सनकाद्यैर्भागवतैः संसृष्टं मुनिपुंगवैः । आह्लादिमधुरारावैर्गोवृंदैरभिमंडितम्
रम्यस्रग्भूषणोपेतैर्नृत्यद्भिर्बालकैर्वृतम् । तत्र श्रीमान्कल्पतरुर्जांबूनदपरिच्छदः
नानारत्नप्रवालाढ्यो नानामणिफलोज्ज्वलः । तस्य मूले रत्नवेदी रत्नदीधितिदीपिता
तत्र त्रयीमयं रत्नसिंहासनमनुत्तमम् । तत्रासीनं जगन्नाथं त्रिगुणातीतमव्ययम्
कोटिचंद्रप्रतीकाशं कोटिभास्करभास्वरम् । कोटिकंदर्पलावण्यं भासयन्तं दिशोदश
त्रिनेत्रं द्विभुजं गौरं तप्तजांबूनदप्रभम् । श्लिष्यमाणमंगनाभिः सदामानं च सर्वशः
ब्रह्माद्यैः सनकाद्यैश्च ध्येयं भक्तवशीकृतम् । सदाघूर्णितनेत्राभिर्नृत्यंतीभिर्महोत्सवैः
चुंबंतीभिर्हसंतीभिः श्लिष्यंतीभिर्मुहुर्मुहुः । अवाप्तगोपीदेहाभिः श्रुतिभिः कोटिकोटिभिः
तत्पादांबुजमाध्वीकचित्ताभिः परितो वृतम् । तासां तु मध्ये या देवी तप्तचामीकरप्रभा
द्योतमाना दिशः सर्वाः कुर्वती विद्युदुज्ज्वलाः । प्रधानं या भगवती यया सर्वमिदं ततम्
सृष्टिस्थित्यंतरूपा या विद्या विद्यात्रयीपरा । स्वरूपा शक्तिरुपा च मायारूपा च चिन्मयी
ब्रह्मविष्णुशिवादीनां देहकारणकारणम् । चराचरं जगत्सर्वं यन्मायापरिरंभितम्
वृंदावनेश्वरी नाम्ना राधा धात्रानुकारणात् । तामालिंग्य वसंतं तं मुदा वृंदावनेश्वरम्
अन्योन्यचुंबनाश्लेष मदावेशविघूर्णितम् । ध्यायेदेवं कृष्णदेवं स च सिद्धिमवाप्नुयात्
मंत्रराजमिमं गुह्यं तस्य मंत्रं च मंत्रवित् । यो जपेच्छृणुयाद्वापि स महात्मा सुदुर्ल्लभः
राधिंका चित्ररेखा च चंद्रा मदनसुंदरी । श्रीप्रिया श्रीमधुमती शशिरेखा हरिप्रिया
सुवर्णशोभा संमोहा प्रेमरोमांचराजिता । वैवर्ण्यस्वेदसंयुक्ता भावासक्ता प्रियंवदा
सुवर्णमालिनी शांता सुरासरसिका तथा । सर्वस्त्री जीवना दीनवत्सला विमलाशया
निपीतनामपीयूषा सा राधा परिकीर्तिता । सुदीर्घस्मितसंयुक्ता तप्तचामीकरप्रभा
मूर्च्छत्प्रेमनदी राधा वरणा लोचनांजना । मायामात्सर्यसंयुक्ता दानसाम्राज्य जीवना
सुरतोत्सव संग्रामा चित्ररेखा प्रकीर्तिता । गौरांगी नातिदीर्घा च सदा वादनतत्परा
दैन्यानुरागनटना मूर्च्छारोमांचविह्वला । हरिदक्षिणपार्श्वस्था सर्वमंत्रप्रिया तथा
अनंगलोभमाधुर्या चंद्रा सा परिकीर्तिता । सलीलमंथरगतिर्मंजुमुद्रित लोचना
प्रेमधारोज्ज्वलाकीर्णा दलितांजन शोभना । कृष्णानुरागरसिका रासध्वनिसमुत्सुका
अहंकारसमायुक्ता मुखनिंदितचंद्रमाः । मधुरालापचतुरा जितेंद्रियशिरोमणिः
सुंदरस्मितसंयुक्ता सा वै मदनसुंदरी । विविक्तरासरसिका श्यामा श्याममनोहरा
प्रेम्णा प्रेमकटाक्षेण हरेश्चित्तविमोहनी । जितेंद्रिया जितक्रोधा सा प्रिया परिकीर्तिता
सुतप्तस्वर्णगौरांगी लीलागमनसुंदरी । स्मरोत्थ प्रेमरोमांच वैचित्रमधुराकृतिः
सुंदरस्मितसंयुक्त मुखनिंदितचंद्रमाः । मधुरालापचतुरा जितेंद्रियशिरोमणिः
कीर्तिता सा मधुमती प्रेमसाधनतत्परा । संमोहज्वररोमांच प्रेमधारा समन्विता