तदेकं पावनं लोके तद्धि सर्वं विशोधयेत् । पूजा च पंचधा प्रोक्ता तासां भेदं शृणुष्व मे
अभिगमनमुपादानं योगः स्वाध्याय एव च । इज्या पंचप्रकारार्चा क्रमेण कथयामि ते
तत्वाभिगमनं नाम देवतास्थानमार्जनम् । उपलेपं च निर्माल्यदूरीकरणमेव च
उपादानं नाम गंध पुष्पादिचयनं तथा । योगो नाम स्वदेवस्य स्वात्मनैवात्मभावना
स्वाध्यायो नाम मंत्रार्थानुसंधापूर्वको जपः । सूक्तस्तोत्रादिपाठश्च हरेः संकीर्त्तनं तथा
तत्त्वादिशास्त्राभ्यासश्च स्वाध्यायः परिकीर्तितः । इज्या नाम स्वदेवस्य पूजनं च यथार्थतः
इति पंचप्रकारार्चा कथिता तव सुव्रते । सार्ष्टि सामीप्य सालोक्य सायुज्य सारूप्यदा क्रमात्
प्रसंगात्कथयिष्यामि शालग्रामशिलार्चनम् । केशवादेश्चतुर्बाहोर्दक्षिणोर्ध्वकरक्रमात्
शंखचक्रगदापद्मी केशवाख्यो गदाधरः । नारायणः पद्मगदाचक्रशंखायुधैः क्रमात्
माधवश्चक्रशंखाभ्यां पद्मेन गदया भवेत् । गदाब्जशंखचक्री च गोविंदाख्यो गदाधरः
पद्मशंखारि गदिने विष्णुरूपाय ते नमः । सशंखाब्ज गदाचक्र मधुसूदन मूर्तये
नमो गदारिशंखाब्जयुक्तत्रिविक्रमाय च । सारिकौमोदकी पद्मशंख वामन मूर्त्तये
चक्राब्जशंखगदिने नमः श्रीधरमूर्त्तये । हृषीकेशसारिगदाशंखपद्मिन्नमोस्तु ते
साब्जशंखगदाचक्रपद्मनाभ स्वमूर्त्तये । दामोदरशंखगदाचक्रपद्मिन्नमोस्तु ते
शंखाब्जचक्रगदिने नमः संकर्षणाय च । सारिशंखगदाब्जाय वासुदेव नमोस्तुते
शंखचक्रगदाब्जाय धृत प्रद्युम्नमूर्त्तये । नमोऽनिरुद्धाय गदाशंखाब्जारिविधारिणे
साब्जशंखगदाचक्रपुरुषोत्तममूर्त्तये । नमोऽधोक्षजरूपाय गदाशंखारि पद्मिने
नृसिंहमूर्त्तये पद्मगदाशंखारिधारिणे । पद्मारिशंखगदिने नमोस्त्वच्युतमूर्त्तये
सगदाब्जारिशंखाय नमः श्रीकृष्णमूर्त्तये । शालग्रामशिलाद्वारगतलग्नद्विचक्रधृक्
शुक्लाभरेखः शोभाढ्यः सदेवः श्रीगदाधरः । लग्नद्विचक्रो रक्ताभः पूर्वभागस्तु पुष्कलः
संकर्षणोऽथ प्रद्युम्नः सूक्ष्मचक्रस्तु पीतकः । सुदीर्घसुषिरच्छिद्रो ह्यनिरुद्धस्तु वर्त्तुलः
नीलो द्वारे त्रिरेखश्च अथ नारायणोऽसितः । मध्ये गदाकृती रेखा नाभिपद्मं महोन्नतम्
पृथुचक्रो नृसिंहो यः कपिलो यस्त्रिबिंदुकः । अथवा पंचबिंदोस्तु पूजनं ब्रह्मचारिणः
वराहः स त्रिलिंगो यो विषमद्वयचक्रकः । नीलस्त्रिरेखः स्थूलोऽथ कूर्ममूर्तिः सबिंदुकः
कृष्णः सवर्तुलावर्त्त पांडुरो धृतपृष्ठकः । श्रीधरः पंचरेखश्च वनमाली गदांकितः
वामनो वर्तुलो नाम मध्यचक्रः सनीलकः । नानावर्णानेकमूर्ति नागभोगी त्वनंतकः
स्थूलो दामोदरो नीलो मध्ये चक्रः सनीलकः । संकर्षणद्वारकोव्यादथ ब्रह्मा सुलोहितः
सुदीर्घरेखासुषिर एकचक्रांबुजः पृथुः । पृथुचक्रः स्थूलछिद्रः कृष्णो बिंदुश्च बिंदुमान्
ह्यग्रीवोंऽकुशाकारः पंचरेखः सकौस्तुभः । वैकुंठो मल्लवद्भाति एकचक्रमयोसितः
मत्स्यो दीर्घांबुजाकारो दीर्घरेखश्च पांडुरः । रामचक्रो दक्षरेखो यः श्यामः स त्रिविक्रमः