नामसंस्मरणादेव तथा तस्यार्थचिंतनात् । सौवर्णीं राजतीं वापि तथा पैष्टीं स्रगाकृतिम्
पादयोश्चिह्नितां कृत्वा पूजां चैव समारभेत् । दक्षिणस्य पदोंगुष्ठमूले चक्रं बिभर्ति यः
तत्र नम्रजनस्यापि संसारच्छेदनाय च । मध्यमांगुलिमूले तु धत्ते कमलमच्युतः
ध्यातृचित्तद्विरेफाणां लोभनायातिशोभनम् । पद्मस्याधोध्वजं धत्ते सर्वानर्थजयध्वजम्
कनिष्ठामूलतो वज्रं भक्तपापौघभेदनम् । पार्श्वमध्येंऽकुशं भक्तचित्ते रभसकारणम्
भोगसंपन्मयं धत्ते यवमंगुष्ठपर्वणि । मूले गदां च पापाद्रिभेदनीं सर्वदेहिनाम्
सर्वविद्याप्रकाशाय धत्ते स भगवानजः । पद्मादीन्यपि चिह्नानि तत्र दक्षेण यत्पुनः
वामपादे वसेत्सोऽयं बिभर्त्ति करुणानिधिः । तस्माद्गोविंदमाहात्म्यमानंदरससुंदरम्
शृणुयात्कीर्त्तयेन्नित्यं स निर्मुक्तो न संशयः । मासकृत्यं प्रवक्ष्यामि विष्णोः प्रीतिकरं परम्
ज्येष्ठे तु स्नापनं कुर्याच्छ्रीविष्णोर्यत्नतः शुचिः । दैनंदिनं तु दुरितं पक्षमासर्त्तुवर्षजम्
ब्रह्महत्यासहस्राणि ज्ञाता ज्ञातकृतानि च । स्वर्णस्तेयसुरापान गुरुतल्पायुतानि च
कोटिकोटिसहस्राणि ह्युपपापानि यानि च । सर्वाण्यथ प्रणश्यंति पौर्णमास्यां तु वासरे
आसिंचेदच्युतं मूर्ध्नि तदैतत्कलशोदकम् । पुरुषसूक्तेन मंत्रेण पावमानीभिरेव च
नालिकेरोदकेनाथ तथा तालफलांबुना । रत्नोदकेन गंधेन तथा पुष्पोदकेन च
पंचोपचारैराराध्य यथाविभवविस्तरैः । घं घंटायै नम इति घंटावाद्यं प्रदापयेत्
पतितस्य महाध्वानन्यस्तपातकसंचये । पाहि मां पापिनं घोरसंसारार्णवपातिनम्
य एवं कुरुते विद्वान्ब्राह्मणः श्रोत्रियः शुचिः । सर्वपापैः प्रमुच्येत विष्णुलोकं स गच्छति
आषाढशुक्लैकादश्यां कुर्यात्स्वापमहोत्सवम् । आषाढे च रथं कुर्याच्छ्रावणे श्रवणाविधिम्
भाद्रे च जन्मदिवस उपवासपरो भवेत् । प्रसुप्तस्य परीवर्तमाश्विने मासि कारयेत्
उत्थानं श्रीहरेः कुर्यादन्यथा विष्णुद्रोहकृत् । शुभे चैवाश्विने मासि महामायां च पूजयेत्
सौवर्णीं राजतीं वापि विष्णुरूपां बलिं विना । हिंसाद्वेषौ न कर्तव्यौ धर्मात्मा विष्णुपूजकः
कार्तिके पुष्यमासे च कामतः पुण्यमाचरेत् । दामोदराय दीपं च प्रांशुस्थाने प्रदापयेत्
सप्तवर्तिप्रमाणेन दीपः स्याच्चतुरंगुलः । पक्षांते च प्रकर्तव्या दीपमालावलि शुभा
मार्गशीर्षे सिते पक्षे षष्ठ्यां च सितवस्त्रकैः । पूजयेज्जगदीशं च ब्रह्माणं च विशेषतः
पौषे पुष्पाभिषेकं च वर्जयेच्चंदनं श्लथम् । संक्रांत्यां माघमासे च साधिवासित तंडुलात्
नैवेद्यं विष्णवे दद्यादिमं मंत्रमुदीरयेत् । ब्राह्मणान्भोजयेद्भक्त्या देवदेवपुरः स्थितान्
अभ्यर्च्य भगवद्भक्तान्द्विजांश्च भगवद्धिया । एकस्मिन्भोजिते भक्ते कोटिर्भवति भोजिता
विप्रभोजनमात्रेण व्यंगं सांगं ध्रुवं भवेत् । पंचम्यां शुक्लपक्षे तु स्नापयित्वा च केशवम्
पूजयित्वा विधानेन चूतपल्लवसंयुतैः । फलचूर्णैश्च विविधैर्वासितैः पटसाधितैः
काननं रमणीयं च प्रदीप्तं दीपदीपितम् । द्राक्षेक्षु रंभा जंबीर नागरंगं च पूगकम्