नालिकेरं च धात्रीं च पनसं च हरीतकीम् । अन्यैश्च वृक्षखंडैश्च सर्वर्तुकुसुमान्वितैः
अन्यैश्च विविधैश्चैव फलपुष्पसमन्वितैः । वितानैः कुसुमोद्दामैर्वारिपूर्णघटैस्तथा
चूतशाखोपशाखाभिः शोभितं छत्रचामरैः । जयकृष्णेति संस्मृत्य प्रदक्षिणपुरस्सरम्
विशेषतः कलियुगे दोलोत्सवो विधीयते । फाल्गुने च चतुर्दश्यामष्टमे यामसंज्ञके
अथवा पौर्णमास्यां तु प्रतिपत्संधिसंज्ञके । पूजयेद्विधिवद्भक्त्या फल्गुचूर्णैश्चतुर्विधैः
सितरक्तैर्गौरपीतैः कर्पूरादि विमिश्रितैः । हरिद्रारागयोगाच्च रंगरूपैर्मनोहरैः
अन्यैर्वा रंगरूपैश्च प्रीणयेत्परमेश्वरम् । एकादश्यां समारभ्य पंचम्यां तं समापयेत्
पंचाहानि त्र्यहानि वा दोलोत्सवो विधीयते । दक्षिणाभिमुखं कृष्णं दोलमानं सकृन्नराः
दृष्ट्वापराधनिचयैर्मुक्तास्ते नात्र संशयः । निक्षिप्य जलपात्रे च मासि माधवसंज्ञके
सौवर्णपात्रे रौप्ये वा ताम्रे वाप्यथ मृण्मये । तोयस्थं योऽर्चयेद्देवं शालग्रामसमुद्भवम्
प्रतिमां वा महाभागे तस्य पुण्यं न गण्यते । दमनारोपणं कृत्वा श्रीविष्णौ च समर्पयेत्
वैशाखे श्रावणे भाद्रे कर्तव्यं वा तदर्पणम् । पूर्वेपूर्वे तु वातस्थे दमनादिषु कर्मसु
प्रकर्तव्यं विधानेन अन्यथा निष्फलं भवेत् । वैशाखे च तृतीयायां जलमध्ये विशेषतः
अथवा मंडले कुर्यान्मंडपे वा बृहद्वने । सुगंधचंदनेनांगं सुपुष्टं च दिनेदिने
यथाप्रयत्नतः कुर्यात्कृशांगस्येव पुष्टिदम् । चंदनागुरु ह्रीबेर कृष्णकुंकुम रोचना
जटामांसी मुरा चैव विष्णोर्गंधाष्टकं विदुः । तैस्तैर्गंधयुतैश्चापि विष्णोरंगानि लेपयेत्
धृष्टं च तुलसीकाष्ठं कर्पूरागुरुयोगतः । अथवा केसरैर्योज्यं हरिचंदनमुच्यते
यात्राकाले च ये कृष्णं भक्त्या पश्यंति मानवाः । न तेषां पुनरावृत्तिः कल्पकोटिशतैरपि
सुगंधमिश्रितैस्तोयैर्देवदेवं गलंति ये । अथवा पुष्पमध्ये तु स्थापयेज्जगदीश्वरम्
वृंदावनं तत्र गत्वा उपस्कृत्य फलानि च । विष्णुभक्तेन योग्येन भोजयेत्तदशेषतः
नारिकेलफलं बीजकोशं चोद्धृत्य दापयेत् । घोंटाफलं च पनसं कोशमुद्धृत्य दापयेत्
दध्ना विमिश्रितं चान्नं घृतेनाप्लुत्य दापयेत् । पाचितं पिष्टकं पूपमष्टादशघृतेन च
तैलैश्च तिलसंमिश्रैः फलं पक्वं प्रदापयेत् । यद्यदेवात्मनः प्रीतं तत्तदीशाय दापयेत्
दत्वा नैवेद्यवस्त्रादि नाददीत कथंचन । त्यक्तं च विष्णुमुद्दिश्य तद्भक्तेभ्यो विशेषतः
इति ते कथितं किंचित्समासेन महेश्वरि । गोपनीयं प्रयत्नेन स्वयोनिरिव पार्वति
श्रीकृष्णरूपगुणवर्णन शास्त्रवर्गबोधाधिकार इह चेदलमन्यपाठैः । तत्प्रेमभावरसभक्तिविलास नामहारेषु चेत्खलु मनः किमु कामिनीभिः
तच्चेतसा प्रभजतां व्रजबालकेंद्रं वृंदावनक्षितितलं यमुनाजलं च । तल्लोकनाथपदपंकजधूलिमिश्रलिप्तं वपुः किल वृथागरुचंदनाद्यैः
इति श्रीपद्मपुराणे पातालखंडे उमामहेश्वरसंवादे वृंदावनमाहात्म्ये अशीतितमोऽध्यायः
ऋषय ऊचु- सूत जीव चिरं साधो श्रीकृष्णचरितामृतम् । त्वया प्रकाशितं सर्वं भक्तानां भवतारणम्
श्रीकृष्णलीलां निखिलां ब्रूहि दैनंदिनीं प्रभो । ययाकर्णितया साधो कृष्णे भक्तिर्विवर्द्धते