निर्माल्यचंदनेनांगमंकयेत्तस्य नामभिः । ललाटे च गदा धार्या मूर्ध्नि चापं शरस्तथा
नंदकं चैव हृन्मध्ये शंखं चक्रं भुजद्वये । शंखचक्रान्वितो विप्रः श्मशाने म्रियते यदि
प्रयागे या गतिः प्रोक्ता सा गतिस्तस्य निश्चिता । यो धृत्वा तुलसीपत्रं शिरसा विष्णुतत्परः
करोति सर्वकार्याणि फलमाप्नोति चाक्षयम् । तुलसीकाष्ठमालाभिर्भूषितः कर्म आचरन्
पितॄणां देवतानां च कृतं कोटिगुणं भवेत् । निवेद्य केशवे मालां तुलसीकाष्ठनिर्मिताम्
वहते यो नरो भक्त्या तस्य नश्यति पातकम् । पाद्यादिभिरथाभ्यर्च्य इमं मंत्रमुदीरयेत्
या दृष्टा निखिलाघसंघशमनी स्पृष्टा वपुः पावनी । रोगाणामभिवंदिता निरसनी सिक्तांतकत्रासिनी । प्रत्यासत्ति विधायिनी भगवतः कृष्णस्य संरोपिता । न्यस्ता तच्चरणे विमुक्तिफलदा तस्यै तुलस्यै नमः
इति श्रीपद्मपुराणे पातालखंडे वृंदावनमाहात्म्ये देवीश्वरसंवादे तिलकादिनिर्णयोनाम नवसप्ततितमोऽध्यायः
पार्वत्युवाच- घोरे कलियुगे प्राप्ते विषयग्राहसंकुले । पुत्रदारधनाद्यार्तैस्तत्कथं धार्यते विभो
तदुपायं महादेव कथयस्व कृपानिधे । ईश्वर उवाच- हरेर्नाम हरेर्नाम हरेर्नामैव केवलम्
हरेराम हरेकृष्ण कृष्णकृष्णेति मंगलम् । एवं वदंति ये नित्यं न हि तान्बाधते कलि
अंतरांतरकर्माणि कृत्वा नामानि च स्मरेत् । कृष्णकृष्णेति कृष्णेति कृष्णेत्याह पुनः पुनः
मन्नाम चैव त्वन्नाम योजयित्वा व्यतिक्रमात् । सोऽपि पापात्प्रमुच्येत तूलराशेरिवानलः
जयाद्येतत्त्वया वाप्यथवा श्रीशब्दपूर्वकम् । तच्च मे मंगलं नाम जपन्पापात्प्रमुच्यते
दिवानिशि च संध्यायां सर्वकालेषु संस्मरेत् । अहर्निशं स्मरन्रामं कृष्णं पश्यति चक्षुषा
अशुचिर्वा शुचिर्वापि सर्वकालेषु सर्वदा । नामसंस्मरणादेव संसारान्मुच्यते क्षणात्
नानापराधयुक्तस्य नामापि च हरत्यघम् । यज्ञव्रततपोदानं सांगं नैव कलौ युगे
गंगास्नानं हरेर्नाम निरपायमिदं द्वयम्
हत्यायुतं पापसहस्रमुग्रं गुर्वंगनाकोटिनिषेवणं च । स्तेयान्यथान्यानि हरेः प्रियेण गोविंदनाम्ना न च संति भद्रे
अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा । यः स्मरेत्पुंडीकाक्षं स बाह्याभ्यंतरः शुचिः
नामसंस्मरणादेव तथा तस्यार्थचिंतनात् । सौवर्णीं राजतीं वापि तथा पैष्टीं स्रगाकृतिम्
पादयोश्चिह्नितां कृत्वा पूजां चैव समारभेत् । दक्षिणस्य पदोंगुष्ठमूले चक्रं बिभर्ति यः
तत्र नम्रजनस्यापि संसारच्छेदनाय च । मध्यमांगुलिमूले तु धत्ते कमलमच्युतः
ध्यातृचित्तद्विरेफाणां लोभनायातिशोभनम् । पद्मस्याधोध्वजं धत्ते सर्वानर्थजयध्वजम्
कनिष्ठामूलतो वज्रं भक्तपापौघभेदनम् । पार्श्वमध्येंऽकुशं भक्तचित्ते रभसकारणम्
भोगसंपन्मयं धत्ते यवमंगुष्ठपर्वणि । मूले गदां च पापाद्रिभेदनीं सर्वदेहिनाम्
सर्वविद्याप्रकाशाय धत्ते स भगवानजः । पद्मादीन्यपि चिह्नानि तत्र दक्षेण यत्पुनः
वामपादे वसेत्सोऽयं बिभर्त्ति करुणानिधिः । तस्माद्गोविंदमाहात्म्यमानंदरससुंदरम्
शृणुयात्कीर्त्तयेन्नित्यं स निर्मुक्तो न संशयः । मासकृत्यं प्रवक्ष्यामि विष्णोः प्रीतिकरं परम्
ज्येष्ठे तु स्नापनं कुर्याच्छ्रीविष्णोर्यत्नतः शुचिः । दैनंदिनं तु दुरितं पक्षमासर्त्तुवर्षजम्