ईशवैष्णवयोर्निंदां शृणुयान्न कदाचन । कर्णौ पिधाय गंतव्यं शक्तौ दंडं समाचरेत्
आश्रित्य चातकीं वृत्तिं देहपातावधि द्विज । द्वयस्यार्थं भावयित्वा स्थेयमित्येव मे मतिः
सरः समुद्र नद्यादीन्विहाय चातको यथा । तृषितो म्रियते वापि याचते वा पयोधरम्
एवमेव प्रयत्नेन साधनानि विचिंतयेत् । स्वेष्टदेवःसदायाच्योगतिस्त्वंमेभवेरिति
स्वेष्टदेव तदीयानां गुरोरपि विशेषतः । आनुकूल्ये सदा स्थेयं प्रातिकूल्यं विवर्जयेत्
सकृत्प्रपन्नो वक्ष्यामि कल्याणगुणतां तयोः । विचिंत्य विश्वसेदेतौ मामिमावुद्धरिष्यतः
संसारसागरान्नाथ मित्र पुत्र गृहा कुलात् । गोप्तारौ मे युवामेव प्रपन्नभयभंजनौ
योहं ममास्ति यत्किंचिदिह लोके परत्र च । तत्सर्वं भवतोरद्य चरणेषु समर्चितम्
अहमस्म्यपराधानामालयस्त्यक्त साधनः । अगतिश्च ततो नाथौ भवंतावेव मे गतिः
तवास्मि राधिकाकांत कर्मणा मनसा गिरा । कृष्णकांते तवैवास्मि युवामेव गतिर्मम
शरणं वां प्रपन्नोऽस्मि करुणानिकराकरौ । प्रसादं कुरु तं दास्यं मयि दुष्टेऽपराधिनि
इत्येवं जपता नित्यं स्थातव्यं पद्यपंचकम् । अचिरादेव तद्दास्यमिच्छता मुनिसत्तम
बाह्यधर्मा मया ह्येते संक्षेपेणोपवर्णिताः । आंतरः परमो धर्मः प्रपन्नानामथोच्यते
कृष्णप्रिया सखीभावं समाश्रित्य प्रयत्नतः । तयोः सेवां प्रकुर्वीत दिवानक्तमतंद्रितः
उक्तो मंत्रस्तदंगानि तथा तस्याधिकारिणः । तद्धर्माश्च तथा तेभ्यः फलं मंत्रस्य नारद
अनुतिष्ठ त्वमप्येतत्तयोर्दास्यमवाप्स्यसि । स्वाधिकारक्षये विप्र संदेहो नात्र कश्चन
सकृन्मात्रप्रपन्नाय तवास्मीति च याचते । निजदास्यं हरिर्दद्यान्न मेऽत्रास्ति विचारणा
अत्र ते वर्णयिष्यामि रहस्यं परमाद्भुतम् । श्रुतपूर्वं मया कृष्णात्साक्षाद्भगवतः परम्
एष ते कथितो धर्म आंतरो मुनिसत्तम । गुह्यादेष गुह्यतमो गोपनीयः प्रयत्नतः
मंत्ररत्नमहं पूर्वं जपन्कैलासमूर्द्धनि । ध्यायन्नारायणं देवमवसं गहने वने
ततस्तु भगवांस्तुष्टः प्रादुरास ममाग्रतः । व्रियतां वर इत्युक्ते मयाप्युद्घाट्य लोचने
दृष्टो देवःप्रिया सार्द्धं संस्थितो गरुडोपरि । प्रणिपत्यावोचमहं वरदं कमलापतिम्
यद्रूपं ते कृपासिंधो परमानंददायकम् । सर्वानंदाश्रयं नित्यं मूर्तिमत्सर्वतोऽधिकम्
निर्गुणं निष्क्रियं शांतं यद्ब्रह्मेति विदुर्बुधाः । तदहं द्रष्टुमिच्छामि चक्षुर्भ्यां परमेश्वर
ततो मामाह भगवान्प्रपन्नं कमलापतिः । तदद्य द्रक्ष्यसे रूपं यत्ते मनसि कांक्षितम्
यमुना पश्चिमे तीरे गच्छ वृंदावनं मम । इत्युक्त्वांतर्दधे देवः प्रियासार्द्धं जगत्पतिः
अहमप्यागतस्तर्हि यमुनायास्तटं शुभम् । तत्र कृष्णमपश्यं च सर्वदेवेश्वरेश्वरम्
गोपवेषधरं कांतं किशोरवयसान्वितम् । प्रियास्कंधे सुविन्यस्त वामहस्तं मनोहरम्
हसंतं हासयतं तां मध्ये गोपीकदंबके । स्निग्धमेघसमाभासं कल्याणगुणमंदिरम्
प्रहस्य च ततः कृष्णो मामाहामृतभाषणः । अहं ते दर्शनं यातो ज्ञात्वा रुद्र तवेप्सितम्