गंडक्यामेकदेशे तु शालग्रामस्थलं महत् । पाषाणं तद्भवं पातु शालग्राममिति स्थितम्
शालग्रामशिलास्पर्शात्कोटिजन्माघनाशनम् । किं पुनः पूजनं तत्र हरेः सांनिध्यकारणम्
शालग्रामैकयजनाच्छतलिंगीफलं लभेत् । बहुभिर्जन्मभिः पुण्यैर्यदिकृष्णशिलां लभेत्
गोष्पदेन च चिह्नेन जनुस्तेन समाप्यते । आदौ शिलां परीक्षेत स्निग्धां श्रेष्ठां च मेचकाम्
आकृष्णा मध्यमा प्रोक्ता मिश्रा मिश्रफलप्रदा । सदा काष्ठे स्थितो वह्निर्मथनेन प्रकाश्यते
यथा तथा हरिर्व्यापी शालग्रामे प्रतीयते । प्रत्यहं द्वादशशिलाः शालग्रामस्य योऽर्चयेत्
द्वारवत्याः शिलायुक्ताः स वैकुंठे महीयते । शालग्रामशिलायां तु गह्वरं लक्षते नरः
पितरस्तस्य तिष्ठंति तृप्ताः कल्पांतकं दिवि । वैकुंठभवनं तत्र यत्र द्वारावती शिला
मृतो विष्णुपुरं याति तत्तीर्थं योजनत्रयम् । जपः पूजा च होमश्च सर्वं कोटिगुणं भवेत्
मनस्कामसमाभीष्टं क्रोशमात्रं न संशयः । कीटकोऽपि मृतिं याति वैकुंठभवनं यतः
शालग्रामशिलायां यो मूल्यमुद्घाटयेन्नरः । विक्रेता चानुमंता च यः परीक्षानुमोदकः
सर्वे ते नरकं यांति यावत्सूर्यश्च संप्लवः । अतस्तद्वर्जयेद्देवि चक्रक्रयणविक्रयम्
शालग्रामोद्भवो देवो यो देवो द्वारकोद्भवः । उभयोः संगमो यत्र मुक्तिस्तत्र न संशयः
द्वारकोद्भवचक्राढ्यो बहुचक्रेण चिह्नितः । चक्रासनशिलाकारचित्स्वरूपो निरंजनः
नमोऽस्त्वोंकाररूपाय सदानंदस्वरूपिणे । शालग्राममहाभाग भक्तस्यानुग्रहं कुरु
तवानुग्रहकामस्य ऋणग्रस्तस्य मे प्रभो । अतः परं प्रवक्ष्यामि तिलकस्य विधिं मुदा
यच्छ्रुत्वा मानवाः सर्वे विष्णुसारूप्यमाप्नुयुः । ललाटे केशवं विद्यात्कंठे श्रीपुरुषोत्तमम्
नाभौ नारायणं देवं वैकुंठं हृदये तथा । दामोदरं वामपार्श्वे दक्षिणे च त्रिविक्रमम्
मूर्ध्नि चैव हृषीकेशं पद्मनाभं च पृष्ठतः । कर्णयोर्यमुनां गंगां बाह्वोः कृष्णं हरिं तथा
यथास्थानेषु तुष्यंति देवता द्वादश स्मृताः । द्वादशैतानि नामानि कर्तव्ये तिलके पठेत्
सर्वपापविशुद्धात्मा विष्णुलोकं स गच्छति । ऊर्द्ध्वपुंड्रमूर्द्ध्वरेखं ललाटे यस्य दृश्यते
चांडालोऽपि स शुद्धात्मा पूज्य एव न संशयः । यस्योर्द्ध्वपुंड्रं दृश्येत न ललाटे नरस्य हि
तद्दर्शनं न कर्त्तव्यं दृष्ट्वा सूर्यं निरीक्षयेत् । त्रिपुंड्रं यस्य विप्रस्य ऊर्द्ध्वपुंड्रं न दृश्यते
तं दृष्ट्वाप्यथवा स्पृष्ट्वा सचैलं स्नानमाचरेत् । सांतरालं प्रकर्त्तव्यं पुंड्रं हरिपदाकृति
निरंतरालं यः कुर्यादूर्द्ध्वपुंड्रं द्विजाधमः । ललाटे तस्य सततं शुनःपादो न संशयः
नासादिकेशपर्यंतमूर्द्ध्वपुंड्रं सुशोभनम् । मध्ये छिद्रसमायुक्तं तं विद्याद्धरिमंदिरम्
वामभागे स्थितो ब्रह्मा दक्षिणे तु सदाशिवः । मध्ये विष्णुं विजानीयात्तस्मान्मध्यं न लेपयेत्
वीक्ष्यादर्शे जले वापि यो विदध्यात्प्रयत्नतः । ऊर्द्ध्वपुंड्रं महाभागः सयाति परमां गतिम्
अग्निरापश्च वेदाश्च चंद्रादित्यौ तथानिलः । विप्राणां नित्यमेते हि कर्णे तिष्ठंति दक्षिणे
गंगा च दक्षिणे श्रोत्रे नासिकायां हुताशनः । उभयोरपि संस्पर्शात्तत्क्षणादेव शुध्यति