यौवनोद्भिन्नकैशोरं नवयौवनमुच्यते । तद्वयस्तस्य सर्वस्वं प्रपंचमितरद्वयः
बाल्यपौगंडकैशोरं वयो वंदे मनोहरम् । बालगोपालगोपालं स्मरगोपालरूपिणम्
वंदे मदनगोपालं कैशोराकारमद्भुतम् । यमाहुर्यौवनोद्भिन्न श्रीमन्मदनमोहनम्
अखंडातुलपीयूष रसानंदमहार्णवम् । जयति श्रीपतेर्गूढं वपुः कैशोररूपिणः
एकमप्यव्ययं पूर्वं बल्लवीवृंदमध्यगम् । ध्यानगम्यं प्रपश्यंति रुचिभेदात्पृथग्धियः
यन्नखेंदुरुचिर्ब्रह्म ध्येयं ब्रह्मादिभिः सुरैः । गुणत्रयमतीतं तं वंदे वृंदावनेश्वरम्
वृंदावनपरित्यागो गोविंदस्य न विद्यते । अन्यत्र यद्वपुस्तत्तु कृत्रिमं तन्न संशयः
सुलभं व्रजनारीणां दुर्ल्लभं तन्मुमुक्षुणाम् । तं भजे नंदसूनुं यन्नखतेजः परं मनुः
पार्वत्युवाच। भुक्तिमुक्तिस्पृहा यावत्पिशाची हृदि वर्त्तते । तावत्प्रेमसुखस्यात्र कथमभ्युदयो भवेत्
ईश्वर उवाच- साधुपृष्टं त्वया भद्रे यन्मे मनसि वर्त्तते । तत्सर्वं कथयिष्यामि सावधाना निशामय
स्मृत्वा गुणान्स्मरन्नाम गानं वा मनरंजनम् । बोधयत्यात्मनात्मानं सततं प्रेम्णि लीयते
इति श्रीपद्मपुराणे पातालखंडे वृंदावनमाहात्म्ये पार्वतीशिवसंवादे श्रीकृष्णरूपवर्णनंनाम सप्तसप्ततितमोऽध्यायः
पार्वत्युवाच- वैष्णवानां च यद्धर्मं सर्वं तथ्यं च मे वद । यत्कृत्वा मानवाः सर्वे भवांभोधिं तरंति हि
ईश्वर उवाच- अथ द्वादशधा शुद्धिर्वैष्णवानामिहोच्यते । गृहोपलेपनं चैव तथानुगमनं हरेः
भक्त्या प्रदक्षिणा चैव पादयोः शोधनं पुनः । पूजार्थं पत्रपुष्पाणां भक्त्यैवोत्तोलनं हरेः
करयोः सर्वशुद्धीनामियं शुद्धिर्विशिष्यते । तन्नामकीर्तनं चैव गुणानामपि कीर्त्तनम्
भक्त्या श्रीकृष्णदेवस्य वचसः शुद्धिरिष्यते । तत्कथाश्रवणं चैव तस्योत्सवनिरीक्षणम्
श्रोत्रयोर्नेत्रयोश्चैव शुद्धिः सम्यगिहोच्यते । पादोदकं च निर्माल्यं मालानामपि धारणम्
उच्यते शिरसः शुद्धिः प्रणतस्य हरेः पुरः । आघ्राणं तस्य पुष्पादेर्निर्माल्यस्य तथा प्रिये
विशुद्धिः स्यादंतरस्य घ्राणस्यापि विधीयते । यत्र पुष्पादिकं यच्च कृष्णपादयुगार्पितम्
तदेकं पावनं लोके तद्धि सर्वं विशोधयेत् । पूजा च पंचधा प्रोक्ता तासां भेदं शृणुष्व मे
अभिगमनमुपादानं योगः स्वाध्याय एव च । इज्या पंचप्रकारार्चा क्रमेण कथयामि ते
तत्वाभिगमनं नाम देवतास्थानमार्जनम् । उपलेपं च निर्माल्यदूरीकरणमेव च
उपादानं नाम गंध पुष्पादिचयनं तथा । योगो नाम स्वदेवस्य स्वात्मनैवात्मभावना
स्वाध्यायो नाम मंत्रार्थानुसंधापूर्वको जपः । सूक्तस्तोत्रादिपाठश्च हरेः संकीर्त्तनं तथा
तत्त्वादिशास्त्राभ्यासश्च स्वाध्यायः परिकीर्तितः । इज्या नाम स्वदेवस्य पूजनं च यथार्थतः
इति पंचप्रकारार्चा कथिता तव सुव्रते । सार्ष्टि सामीप्य सालोक्य सायुज्य सारूप्यदा क्रमात्
प्रसंगात्कथयिष्यामि शालग्रामशिलार्चनम् । केशवादेश्चतुर्बाहोर्दक्षिणोर्ध्वकरक्रमात्
शंखचक्रगदापद्मी केशवाख्यो गदाधरः । नारायणः पद्मगदाचक्रशंखायुधैः क्रमात्
माधवश्चक्रशंखाभ्यां पद्मेन गदया भवेत् । गदाब्जशंखचक्री च गोविंदाख्यो गदाधरः