ततोऽतिभक्त्या सस्नेहं वैष्णवान्भोजयेद्बुधः । श्रीगुरुं पूजयेच्चापि वस्त्रालंकरणादिभिः
सर्वस्वं गुरवे दद्यात्तदर्द्धं वा महामुने । स्वदेहमपि निक्षिप्य गुरौ स्थेयमकिंचनैः
य एतैः पंचभिर्विद्वान्संस्कारैः संस्कृतो भवेत् । दास्यभागी स कृष्णस्य नान्यथा कल्पकोटिभिः
अंकनं चोर्द्ध्वपुंड्रश्च मंत्रो नामविधारणम् । पंचमो याग इत्युक्ताः संस्काराः पूर्वसूरिभिः
अंकनं शंखचक्राद्यैः सच्छिद्रं पुंड्रमुच्यते । दासशब्दयुतं नाममंत्रो युगलसंज्ञकः
गुरुवैष्णवयोः पूजा याग इत्यभिधीयते । एते परमसंस्कारा मया ते परिकीर्तिताः
अथ तुभ्यं प्रपन्नानां धर्मान्वक्ष्यामि नारद । यानास्थाय गमिष्यंति हरिधाम नराः कलौ
इत्थं गुरोर्लब्धमंत्रो गुरुभक्तिपरायणः । सेवमानो गुरुं नित्यं तत्कृपां भावयेत्सुधीः
सतां धर्मां स्ततः शिक्षेत्प्रपन्नानां विशेषतः । स्वेष्टदेवधिया नित्यं वैष्णवान्परितोषयेत्
ताडनं भर्त्सनं कामिभोग्यत्वेन यथा स्त्रियः । गृह्णंति वैष्णवानां च तत्तद्ग्राह्यं तथा बुधैः
ऐहिक्यामुष्मिकी चिंता नैव कार्या कदाचन । ऐहिकं तु सदा भाव्यं पूर्वाचरितकर्मणा
आमुष्मिकं तथा कृष्णः स्वयमेव करिष्यति । अतो हि तत्कृते त्याज्यः प्रयत्नः सर्वथा नरैः
सर्वोपायपरित्यागः कृष्णीयात्मतयार्चनम् । सुचिरं प्रोषिते कांते यथा पतिपरायणा
प्रियानुरागिणी दीना तस्यसंगैककांक्षिणी । तद्गुणान्भावयेन्नित्यं गायत्यपि शृणोति च
श्रीकृष्णगुणलीलादि स्मरणादि तथाचरेत् । न पुनः साधनत्वेन कार्यं तत्तु कदाचन
चिरं प्रोष्यागतं कांतं प्राप्य कांतधिया यथा । चुंबंती वा श्लिष्यंतीव नेत्रांते न पिबंत्यपि
ब्रह्मानंदगतेवाशु सेवते परया मुदा । श्रीमदर्चावतारेण तथा परिचरेद्धरिम्
अनन्यशरणो नित्यं तथैवानन्यसाधनः । अनन्यसाधनार्थत्वात्स्यादनन्य प्रयोजनः
नान्यं च पूजयेद्देवं न नमेत्तं स्मरेन्न च । न च पश्येन्न गायेच्च न च निंदेत्कदाचन
नान्योच्छिष्टं च भुंजीत नान्यशेषं च धारयेत् । अवैष्णवानां संभाषा वंदनादि विवर्जयेत्
ईशवैष्णवयोर्निंदां शृणुयान्न कदाचन । कर्णौ पिधाय गंतव्यं शक्तौ दंडं समाचरेत्
आश्रित्य चातकीं वृत्तिं देहपातावधि द्विज । द्वयस्यार्थं भावयित्वा स्थेयमित्येव मे मतिः
सरः समुद्र नद्यादीन्विहाय चातको यथा । तृषितो म्रियते वापि याचते वा पयोधरम्
एवमेव प्रयत्नेन साधनानि विचिंतयेत् । स्वेष्टदेवःसदायाच्योगतिस्त्वंमेभवेरिति
स्वेष्टदेव तदीयानां गुरोरपि विशेषतः । आनुकूल्ये सदा स्थेयं प्रातिकूल्यं विवर्जयेत्
सकृत्प्रपन्नो वक्ष्यामि कल्याणगुणतां तयोः । विचिंत्य विश्वसेदेतौ मामिमावुद्धरिष्यतः
संसारसागरान्नाथ मित्र पुत्र गृहा कुलात् । गोप्तारौ मे युवामेव प्रपन्नभयभंजनौ
योहं ममास्ति यत्किंचिदिह लोके परत्र च । तत्सर्वं भवतोरद्य चरणेषु समर्चितम्
अहमस्म्यपराधानामालयस्त्यक्त साधनः । अगतिश्च ततो नाथौ भवंतावेव मे गतिः
तवास्मि राधिकाकांत कर्मणा मनसा गिरा । कृष्णकांते तवैवास्मि युवामेव गतिर्मम