ब्रह्महत्यासहस्राणि ज्ञाता ज्ञातकृतानि च । स्वर्णस्तेयसुरापान गुरुतल्पायुतानि च
कोटिकोटिसहस्राणि ह्युपपापानि यानि च । सर्वाण्यथ प्रणश्यंति पौर्णमास्यां तु वासरे
आसिंचेदच्युतं मूर्ध्नि तदैतत्कलशोदकम् । पुरुषसूक्तेन मंत्रेण पावमानीभिरेव च
नालिकेरोदकेनाथ तथा तालफलांबुना । रत्नोदकेन गंधेन तथा पुष्पोदकेन च
पंचोपचारैराराध्य यथाविभवविस्तरैः । घं घंटायै नम इति घंटावाद्यं प्रदापयेत्
पतितस्य महाध्वानन्यस्तपातकसंचये । पाहि मां पापिनं घोरसंसारार्णवपातिनम्
य एवं कुरुते विद्वान्ब्राह्मणः श्रोत्रियः शुचिः । सर्वपापैः प्रमुच्येत विष्णुलोकं स गच्छति
आषाढशुक्लैकादश्यां कुर्यात्स्वापमहोत्सवम् । आषाढे च रथं कुर्याच्छ्रावणे श्रवणाविधिम्
भाद्रे च जन्मदिवस उपवासपरो भवेत् । प्रसुप्तस्य परीवर्तमाश्विने मासि कारयेत्
उत्थानं श्रीहरेः कुर्यादन्यथा विष्णुद्रोहकृत् । शुभे चैवाश्विने मासि महामायां च पूजयेत्
सौवर्णीं राजतीं वापि विष्णुरूपां बलिं विना । हिंसाद्वेषौ न कर्तव्यौ धर्मात्मा विष्णुपूजकः
कार्तिके पुष्यमासे च कामतः पुण्यमाचरेत् । दामोदराय दीपं च प्रांशुस्थाने प्रदापयेत्
सप्तवर्तिप्रमाणेन दीपः स्याच्चतुरंगुलः । पक्षांते च प्रकर्तव्या दीपमालावलि शुभा
मार्गशीर्षे सिते पक्षे षष्ठ्यां च सितवस्त्रकैः । पूजयेज्जगदीशं च ब्रह्माणं च विशेषतः
पौषे पुष्पाभिषेकं च वर्जयेच्चंदनं श्लथम् । संक्रांत्यां माघमासे च साधिवासित तंडुलात्
नैवेद्यं विष्णवे दद्यादिमं मंत्रमुदीरयेत् । ब्राह्मणान्भोजयेद्भक्त्या देवदेवपुरः स्थितान्
अभ्यर्च्य भगवद्भक्तान्द्विजांश्च भगवद्धिया । एकस्मिन्भोजिते भक्ते कोटिर्भवति भोजिता
विप्रभोजनमात्रेण व्यंगं सांगं ध्रुवं भवेत् । पंचम्यां शुक्लपक्षे तु स्नापयित्वा च केशवम्
पूजयित्वा विधानेन चूतपल्लवसंयुतैः । फलचूर्णैश्च विविधैर्वासितैः पटसाधितैः
काननं रमणीयं च प्रदीप्तं दीपदीपितम् । द्राक्षेक्षु रंभा जंबीर नागरंगं च पूगकम्
नालिकेरं च धात्रीं च पनसं च हरीतकीम् । अन्यैश्च वृक्षखंडैश्च सर्वर्तुकुसुमान्वितैः
अन्यैश्च विविधैश्चैव फलपुष्पसमन्वितैः । वितानैः कुसुमोद्दामैर्वारिपूर्णघटैस्तथा
चूतशाखोपशाखाभिः शोभितं छत्रचामरैः । जयकृष्णेति संस्मृत्य प्रदक्षिणपुरस्सरम्
विशेषतः कलियुगे दोलोत्सवो विधीयते । फाल्गुने च चतुर्दश्यामष्टमे यामसंज्ञके
अथवा पौर्णमास्यां तु प्रतिपत्संधिसंज्ञके । पूजयेद्विधिवद्भक्त्या फल्गुचूर्णैश्चतुर्विधैः
सितरक्तैर्गौरपीतैः कर्पूरादि विमिश्रितैः । हरिद्रारागयोगाच्च रंगरूपैर्मनोहरैः
अन्यैर्वा रंगरूपैश्च प्रीणयेत्परमेश्वरम् । एकादश्यां समारभ्य पंचम्यां तं समापयेत्
पंचाहानि त्र्यहानि वा दोलोत्सवो विधीयते । दक्षिणाभिमुखं कृष्णं दोलमानं सकृन्नराः
दृष्ट्वापराधनिचयैर्मुक्तास्ते नात्र संशयः । निक्षिप्य जलपात्रे च मासि माधवसंज्ञके
सौवर्णपात्रे रौप्ये वा ताम्रे वाप्यथ मृण्मये । तोयस्थं योऽर्चयेद्देवं शालग्रामसमुद्भवम्