समागच्छ प्रिये कांते भक्त्या मां परिरंभय । रेमे वर्षप्रमाणेन तत्र चैव द्विजोत्तम
तदोक्तं रमणेशेन तां देवीं राधिकां प्रति । इयं मे प्रकृतिस्तत्र चासीन्नारदरूपधृक्
नीत्वामृतसरो रम्यं स्नानार्थं संनियोजय । तया मे रमणस्यांते गदितं प्रियभाषितम्
अहं च ललितादेवी राधिकाया च गीयते । अहं च वासुदेवाख्यो नित्यं कामकलात्मकः
सत्यं योषित्स्वरूपोऽहं योषिच्चाहं सनातनी । अहं च ललितादेवी पुंरूपा कृष्णविग्रहा
आवयोरंतरं नास्ति सत्यंसत्यं हि नारद । एवं यो वेत्ति मे तत्त्वं समयं च तथा मनुम्
स समाचारसंकेतं ललिता वत्स मे प्रियः । इदं वृंदावनं नाम रहस्यं मम वै गृहम्
न प्रकाश्यं कदा कुत्र वक्तव्यं न पशौ क्वचित् । ततोऽनुराधिकादेवी मां नीत्वा तत्सरोवरे
स्थित्वा सा कृष्णचंद्रस्य चरणांते गता पुनः । ततो निमज्जनादेव नारदोऽहमुपागतः
वीणाहस्तो गानपरस्तद्रहस्यं मुहुर्मुदा । स्वयंभुवं नमस्कृत्य तत्रागां विष्णुपार्षदम्
स्वयंभुवा तथा दृष्टं नोक्तं किंचित्तदा पुनः । इति ते कथितं वत्स सुगोप्यं च मया त्वयि
त्वयापि कृष्णचंद्रस्य केवलं धामचित्कलम् । गोपनीयं प्रयत्नेन मातुर्जारइव प्रियम्
यथा प्रोक्तं मया शिष्ये गौतमे सरहस्यकम् । तथा भवत्सु कार्त्स्न्येन कथितं चातिगोपितम्
यत्र कुत्र कदाचित्तु प्रकाश्यं मुनिपुंगवाः । तदा शापो भवेद्विप्राः कृष्णचंद्रस्य निश्चितम्
इमं कृष्णस्य लीलाभिर्युतमध्यायमुत्तमम् । यः पठेच्छृणुयाद्वापि स याति परमं पदम्
इति श्रीपद्मपुराणे पातालखंडे वृंदावनमाहात्म्ये नारदीयानुनये पंचसप्ततितमोऽध्यायः
ईश्वर उवाच-। अत्र शिशुपालं निहतं श्रुत्वा दंतवक्त्रः कृष्णेन योद्धुं मथुरामाजगाम
कृष्णस्तु तच्छ्रुत्वा रथमारुह्य तेन सह मथुरामाययौ
अथ तं हत्वा यमुनामुत्तीर्य नंदव्रजं गत्वा पितरावभिवाद्याश्वास्य ताभ्यामालिंगितः सकल गोपवृद्धान्परिष्वज्य तानाश्वास्य बहुवस्त्राभरणादिभिस्तत्रस्थान्सर्वान्संतर्पयामास
कालिंद्याः पुलिने रम्ये पुण्यवृक्षसमाकीर्णे गोपस्त्रीभिरहर्निशं क्रीडासुखेन त्रिरात्रं तत्र समुवास
तत्र स्थले नंदगोपादयः सर्वे जनाः पुत्रदारसहिताः पशुपक्षिमृगादयोऽपि वासुदेवप्रसादेन दिव्यरूपधरा विमानसमारूढाः परमं लोकं वैकुंठमवापुः
श्रीकृष्णस्तु नंदगोपव्रजौकसां सर्वेषां निरामयं स्वपदं दत्वा देवगणैः स्तूयमानः। श्रीमतीं द्वारावतीं विवेश
तत्र वसुदेवोग्रसेनसंकर्षणप्रद्युम्नानिरुद्धाक्रूरादिभिः प्रत्यहं संपूजितः षोडशसहस्राष्टाधिकमहिषीभिश्च विश्वरूपधरो दिव्यरत्नमय लतागृहांतरे-। षु सुरतरुकुसुमार्चितश्लक्ष्णतरपर्यंकेषु रमयामास
एवं हितार्थाय सर्वदेवानां समस्तभूभारविनाशाय यदुवंशेऽवतीर्य सकलराक्षसविनाशं कृतमहांतमुर्वीभारं नाशयित्वा नंदव्रजद्वारिकावासिनः स्थावरजंगमान्भवबंधनान्मोचयित्वा परमे शाश्वते योगिध्येये रम्ये धाम्नि संस्थाप्य नित्यं दिव्यमहिष्यादिभिः संसेव्यमानो वासुदेवोऽखिलेषूवाच
असीदव्याकृतं ब्रह्मकरकाघृतयोरिव । प्रकृतिस्थो गुणान्मुक्तो द्रवीभूत्वा दिवं गतः
इति श्रीपद्मपुराणे पातालखंडे वृंदावनमहात्म्ये पार्वती-शिवसंवादे षट्सप्ततितमोऽध्यायः
पार्वत्युवाच- विस्तरेण समाचक्ष्व नामार्थपदगौरवम् । ईश्वरस्य स्वरूपं च तत्स्थानानां विभूतयः
तद्विष्णोः परमं धाम व्यूहभेदास्तथा हरेः । निर्वाणाख्याहि तत्त्वेन मम सर्वं सुरेश्वर
ईश्वर उवाच- सारे वृंदावने कृष्णं गोपीकोटिभिरावृतम् । तत्र गंगा पराशक्तिस्तत्स्थमानंदकाननम्
नाना सुकुसुमामोदसमीरसुरभीकृतम् । कलिंदतनया दिव्यतरंगरागशीतलम्