यदद्य मे त्वया दृष्टमिदं रूपमलौकिकम् । घनीभूतामलप्रेम सच्चिदानंदविग्रहम्
नीरूपं निर्गुणं व्यापि क्रियाहीनं परात्परम् । वदंत्युपनिषत्संघा इदमेव ममानघम्
प्रकृत्युत्थगुणाभावादनंतत्वात्तथेश्वरम् । असिद्धत्वान्मद्गुणानां निर्गुणं मां वदंति हि
अदृश्यत्वान्ममैतस्य रूपस्य चर्मचक्षुषा । अरूपं मां वदंत्येते वेदाः सर्वे महेश्वर
व्यापकत्वाच्चिदंशेन ब्रह्मेति च विदुर्बुधाः । अकर्तृत्वात्प्रपंचस्य निष्क्रियं मां वदंति हि
मायागुणैर्यतोमेंऽशा कुर्वंति सर्जनादिकम् । न करोमि स्वयं किंचित्सृष्ट्यादिकमहं शिव
अहमासां महादेव गोपीनां प्रेमविह्वलः । क्रियांतरं न जानामि नात्मानमपि नारद
विहराम्यनया नित्यमस्याः प्रेमवशीकृतः । इमां तु मत्प्रियां विद्धि राधिकां परदेवताम्
अस्याश्च परितः पश्य सख्यः शतसहस्रशः । नित्याः सर्वा इमा रुद्र यथाहं नित्यविग्रहः
गोपा गावो गोपिकाश्च सदा वृंदावनं मम । सर्वमेतन्नित्यमेव चिदानंदरसात्मकम्
इदमानंदकंदाख्यं विद्धि वृंदावनं मम । यस्मिन्प्रवेशमात्रेण न पुनः संसृतिं विशेत्
मद्वनं प्राप्य यो मूढः पुनरन्यत्र गच्छति । स आत्महा भवेदेव सत्यं सत्यं मयोदितम्
वृंदावनं परित्यज्य नैव गच्छाम्यहं क्वचित् । निवसाम्यनया सार्द्धमहमत्रैव सर्वदा
इत्येवं सर्वमाख्यातं यत्ते रुद्र हृदि स्थितम् । कथयस्व ममेदानीं किमन्यच्छ्रोतुमिच्छसि
ततस्तमब्रवं देवमहं च मुनिसत्तम । ईदृशस्त्वं कथं लभ्यस्तमुपायं वदस्व मे
ततो मामाह भगवान्साधु रुद्र तवोदितम् । अतिगुह्यतमं ह्येतद्गोपनीयं प्रयत्नतः
सकृदावां प्रपन्नो यस्त्यक्तोपाय उपासते । गोपीभावेन देवेश स मामेति न चेतरः
सकृदावां प्रपन्नो वा मत्प्रियामेकिकामुत । सेवतेनन्यभावेन स मामेति न संशयः
यो मामेव प्रपन्नश्च मत्प्रियां न महेश्वर । न कदापि स चाप्नोति मामेवं ते मयोदितम्
सकृदेव प्रपन्नोयस्तवास्मीति वदेदपि । साधनेन विनाप्येव मामाप्नोति न संशयः
तस्मात्सर्वप्रयत्नेन मत्प्रियां शरणं व्रजेत् । आश्रित्य मत्प्रियां रुद्र मां वशीकर्त्तुमर्हसि
इदं रहस्यं परमं मया ते परिकीर्तितम् । त्वयाप्येतन्महादेव गोपनीयं प्रयत्नतः
त्वमप्येनां समाश्रित्य राधिकां मम वल्लभाम् । जपन्मे युगलं मंत्रं सदा तिष्ठ मदालये
शिव उवाच-। इत्युक्त्वा दक्षिणे कर्णे मम कृष्णो दयानिधिः । उपदिश्य परं मंत्रं संस्कारांश्च विधाय हि
सगणोंऽतर्दधे विप्र तत्रैव मम पश्यतः । अहमप्यत्र तिष्ठामि तदारभ्य निरंतरम्
सर्वमेतन्मया तुभ्यं सांगमेव प्रकीर्त्तितम् । अधुना वद विप्रेंद्र किं भूयः श्रोतुमिच्छसि
नारद उवाच- भगवन्सर्वमाख्यातं यद्यत्पृष्टं मया गुरो । अधुना श्रोतुमिच्छामि भावमार्गमनुत्तमम्
शिव उवाच- साधु विप्र त्वया पृष्टं सर्वलोकहितैषिणा । रहस्यमपि वक्ष्यामि तन्मे निगदतः शृणु
दास्यः सखायः पितरौ प्रेयस्यश्च हरेरिह । सर्वे नित्या मुनिश्रेष्ठ वसंति गुणशालिनः
यथा प्रकटलीलायां पुराणेषु प्रकीर्तिताः । तथा ते नित्यलीलायां संति वृंदावने भुवि