दानधूलिविनोदा च रासध्वनि महानटी । शशिरेखा च विज्ञेया गोपालप्रेयसी सदा
कृष्णात्मा सोत्तमा श्यामा मधुपिंगललोचना । तत्पादप्रेमसंमोहात्क्वचित्पुलकचुंबिता
शिवकुंडे शिवानंदा नंदिनी देहिकातटे । रुक्मिणी द्वारवत्यां तु राधा वृंदावने वने
देवकी मथुरायां तु जाता मे परमेश्वरी । चंद्रकूटे तथा सीता विंध्ये विंध्यनिवासिनी
वाराणस्यां विशालाक्षी विमला पुरुषोत्तमे । वृंदावनाधिपत्यं च दत्तं तस्यै प्रसीदता
कृष्णेनान्यत्र देवी तु राधा वृंदावने वने । नित्यानंदतनुः शौरिर्योऽशरीरीति भाष्यते
वाय्वग्निनाकभूमीनामंगाधिष्ठितदेवता । निरूप्यते ब्रह्मणोऽपि तथा गोविंदविग्रहः
सेंद्रियोऽपि यथा सूर्यस्तेजसा नोपलक्ष्यते । तथा कांतियुतः कृष्णः कालं मोहयति ध्रुवम्
न तस्य प्राकृती मूर्तिर्मेदोमांसास्थिसंभवा । योगी चैवेश्वरश्चान्यः सर्वात्मा नित्यविग्रहः
काठिन्यं देवयोगेन करकाघृतयोरिव । कृष्णस्यामिततत्त्वस्य पादपृष्ठं न देवता
वृंदावनरजोवृंदे तत्र स्युर्विष्णुकोटयः । आनंदकिरणे वृंदव्याप्तविश्वकलानिधिः
गुणात्मतात्मनि यथा जीवास्तत्किरणांगकाः । भुजद्वयवृतः कृष्णो न कदाचिच्चतुर्भुजः
गोप्यैकया वृतस्तत्र परिक्रीडति सर्वदा । गोविंद एव पुरुषो ब्रह्माद्याः स्त्रिय एव च
तत एव स्वभावोयंऽप्रकृतेर्भाव ईश्वरः । पुरुषः प्रकृतिश्चाद्यौ राधावृंदावनेश्वरौ
प्रकृतेर्विकृतं सर्वं विना वृंदावनेश्वरम्
समुद्भवेनैव समुद्भवेदिदं भेदं गतं तस्य विनाशतो हि । स्वर्णस्य नाशो न हि विद्यते तथा मत्स्यादिनाशेऽपि न कृष्णविच्युतिः
त्रिगुणादिप्रपंचोऽयं वृंदावनविहारिणः । ऊर्म्मीवाब्धेस्तरंगस्य यथाब्धिर्नैव जायते
न राधिका समा नारी न कृष्णसदृशः पुमान् । वयः परं न कैशोरात्स्वभावः प्रकृतेः परः
ध्येयं कैशोरकं ध्येयं वनं वृंदावनं वनम् । श्याममेव परं रूपमादिदेवं परो रसः
बाल्यं पंचमवर्षांतं पौगंडं दशमावधि । अष्टपंचककैशोरं सीमा पंचदशावधि
यौवनोद्भिन्नकैशोरं नवयौवनमुच्यते । तद्वयस्तस्य सर्वस्वं प्रपंचमितरद्वयः
बाल्यपौगंडकैशोरं वयो वंदे मनोहरम् । बालगोपालगोपालं स्मरगोपालरूपिणम्
वंदे मदनगोपालं कैशोराकारमद्भुतम् । यमाहुर्यौवनोद्भिन्न श्रीमन्मदनमोहनम्
अखंडातुलपीयूष रसानंदमहार्णवम् । जयति श्रीपतेर्गूढं वपुः कैशोररूपिणः
एकमप्यव्ययं पूर्वं बल्लवीवृंदमध्यगम् । ध्यानगम्यं प्रपश्यंति रुचिभेदात्पृथग्धियः
यन्नखेंदुरुचिर्ब्रह्म ध्येयं ब्रह्मादिभिः सुरैः । गुणत्रयमतीतं तं वंदे वृंदावनेश्वरम्
वृंदावनपरित्यागो गोविंदस्य न विद्यते । अन्यत्र यद्वपुस्तत्तु कृत्रिमं तन्न संशयः
सुलभं व्रजनारीणां दुर्ल्लभं तन्मुमुक्षुणाम् । तं भजे नंदसूनुं यन्नखतेजः परं मनुः
पार्वत्युवाच। भुक्तिमुक्तिस्पृहा यावत्पिशाची हृदि वर्त्तते । तावत्प्रेमसुखस्यात्र कथमभ्युदयो भवेत्
ईश्वर उवाच- साधुपृष्टं त्वया भद्रे यन्मे मनसि वर्त्तते । तत्सर्वं कथयिष्यामि सावधाना निशामय