कालिंद्याः पुलिने रम्ये पुण्यवृक्षसमावृते । गोपनारीभिरनिशं क्रीडयामास केशवः
रम्यकेलिसुखेनैव गोपवेषधरो हरिः । बद्धप्रेमरसेनात्र मासद्वयमुवास ह
अथ तत्रस्था नंदगोपादयः सर्वेजनाः पुत्रदारसहिताः पशुपक्षिमृगादयश्च वासुदेवप्रसादेन दिव्यरूपधरा विमानमारूढाः परमं वैकुंठलोकमवापुः
कृष्णस्तु नंदगोपव्रजौकसां सर्वेषां परमं निरामयं स्वपदं दत्वा दिवि देवगणैः संस्तूयमानो द्वारवतीं श्रीमतीं विवेश
तत्र वसुदेवोग्रसेनसंकर्षणप्रद्युम्नानिरुद्धाक्रूरादिभिः प्रत्यहं संपूजित षोडशसहस्रभार्याभिरष्टाभिर्दिव्यमहिषीभिश्च विश्वरूपधरो दिव्यरत्नमय नानागृहांतरेषु सुतकुसुमांचित श्लक्ष्णतरपर्यंकेषु रमयामास
अथ रामकृष्णसतीर्थ्यो विप्रो बालसखा सदात्यंतदारिद्र्यपीडितो मुष्टिमात्रान्याचनाप्तपृथुकाञ्जीर्णवाससि निबध्य वासुदेवं द्रष्टुं श्रीमतीं द्वारकानगरीमाजगाम
स तु रुक्मिण्यंतःपुरद्वारि क्षणं तूष्णीं तस्थौ
कृष्णोऽपि समागतं ब्राह्मणं ज्ञात्वा प्रद्युम्नेन नमस्कृत्वा वामकरं गृहीत्वा गृहांतरे स्वासने निवेश्य भयाद्वेपमानं तं रुक्मिणीहस्तगतसुवर्णकलशजलेन पादौ प्रक्षाल्य मधुपर्केण पूजयामास
सुधामृतोपमैरन्नपानाद्यैस्तर्पयित्वा तस्य जीर्णवस्त्रांतरे याचनाप्तपृथुकान्स्वयमेव हस्तेन गृहीत्वा प्रहसन्जग्रास
कृष्णेन पृथुके भक्षिते तस्मिन्नेव क्षणे तस्य बहुधनधान्यवस्त्राभरणसंभूतं महदैश्वर्यमभूत्
स तु कृष्णेन विसृष्टो मम किंचिद्वस्त्रं वा धनं वा कृष्णेन न दत्तमिति मन्यमानः स्वपुरं विवेश
अथ बहुधनधान्ययुतं स्वगृहं दृष्ट्वा तत्प्रसादादिदं लब्धमिति वदन्प्रहृष्टेनांतरात्मना दिव्य वस्त्राभरणादिना भार्यया सह सर्वान्कामान्भुक्त्वा हरिसंतुष्ट्यै बहुयज्ञानिष्ट्वा तत्प्रसादेन परमं नित्यं स्वर्गसुखमवाप
अथ धृतराष्ट्रतनयो दुर्योधनः पांडुतनयान्कपटद्यूतव्याजेन राज्यमपहृत्य स्वराष्ट्राद्विवासयामास
ते तु युधिष्ठिरभीमार्जुननकुलसहदेवाः सुपत्न्या द्रौ पद्या सह महारण्यं गत्वा तत्र द्वादशाब्दान्स्थित्वा संवत्सरपर्यंतमज्ञाताः सर्वे मत्स्यदेशाधिपतेर्विराटस्य निवेशने स्थित्वा वासुदेवेन सहायेन धार्तराष्ट्रान्योद्धुमाजग्मुः
तेषां धार्तराष्ट्रपांडुपुत्राणां नानादेशाधिपनृपैः कुरुक्षेत्रमहापुण्ये देवानामपि भयंकरो महासंग्रामोऽभवत्
अथ श्रीकृष्णोऽप्यर्जुनसारथ्यं कुर्वन्नर्जुने स्वशक्तिमावेश्य तेन दुर्योधनभीष्मद्रो- णप्रमुखान्सर्वान्पार्थिवानेकादशाक्षौहिणीबलसहितान्कुरुक्षेत्रे हत्वा पांडवान्राज्ये स्थापयित्वा निःशेषेण सर्वभूभारमपास्य स्वां पुरीं प्रविवेश
कस्यचित्त्वथकालस्य कतिपयाहनि वैदिको ब्राह्मणो मृतं पंचवार्षिकं बालमादाय राजद्वारि निधाय बहुशो विलपन्बहून्याक्रोशवाक्यानि कृष्णं जगाद
कृष्णस्तमाक्रोशं श्रुत्वा तूष्णीमुवास
स तु मम पंचपुत्राः पूर्वं हता अयं तु षष्ठः एनं कृष्णो न जीवयिष्यति तर्हि राजद्वारि मरिष्यामीत्युवाच
तस्मिन्काले अर्जुनः कृष्णं द्रष्टुमागतस्तथाविधं तं पुत्रशोकेन विलपंतं ददर्श
अर्जुनोऽपि कालधर्ममुपागतं पंचवार्षिकं बालकं दृष्ट्वा कृपयाविष्टस्तव पुत्रमहंजीवयिष्यामीति ब्राह्मणायाभयं दत्वा प्रतिश्रुतवान्
ब्राह्मणस्तु तेनाश्वासितो हृष्टवान्
अथैतं ब्राह्मणशिशुं बहुभिः संजीविनास्त्रैरभिमंत्र्य अलब्धजीवितं दृष्ट्वा वृथा प्रतिज्ञामवाप्य बहुशोकसमन्वितस्तेनैव प्राणांस्त्यक्तुमैच्छत्
कृष्णस्तु तत्सर्वं ज्ञात्वांतःपुराद्विनिष्क्रम्य तं वैदिकं प्राह तवपुत्रान्सर्वानहं दास्यामीत्युक्त्वाश्वास्य वैनतेयमारुह्यार्जुनसहितो वैष्णवं लोकमाजगाम
तत्र दिव्यमणिमंडपोद्देशे देव्या सह समासीनं नारायणं दृष्ट्वा कृष्णार्जुनौ नमश्चक्रतुः ५० 6.252.
स तौ बाहुभ्यां परिष्वज्य किमर्थमागतावित्युवाच
कृष्णश्च भगवन्वैदिकस्य तनयान्मम देहीत्युवाच
स तु नारायणस्तादृग्वयसि संस्थितान्ब्राह्मणपुत्रान्कृष्णाय संददौ
श्रीकृष्णोऽपि तान्वैनतेयस्कंधे समारोप्य हर्षसमन्वितोऽर्जुनसहितः स्वयमप्यारुह्य दिवि देवगणैः संस्तूयमानो द्वारवतीमाविवेश
तस्मै ब्राह्मणाय पंचवर्षवयःस्थान्षट्पुत्रान्ददौ सोऽप्यत्यंतर्हषसमन्वितः कृष्णं वर्द्धयस्वेत्याशिषं प्रायच्छत्