सर्वलक्ष्मीस्वरूपा सा कृष्णाह्लादस्वरूपिणी । ततः सा प्रोच्यते विप्र ह्लादिनीति मनीषिभिः
तत्कलाकोटिकोट्यंश दुर्गाद्यास्त्रिगुणात्मिकाः । सा तु साक्षान्महालक्ष्मीः कृष्णो नारायणः प्रभुः
नैतयोर्विद्यते भेदः स्वल्पोऽपि मुनिसत्तम । इयं दुर्गा हरी रुद्रः कृष्णः शक्र इयं शची
सावित्रीयं हरिर्ब्रह्मा धूमोर्णासौ यमो हरिः । बहुना किं मुनिश्रेष्ठ विना ताभ्यां न किंचन
चिदचिल्लक्षणं सर्वं राधाकृष्णमयं जगत् । इत्थं सर्वं तयोरेव विभूतिं विद्धि नारद
न शक्यते मया वक्तुं वर्षकोटिशतैरपि । त्रैलोक्ये पृथिवी मान्या जंबूद्वीपं ततोवरम्
तत्रापि भारतं वर्षं तत्रापि मथुरापुरी । तत्र वृंदावनं नाम तत्र गोपीकदंबकम्
तत्र राधासखीवर्गस्तत्रापि राधिका वरा । सांनिध्याधिक्यतस्तस्या आधिक्यं स्याद्यथोत्तरम्
पृथिवी प्रभृतीनां तु नान्यत्किंचिदिहोदितम् । सैषा हि राधिका गोपी जनस्तस्याः सखीगणः
तस्याः सखीसमूहस्य वल्लभौ प्राणनायकौ । राधाकृष्णौ तयोः पादाः शरणं स्यादिहाश्रये
प्रपद्ये गतवानस्मि जीवोऽहं भृशदुःखितः । सोऽहं यः शरणं प्राप्तो मम तस्य यदस्ति च
सर्वं ताभ्यां तदर्थं हि तद्भोग्यं न ह्यहं मम । इत्यसौ कथितो विप्र मंत्रस्यार्थः समासतः
युगलार्थस्तथा न्यासः प्रपत्तिः शरणागतिः । आत्मार्पणमिमे पंच पर्यायास्ते मयोदिताः
अयमेव चिंतनीयो दिवानक्तमतंद्रितैः
इति श्रीपद्मपुराणे पातालखंडे वृंदावनमाहात्म्ये एकाशीतितमोऽध्यायः
शिव उवाच- अथ दीक्षाविधिं वक्ष्ये शृणु नारद तत्त्वतः । श्रवणादेव मुच्येत विना तस्य विधानतः
आविरंच्याज्जगत्सर्वं विज्ञाय नश्वरं बुधः । आध्यात्मिकादि त्रिविध दुःखमेवानुभूय च
अनित्यत्वाच्च सर्वेषां सुखानां मुनिसत्तम । दुःखपक्षे विनिक्षिप्य तानि तेभ्यो विवर्जितः
विरज्य संसृतेर्हानौ साधनानि विचिंतयेत् । अनुत्तमसुखस्यापि संप्राप्तौ भृशनिर्वृतः
नराणां दुष्करत्वं हि विज्ञाय च महामतिः । भृशमार्त्तस्ततो विप्र मां गुरुं शरणं व्रजेत्
शांतो विमत्सरः कृष्णे भक्तोऽनन्यप्रयोजनः । अनन्यसाधनः श्रीमान्कामलोभविवर्जितः
श्रीकृष्णरसतत्त्वज्ञः कृष्णमंत्रविदां वरः । कृष्णमंत्राश्रयो नित्यं मंत्रभक्तः सदा शुचिः
सद्धर्मशासकोनित्यं सदाचारनियोजकः । संप्रदायी कृपापूर्णो विरागी गुरुरुच्यते
एवमादिगुणः प्रायः शुश्रूषुर्गुरुपादयोः । गुरौ नितांतभक्तश्च मुमुक्षुः शिष्य उच्यते
यत्साक्षात्सेवनं तस्य प्रेम्णा भागवतो भवेत् । स मोक्षः प्रोच्यते प्राज्ञैर्वेदवेदांगवेदिभिः
आश्रित्य स्वगुरोः पादौ निजवृत्तं निवेदयेत् । स संदेहानपाकृत्य बोधयित्वा पुनः पुनः
स्वपादप्रणतं शांतं शुश्रूषुं निजपादयोः । अतिहृष्टमनाः शिष्यं मनुमध्यापयेत्परम्
चंदनेन मृदा वापि विलिखेद्बाहुमूलयोः । वामदक्षिणयोर्विप्र शंखचक्रे यथाक्रमम्
ऊर्द्ध्वपुंड्रं ततः कुर्याद्भालादिषु विधानतः । ततोमंत्रद्वयं तस्य दक्षकर्णे विनिर्दिशेत्
मंत्रार्थं च वदेत्तस्मै यथावदनुपूर्वशः । दासशब्दयुतं नाम धार्यं तस्य प्रयत्नतः