गुरोः शिष्यस्य मंत्रस्य विधानं लक्षणं पृथक् । वदास्माकं महाभाग त्वं हि नः परमः सुहृत्
सूत उवाच- एकदा यमुनातीरे समासीनं जगद्गुरुम् । नारदः प्रणिपत्याह देवदेवं सदाशिवम्
नारद उवाच- देवदेव महादेव सर्वज्ञ जगदीश्वर । भगवद्धर्मतत्त्वज्ञ कृष्णमंत्रविदां वर
कृष्णमंत्रा मया लब्धास्त्वत्तो ये च पितुः परे । ते सर्वे साधितास्तत्वान्मंत्रराजादयो मया
बहुवर्षसहस्रैस्तु शाकमूलफलाशिना । शुष्कपर्णांबुवाय्वादि भोजिना च निराशिना
स्त्रीणां संदर्शनालापवर्जिना भूमिशायिना । कामादिषड्गुणं जित्वा बाह्येंद्रियनियम्यता
एवंकृतेऽपि नैवात्मा संतुष्टो मम शंकर । तद्ब्रूहि यत्प्रसिध्येत संस्काराद्यैर्विना प्रभो
सकृदुच्चारणादेव ददाति फलमुत्तमम् । यदि योग्योऽस्मि देवेश तदा मे कृपया वद
शिव उवाच- साधु पृष्टं महाभाग त्वया लोकहितैषिणा । सुगोप्यमपि वक्ष्यामि मंत्रचिंतामणिं तव
रहस्यानां रहस्यं यद्गुह्यानां गुह्यमुत्तमम् । न मया कथितं देव्यै नाग्रजेभ्यः पुरा तव
वक्ष्यामि युगलं तुभ्यं कृष्णमंत्रमनुत्तमम् । मंत्रचिंतामणिर्नाम युगलं द्वयमेव च
पर्याया अस्य मंत्रस्य तथा पंचपदीति च । गोपीजनपदं वल्लभां तं तु चरणानिति
शरणं च प्रपद्ये च एष पंचपदात्मकः । मंत्रचिंतामणिः प्रोक्तः षोडशार्णो महामनुः
नमो गोपीजनेत्युक्त्वा वल्लभाभ्यां वदेत्ततः । पदद्वयात्मको मंत्रो दशार्णः खलु कथ्यते
एतां पंचपदीं जप्त्वा श्रद्धयाश्रद्धया सकृत् । कृष्णप्रियाणां सान्निध्यं गच्छत्येव न संशयः
न पुरश्चरणप्रेक्षा नास्य न्यासविधिक्रमः । न देशकालनियमो नारिमित्रादिशोधनम्
सर्वेऽधिकारिणश्चात्र चंडालांता मुनीश्वर । स्त्रियः शूद्रादयश्चापि जडमूकादि पंगवः
अन्ये हूणाः किराताश्च पुलिंदाः पुष्कसास्तथा । आभीराय वनाः कंकाः खसाद्याः पापयोनयः
दंभाहंकारपरमाः पापाः पैशुन्यतत्पराः । गोब्राह्मणादि हंतारो महोपपातकान्विताः
ज्ञानवैराग्यरहिताः श्रवणादिविवर्जिताः । एते चान्ये च सर्वे स्युर्मनोरस्याधिकारिणः
यदि भक्तिर्भवेदेषां कृष्णे सर्वेश्वरेश्वरे । तदाधिकारिणः सर्वे नान्यथा मुनिसत्तम
याज्ञिको दाननिरतः सर्वतंत्रोपसेवकः । सत्यवादी यतिर्वापि वेदवेदांगपारगः
ब्रह्मनिष्ठः कुलीनो वा तपस्वी व्रततत्परः । अत्राधिकारी न भवेत्कृष्णभक्तिविवर्जितः
तस्मादकृष्णभक्ताय कृतघ्नाय न मानिने । न च श्रद्धाविहीनाय वक्तव्यं नास्तिकाय च
न चाशुश्रूषवे वाच्यं नासंवत्सरसेविने । श्रीकृष्णेऽनन्यभक्ताय दंभलोभविवर्जिने
कामक्रोधविमुक्ताय देयमेतत्प्रयत्नतः । ऋषिश्चैवाहमेतस्य गायत्रीछंद उच्यते
देवता बल्लवीकांतो मंत्रस्य परिकीर्तितः । सप्रियस्य हरेर्दास्ये विनियोग उदाहृतः
आचक्राद्यैस्तथा मंत्रैः पंचांगानि प्रकल्पयेत् । अथवापि स्वबीजेन करांगन्यासकौ चरेत्
मंत्रस्य प्रथमो वर्णो बिंदुना मूर्ध्निभूषितः । गमित्येवं भवेद्बीजं नमः शक्तिरिहोदिता
अंतिमार्णैर्दशांगानि तैरेव च तथार्चनम् । गंधपुष्पादिभिस्तच्च जलैरेवाप्यसंभवे