो मंजुकुंजेषु सर्वा एवापि शिश्यिरे । पृथगेकेन वपुषा कृष्णोऽपि युगपद्विभुः
सर्वासां संनिधिं गच्छेत्प्रियया प्रेरितो मुहुः । रमयित्वा च ताः सर्वाः करिणीर्गजराडिव
प्रियया च तथा ताभिः क्रीडार्थं च सरो व्रजेत् । जलसेकैर्मिथस्तत्र क्रीडतः सगणौ ततः
वासः स्रक्चंदनैर्दिव्यैर्भूषणैरपि भूषितौ । तत्रैव सरसस्तीरे दिव्यरत्नमये गृहे
प्रागेव फलमूलानि कल्पितानि मया मुने । हरिस्तु प्रथमं भुक्त्वा कांतया परिवेष्टितः
द्वित्राभिः सेवितो गच्छेच्छय्यां पुष्पविनिर्मिताम् । तांबूलैर्व्यजनैस्तत्र पादसंवाहनादिभिः
सेव्यमानो हसंस्ताभिर्मोदते प्रेयसीं स्मरन् । राधिकापि हरौ सुप्ते सगणा मुदितांतरा
अपि तत्र गतप्राणा तदुच्छिष्टं भुनक्ति च । किंचिदेव ततो भुक्त्वा व्रजेच्छय्यानिकेतनम्
द्रष्टुं कांतमुखांभोजं चकोरीव निशाकरम् । तांबूलचर्वितं तस्य तत्रत्याभिर्निवेदितम्
तांबूलान्यपि चाश्नाति विभजंती प्रियालिषु । कृष्णोऽपि तासां शुश्रूषुः स्वच्छंदं भाषितं मिथः
प्राप्तनिद्र इवाभाति विनिद्रोऽपि पटावृतः । ताश्च क्ष्वेली क्षणं कृत्वा कुतश्चिदनुमानतः
विदश्य रसनां दद्भिः पश्यंत्योऽन्योन्यमाननम् । विलीना इव लज्जाब्धौ क्षणमूचुर्न किंचन
क्षणादेव ततो वस्त्रं दूरीकृत्य तदंगतः । साधुनिद्रां गतोऽसीति हासयंत्यो हसंति च
एवं तैर्विविधैर्हास्यै रममाणौ गणैः सह । अनुभूय क्षणं निद्रा सुखं च मुनिसत्तम
उपविश्यासने दिव्ये सगणौ विस्तृते मुदा । पणीकृत्य मिथोहार चुंबाश्लेषपरिच्छदान्
अक्षै र्विक्रीडतः प्रेम्णा नर्मालापपुरस्सरम् । पराजितोऽपि प्रियया जितोहमिति वै ब्रुवन्
हारादिग्रहणे तस्याः प्रवृत्तस्ताड्यते तया । तयैवं ताडितः कृष्णः करेणास्य सरोरुहे
विषण्णमानसो भूत्वा गंतुं प्रकुरुते मतिम् । जितोऽस्मि चेत्त्वया देवि गृह्यतां यत्पणीकृतम्