तस्मात्सर्वप्रयत्नेन मत्प्रियां शरणं व्रजेत् । आश्रित्य मत्प्रियां रुद्र मां वशीकर्त्तुमर्हसि
इदं रहस्यं परमं मया ते परिकीर्तितम् । त्वयाप्येतन्महादेव गोपनीयं प्रयत्नतः
त्वमप्येनां समाश्रित्य राधिकां मम वल्लभाम् । जपन्मे युगलं मंत्रं सदा तिष्ठ मदालये
शिव उवाच-। इत्युक्त्वा दक्षिणे कर्णे मम कृष्णो दयानिधिः । उपदिश्य परं मंत्रं संस्कारांश्च विधाय हि
सगणोंऽतर्दधे विप्र तत्रैव मम पश्यतः । अहमप्यत्र तिष्ठामि तदारभ्य निरंतरम्
सर्वमेतन्मया तुभ्यं सांगमेव प्रकीर्त्तितम् । अधुना वद विप्रेंद्र किं भूयः श्रोतुमिच्छसि
नारद उवाच- भगवन्सर्वमाख्यातं यद्यत्पृष्टं मया गुरो । अधुना श्रोतुमिच्छामि भावमार्गमनुत्तमम्
शिव उवाच- साधु विप्र त्वया पृष्टं सर्वलोकहितैषिणा । रहस्यमपि वक्ष्यामि तन्मे निगदतः शृणु
दास्यः सखायः पितरौ प्रेयस्यश्च हरेरिह । सर्वे नित्या मुनिश्रेष्ठ वसंति गुणशालिनः
यथा प्रकटलीलायां पुराणेषु प्रकीर्तिताः । तथा ते नित्यलीलायां संति वृंदावने भुवि
गमनागमने नित्यं करोति वनगोष्ठयोः । गोचारणं वयस्यैश्च विनाऽसुरविघातनम्
करकीयाभिमानिन्यस्तथा तस्य प्रिया जनाः । प्रच्छन्नेनैव भावेन रमयंति निजप्रियम्
आत्मानं चिंतयेत्तत्र तासां मध्ये मनोरमाम् । रूपयौवनसंपन्नां किशोरीं प्रमदाकृतिम्
नानाशिल्पकलाभिज्ञां कृष्णभोगानुरूपिणीम् । प्रार्थितामपि कृष्णेन तत्र भोगपराङ्मुखीम्
राधिकानुचरीं तत्र तत्सेवनपरायणाम् । कृष्णादप्यधिकं प्रेम राधिकायां प्रकुर्वतीम्
प्रीत्यानुदिवसं यत्नात्तयोः संगमकारिणीम् । तत्सेवनसुखाह्लादभावेनातिसुनिर्वृताम्
इत्यात्मानं विचिंत्यैव तत्र सेवां समाचरेत् । ब्राह्मं मुहूर्त्तमारभ्य यावत्स्यात्तु महानिशा
नारद उवाच- हरेर्दैनंदिनीं लीलां श्रोतुमिच्छामि तत्त्वतः । लीलामजानता सेव्यो मनसा तु कथं हरिः
शिव उवाच- नाहं जानामि तां लीलां हरेर्नारदतत्त्वतः । वृंदादेवीमितो गच्छ सा ते लीलां प्रवक्ष्यति
अविदूर इतः स्थानात्केशीतीर्थसमीपतः । सखीसंघवृता सास्ते गोविंदपरिचारिका
सूत उवाच- इत्युक्तस्तं परिक्रम्य हृष्टो नत्वा पुनः पुनः । वृंदाश्रमं जगामाथ नारदो मुनिसत्तमः
वृंदापि नारदं दृष्ट्वा प्रणम्य च पुनःपुनः । उवाच च मुनिश्रेष्ठ कथमत्रागतिस्तव
नारद उवाच- त्वत्तो वेदितुमिच्छामि नैत्यकं चरितं हरेः । तदादितो मम ब्रूहि यदि योग्योऽस्मि शोभने
वृंदोवाच- रहस्यमपिवक्ष्यामि कृष्णभक्तोसि नारद । न प्रकाश्यं त्वयाप्येतद्गुह्याद्गुह्यतरं महत्
मध्ये वृंदावने रम्ये पंचाशत्कुंजमंडिते । कल्पवृक्षनिकुंजे तु दिव्यरत्नमये गृहे
निद्रितौ तिष्ठतस्तल्पे निबिडालिंगितौ मिथः । मदाज्ञाकारिभिः पश्चात्पक्षिभिर्बोधितावपि
गाढालिंगनजानंदमाप्तौ तद्भंगकातरौ । न मनः कुरुतस्तल्पात्समुत्थातुं मनागपि
ततश्च सारिकासंघैः शुकाद्यैः परितो मुहुः । बोधितौ विविधैर्वाक्यैः स्वतल्पादुदतिष्ठताम्
उपविष्टौ ततो दृष्ट्वा सख्यस्तल्पे मुदान्वितौ । प्रविश्य सेवां कुर्वंति तत्काले ह्युचितां तयोः
पुनश्च सारिकावाक्यैस्तावुत्थाय स्वतल्पतः । गच्छतः स्वस्वभवनं भीत्युत्कंठाकुलौ ततः