यदि भक्तिर्भवेदेषां कृष्णे सर्वेश्वरेश्वरे । तदाधिकारिणः सर्वे नान्यथा मुनिसत्तम
याज्ञिको दाननिरतः सर्वतंत्रोपसेवकः । सत्यवादी यतिर्वापि वेदवेदांगपारगः
ब्रह्मनिष्ठः कुलीनो वा तपस्वी व्रततत्परः । अत्राधिकारी न भवेत्कृष्णभक्तिविवर्जितः
तस्मादकृष्णभक्ताय कृतघ्नाय न मानिने । न च श्रद्धाविहीनाय वक्तव्यं नास्तिकाय च
न चाशुश्रूषवे वाच्यं नासंवत्सरसेविने । श्रीकृष्णेऽनन्यभक्ताय दंभलोभविवर्जिने
कामक्रोधविमुक्ताय देयमेतत्प्रयत्नतः । ऋषिश्चैवाहमेतस्य गायत्रीछंद उच्यते
देवता बल्लवीकांतो मंत्रस्य परिकीर्तितः । सप्रियस्य हरेर्दास्ये विनियोग उदाहृतः
आचक्राद्यैस्तथा मंत्रैः पंचांगानि प्रकल्पयेत् । अथवापि स्वबीजेन करांगन्यासकौ चरेत्
मंत्रस्य प्रथमो वर्णो बिंदुना मूर्ध्निभूषितः । गमित्येवं भवेद्बीजं नमः शक्तिरिहोदिता
अंतिमार्णैर्दशांगानि तैरेव च तथार्चनम् । गंधपुष्पादिभिस्तच्च जलैरेवाप्यसंभवे
न्यासपूर्वविधानेन कर्तव्यं हरितुष्टये । अतएवास्य मंत्रस्य न्यासाद्यन्ये वदंति च
सकृदुच्चारणादेव कृतकृत्यत्वदायिनः । तथापि दशधा नित्यं जपाद्यर्थं प्रविन्यसेत्
अथ ध्यानं प्रवक्ष्यामि मंत्रस्यास्य द्विजोत्तम । पीतांबरं घनश्यामं द्विभुजं वनमालिनम्
बर्हिबर्हकृतोत्तंसं शशिकोटिनिभाननम् । घूर्णायमाननयनं कर्णिकारावतंसिनम्
अभितश्चंदनेनाथ मध्ये कुंकुमबिंदुना । रचितं तिलकं भाले बिभ्रतं मंडलाकृतिम्
तरुणादित्यसंकाशं कुंडलाभ्यां विराजितम् । घर्माम्बुकणिकाराजद्दर्पणाभकपोलकम्
प्रियास्य न्यस्तनयनं लीलापांगोन्नतभ्रुवम् । अग्रभागन्यस्तमुक्ता विस्फुरत्प्रोच्चनासिकम्
दशनज्योत्स्नया राजत्पक्वबिंबफलाधरम् । केयूरांगदसद्रत्नमुद्रिकाभिर्लसत्करम्
बिभ्रतं मुरलद्यं वामे पाणौ पद्मं तथैव च । कांचीदामस्फुरन्मध्यं नूपुराभ्यां लसत्पदम्
रतिकेलिरसावेश चपलं चपलेक्षणम् । हसंतं प्रियया सार्द्धं हासयंतं च तां मुहुः
इत्थं कल्पतरोर्मूले रत्नसिंहासनोपरि । वृंदारण्ये स्मरेत्कृष्णं संस्थितं प्रियया सह
वामपार्श्वे स्थितां तस्य राधिकां च स्मरेत्ततः । नीलचोलकसंवीतां तप्तहेमसमप्रभाम्
पट्टांचलेनावृतार्द्ध सुस्मेराननपंकजाम् । कांतवक्त्रे न्यस्तनेत्रां चकोरी चंचलेक्षणाम्
अंगुष्ठतर्जनीभ्यां च निजकांतमुखांबुजे । अर्पयंतीं पूगफलं पर्णचूर्णसमन्वितम्
मुक्ताहारस्फुरच्चारु पीनोन्नतपयोधराम् । क्षीणमध्यां पृथुश्रोणीं किंकिणीजालमंडिताम्
रत्नताटंककेयूरमुद्रा वलयधारिणीम् । रणत्कटकमंजीर रत्नपादांगुलीयकाम्
लावण्यसारमुग्धांगीं सर्वावयवसुंदरीम् । आनंदरससंमग्नां प्रसन्नां नवयौवनाम्
सख्यश्च तस्या विप्रेंद्र तत्समानवयोगुणाः । तत्सेवनपराभाव्याश्चामरव्यजनादिभिः
अथ तुभ्यं प्रवक्ष्यामि मंत्रार्थं शृणु नारद । बहिरंगैः प्रपंचस्य स्वांशैर्मायादि शक्तिभिः
अंतरंगैस्तथा नित्यविभूतैस्तैश्चिदादिभिः । गोपनादुच्यते गोपी राधिका कृष्णवल्लभा । देवी कृष्णमयी प्रोक्ता राधिका परदेवता