सूत उवाच- इत्युक्तस्तं परिक्रम्य हृष्टो नत्वा पुनः पुनः । वृंदाश्रमं जगामाथ नारदो मुनिसत्तमः
वृंदापि नारदं दृष्ट्वा प्रणम्य च पुनःपुनः । उवाच च मुनिश्रेष्ठ कथमत्रागतिस्तव
नारद उवाच- त्वत्तो वेदितुमिच्छामि नैत्यकं चरितं हरेः । तदादितो मम ब्रूहि यदि योग्योऽस्मि शोभने
वृंदोवाच- रहस्यमपिवक्ष्यामि कृष्णभक्तोसि नारद । न प्रकाश्यं त्वयाप्येतद्गुह्याद्गुह्यतरं महत्
मध्ये वृंदावने रम्ये पंचाशत्कुंजमंडिते । कल्पवृक्षनिकुंजे तु दिव्यरत्नमये गृहे
निद्रितौ तिष्ठतस्तल्पे निबिडालिंगितौ मिथः । मदाज्ञाकारिभिः पश्चात्पक्षिभिर्बोधितावपि
गाढालिंगनजानंदमाप्तौ तद्भंगकातरौ । न मनः कुरुतस्तल्पात्समुत्थातुं मनागपि
ततश्च सारिकासंघैः शुकाद्यैः परितो मुहुः । बोधितौ विविधैर्वाक्यैः स्वतल्पादुदतिष्ठताम्
उपविष्टौ ततो दृष्ट्वा सख्यस्तल्पे मुदान्वितौ । प्रविश्य सेवां कुर्वंति तत्काले ह्युचितां तयोः
पुनश्च सारिकावाक्यैस्तावुत्थाय स्वतल्पतः । गच्छतः स्वस्वभवनं भीत्युत्कंठाकुलौ ततः
प्रातश्च बोधितो मात्रा तल्पादुत्थाय सत्वरः । कृत्वा कृष्णो दंतकाष्ठं बलदेवसमन्वितः
मात्रानुमोदितो याति गोशालां सखिभिर्वृतः । राधापि बोधिता विप्र वयस्याभिः स्वतल्पतः
उत्थाय दंतकाष्ठादि कृत्वाभ्यंगं समाचरेत् । स्नानवेदीं ततो गत्वा स्नापिता सा निजालिभिः
भूषागृहे व्रजेत्तत्र वयस्या भूषयंत्यपि । भूषणैर्विविधैर्दिव्यैर्गंधमाल्यानुलेपनैः
ततः सखीजनैस्तस्याः श्वश्रूं संप्रार्थ्य यत्नतः । कर्तुमाहूयतेस्वन्नं ससखी सा यशोदया
नारद उवाच- कथमाहूयते देवि पाकार्थं तु यशोदया । सतीषु पाककर्त्रीषु रोहिणीप्रमुखास्वपि
वृंदोवाच- पूर्वं दुर्वाससा दत्तो वरस्तस्यै महामुने । इति कात्यायनी वक्त्राच्छ्रुतमासीन्मया पुरा
त्वया यत्पच्यते देवि तदन्नं मदनुग्रहात् । मिष्टं स्यादमृतस्पर्द्धि भोक्तुरायुष्करं तथा
इत्याह्वयति तां नित्यं यशोदा पुत्रवत्सला । आयुष्मान्मे भवेत्पुत्रः स्वादुलोभात्तथा सती
श्रुत्वानुमोदिता हृष्टा सापि नंदालयं व्रजेत् । ससखीप्रकरा तत्र गत्वा पाकं करोति च
कृष्णोऽपि दुग्ध्वा गाः काश्चिद्दोहयित्वा जनैः पराः । आगच्छति पितुर्वाक्यात्स्वगृहं सखिभिर्वृतः
अभ्यंगमर्दनं कृत्वा दासैः संस्नापितो मुदा । धौतवस्त्रधरः स्रग्वी चंदनाक्तकलेवरः
द्विफालबद्धचिकुरैर्ग्रीवा भालोपरिस्फुरन् । चंद्राकारस्फुरद्भालतिलकालकरंजितः
कंकणांगदकेयूर रत्नमुद्रा लसत्करः । मुक्ताहारस्फुरद्वक्षा मकराकृतिकुंडलः
मुहुराकारितो मात्रा प्रविशेद्भोजनालयम् । अवलंब्य करं सख्युर्बलदेवमनुव्रतः
भुंक्तेऽथ विविधान्नानि भ्रात्रा च सखिभिर्वृतः । हासयन्विविधैर्हास्यैः सखींस्तैर्हसति स्वयम्
इत्थं भुक्त्वा तथाचम्य दिव्यखट्वोपरि क्षणम् । विश्रम्य सेवकैर्दत्तं तांबूलं विभजन्नदन्
गोपवेषधरः कृष्णो धेनुवृंदपुरस्सरः । व्रजवासिजनैः प्रीत्या सर्वैरनुगतः पथि
पितरं मातरं नत्वा नेत्रांते नापितं गणम् । यथायोग्यं तथा चान्यान्विनिवर्त्य वनं व्रजेत्
वनं प्रविश्य सखिभिः क्रीडयित्वा क्षणं ततः । विहारैर्विविधैस्तत्र वने विक्रीडते मुदा