संकर्षणोऽथ प्रद्युम्नः सूक्ष्मचक्रस्तु पीतकः । सुदीर्घसुषिरच्छिद्रो ह्यनिरुद्धस्तु वर्त्तुलः
नीलो द्वारे त्रिरेखश्च अथ नारायणोऽसितः । मध्ये गदाकृती रेखा नाभिपद्मं महोन्नतम्
पृथुचक्रो नृसिंहो यः कपिलो यस्त्रिबिंदुकः । अथवा पंचबिंदोस्तु पूजनं ब्रह्मचारिणः
वराहः स त्रिलिंगो यो विषमद्वयचक्रकः । नीलस्त्रिरेखः स्थूलोऽथ कूर्ममूर्तिः सबिंदुकः
कृष्णः सवर्तुलावर्त्त पांडुरो धृतपृष्ठकः । श्रीधरः पंचरेखश्च वनमाली गदांकितः
वामनो वर्तुलो नाम मध्यचक्रः सनीलकः । नानावर्णानेकमूर्ति नागभोगी त्वनंतकः
स्थूलो दामोदरो नीलो मध्ये चक्रः सनीलकः । संकर्षणद्वारकोव्यादथ ब्रह्मा सुलोहितः
सुदीर्घरेखासुषिर एकचक्रांबुजः पृथुः । पृथुचक्रः स्थूलछिद्रः कृष्णो बिंदुश्च बिंदुमान्
ह्यग्रीवोंऽकुशाकारः पंचरेखः सकौस्तुभः । वैकुंठो मल्लवद्भाति एकचक्रमयोसितः
मत्स्यो दीर्घांबुजाकारो दीर्घरेखश्च पांडुरः । रामचक्रो दक्षरेखो यः श्यामः स त्रिविक्रमः
शालग्रामद्वारकायां स्थिताय गदिने नमः । एकेन लक्षितो योव्याद्गदाधारी सुदर्शनः
लक्ष्मीनारायणो द्वाभ्यां त्रिभिश्चैव त्रिविक्रमः । चतुर्भिश्च चतुर्व्यूहो वासुदेवश्च पंचभिः
प्रद्युम्नः षड्भिरेवाव्यात्संकर्षणश्च सप्तभिः । पुरुषोत्तमोऽष्टभिश्च स्यान्नवव्यूहो नवो हितः
दशावतारो दशभिरनिरुद्धोऽवतादथ । द्वादशात्मा द्वादशभिरतऊर्द्ध्वमनंतकः
ब्रह्मा चतुर्मुखो दंडी कमंडलुस्रगुन्नतः । महेश्वरः पंचवक्त्रो दशबाहुर्वृषध्वजः
यथायुधस्तथागौरी चंडिका च सरस्वती । महालक्ष्मीर्मातरश्च पद्महस्तो दिवाकरः
गजास्यश्च गजस्कंधः षण्मुखोनेकधा गणाः । एते स्थिताः स्थापिता स्युः प्रसादेवाथ पूजिताः
धर्मार्थकाममोक्षा हि प्राप्यंते पुरुषेण च
इति श्रीपद्मपुराणे पातालखंडे शालग्रामनिर्णयोनामाष्टसप्ततितमोऽध्यायः
ईश्वर उवाच- शालग्रामे मणौयंत्रे मंडले प्रतिमासु च । नित्यं तु श्रीहरेः पूजा केवले भवनेन तु
गंडक्यामेकदेशे तु शालग्रामस्थलं महत् । पाषाणं तद्भवं पातु शालग्राममिति स्थितम्
शालग्रामशिलास्पर्शात्कोटिजन्माघनाशनम् । किं पुनः पूजनं तत्र हरेः सांनिध्यकारणम्
शालग्रामैकयजनाच्छतलिंगीफलं लभेत् । बहुभिर्जन्मभिः पुण्यैर्यदिकृष्णशिलां लभेत्
गोष्पदेन च चिह्नेन जनुस्तेन समाप्यते । आदौ शिलां परीक्षेत स्निग्धां श्रेष्ठां च मेचकाम्
आकृष्णा मध्यमा प्रोक्ता मिश्रा मिश्रफलप्रदा । सदा काष्ठे स्थितो वह्निर्मथनेन प्रकाश्यते
यथा तथा हरिर्व्यापी शालग्रामे प्रतीयते । प्रत्यहं द्वादशशिलाः शालग्रामस्य योऽर्चयेत्
द्वारवत्याः शिलायुक्ताः स वैकुंठे महीयते । शालग्रामशिलायां तु गह्वरं लक्षते नरः
पितरस्तस्य तिष्ठंति तृप्ताः कल्पांतकं दिवि । वैकुंठभवनं तत्र यत्र द्वारावती शिला
मृतो विष्णुपुरं याति तत्तीर्थं योजनत्रयम् । जपः पूजा च होमश्च सर्वं कोटिगुणं भवेत्
मनस्कामसमाभीष्टं क्रोशमात्रं न संशयः । कीटकोऽपि मृतिं याति वैकुंठभवनं यतः