कृत्वा चैवोदकं शंखे वैष्णवानां महात्मनाम् । तुलसीमिश्रितं दद्यात्पिबेन्मूर्ध्नाभिवंदयेत्
प्राश्नीयात्प्रोक्षयेद्देहं पुत्रमित्रपरिग्रहम् । विष्णोः पादोदकं पीतं कोटिजन्माघनाशनम्
तदेवाष्टगुणं पापं भूमौ बिंदुनिपातनात् । जलशंखं करे कृत्वा स्तुत्वा नत्वा प्रदक्षिणम्
सततं धार्यते वारि तेनाप्तं जन्मनः फलम् । शंखो यस्य गृहे नास्ति घंटा वा गरुडान्विता
पुरतो वासुदेवस्य न स भागवतः कलौ । यानैर्वा पादुकाभिर्वा यानं भगवतो गृहे
देवोत्सवेष्वसेवा च अप्रणामस्तदग्रतः । उच्छिष्टे चैव चाशौचे भगवद्वंदनादिकम्
एकहस्तप्रणामश्च तत्पुरस्तात्प्रदक्षिणम् । पादप्रसारणं चाग्रे तथा पर्यंकसेवनम्
शयनं भक्षणं चापि मिथ्याभाषणमेव च । उच्चैर्भाषामिथो जल्पो रोदनानि च विग्रहः
निग्रहानुग्रहौ चैव स्त्रीषु च क्रूरभाषणम् । केवलावरणं चैव परनिंदापरस्तुतिः
अश्लीलभाषणं चैव अधोवायुविमोक्षणम् । शक्तौ गौणोपचारश्च अनिवेदितभक्षणम्
तत्तत्कालोद्भवानां च फलादीनामनर्पणम् । विनियुक्तावशिष्टस्य प्रदानं व्यंजनस्य यत्
स्पष्टीकृत्याशनं चैव परनिंदा परस्तुतिः । गुरौ मौनं निजस्तोत्रं देवतानिंदनं तथा
अपराधास्तथा विष्णोर्द्वात्रिंशत्परिकीर्तिताः
अपराधसहस्राणि क्रियंतेऽहर्निशं मया । तवाहमिति मां मत्वा क्षमस्व मधुसूदन
इति मंत्रं समुच्चार्य प्रणमेद्दंडवद्भुवि । अपराधसहस्राणि क्षमते सर्वदा हरिः
सायंप्रातर्द्विजातीनां श्रुत्युक्तमशनं तथा । विष्णुभक्तावशिष्टस्य दिनपापात्प्रमुच्यते
अन्नं ब्रह्मा रसो विष्णुः खादयेन्मांसमुच्चरन् । एवं ज्ञात्वा तु यो भुंक्ते सोऽन्नदोषैर्न लिप्यते
अलाबुं वर्त्तुलाकारं मसूरं च सवल्कलम् । तालं शुक्लं च वृंताकं न खादेद्वैष्णवो नरः
वटाश्वत्थार्कपत्रेषु कुंभी तिंदुकपत्रयोः । कोविदारे कदंबे च न खादेद्वैष्णवो नरः
श्रावणे वर्जयेच्छाकं दधि भाद्रपदे त्यजेत् । आश्विने मासि दुग्धं च कार्त्तिके चामिषं त्यजेत्
दग्धमन्नं तु जंबीरं यद्विष्णोरनिवेदितम् । बीजपूरं च शाकं चप्रत्यक्षलवणं तथा
यदि दैवाच्च भुंजीत तदा तन्नाम संस्मरेत् । हैमंतिकं सिता स्विन्नं धान्यं मुद्गास्तिला यवाः
कलाप कंगु नीवाराः शाकं च हिलमोचिका । कालशाकं च वास्तूकं मूलकं रक्तकेतरत्
लवणे सिंधुसामुद्रे गव्ये च दधिसर्पिषी । पयोनुद्धृतसारं च पनसाम्रहरीतकी
पिप्पली जीरकं चैव नागरंगक तिंतिडी । कदलीलवली धात्री फलान्यगुडमैक्षवम्
अतैलपक्वं मुनयो हविष्यान्नं प्रचक्षते । तुलसीपत्रपुष्पाद्यैर्माल्यं वहति यो नरः
विष्णुं तमपि जानीयात्सत्यं सत्यं न संशयः । धात्रीवृक्षं समारोप्य विष्णुतुल्यो भवेन्नरः
कुरुक्षेत्रं विजानीयात्सार्द्धं हस्तशतत्रयम् । तुलसीकाष्ठघटितै रुद्राक्षाकारकारितैः
निर्मितां मालिकां कंठे निधायार्चनमारभेत् । तथामलकमालां च सम्यक्पुष्करमालिकाम्
कंठे मालां च यत्नेन धारयेद्विष्णुपूजकः । निर्माल्यं तुलसीमालां शिरस्यपि च धारयेत्