तत्क्षणात्तत्सरः पारे योषितां सविधेऽभवम् । सर्वलक्षणसपन्ना योषिद्रूपातिविस्मिता
मां दृष्ट्वा ताः समायांतीमपृच्छंश्च मुहुर्मुहुः । स्त्रिय ऊचुः - का त्वं कुतः समायाता कथयात्मविचेष्टितम्
तासां प्रियकथां श्रुत्वा मयोक्तं तन्निशामय । कुतः कोऽहं समायातः कथं वा योषिदाकृतिः
स्वप्नवद्दृश्यते सर्वं किं वा मुग्धोऽस्मि भूतले । तच्छ्रुत्वा मद्वचो देवी प्रोवाच मधुरस्वनैः
वृंदानाम्नी पुरी चेयं कृष्णचंद्रप्रिया सदा । अहं च ललितादेवी तुर्यातीता च निष्कला
इत्युक्त्वा च महादेवी करुणा सांद्रमानसा । मां प्रत्याह पुनर्देवी समागच्छ मया सह
अन्याश्च योषितः सर्वाः कृष्णपादपरायणाः । ताश्च मां प्रवदंत्येवं समागच्छानया सह
ततोनुकृष्णचंद्रस्य चतुर्दशाक्षरो मनुः । कृपया कथितस्तस्या देव्याश्चापि महात्मनः
तत्क्षणादेव तत्साम्यमलभं विविधोपमा । ताभिः सह गतास्तत्र यत्र कृष्णः सनातनः
केवलं सच्चिदानंदः स्वयंयोषिन्मयः प्रभुः । योषिदानंदहृदयो दृष्ट्वा मां प्राब्रवीन्मुहुः
समागच्छ प्रिये कांते भक्त्या मां परिरंभय । रेमे वर्षप्रमाणेन तत्र चैव द्विजोत्तम
तदोक्तं रमणेशेन तां देवीं राधिकां प्रति । इयं मे प्रकृतिस्तत्र चासीन्नारदरूपधृक्
नीत्वामृतसरो रम्यं स्नानार्थं संनियोजय । तया मे रमणस्यांते गदितं प्रियभाषितम्
अहं च ललितादेवी राधिकाया च गीयते । अहं च वासुदेवाख्यो नित्यं कामकलात्मकः
सत्यं योषित्स्वरूपोऽहं योषिच्चाहं सनातनी । अहं च ललितादेवी पुंरूपा कृष्णविग्रहा
आवयोरंतरं नास्ति सत्यंसत्यं हि नारद । एवं यो वेत्ति मे तत्त्वं समयं च तथा मनुम्
स समाचारसंकेतं ललिता वत्स मे प्रियः । इदं वृंदावनं नाम रहस्यं मम वै गृहम्
न प्रकाश्यं कदा कुत्र वक्तव्यं न पशौ क्वचित् । ततोऽनुराधिकादेवी मां नीत्वा तत्सरोवरे
स्थित्वा सा कृष्णचंद्रस्य चरणांते गता पुनः । ततो निमज्जनादेव नारदोऽहमुपागतः
वीणाहस्तो गानपरस्तद्रहस्यं मुहुर्मुदा । स्वयंभुवं नमस्कृत्य तत्रागां विष्णुपार्षदम्
स्वयंभुवा तथा दृष्टं नोक्तं किंचित्तदा पुनः । इति ते कथितं वत्स सुगोप्यं च मया त्वयि
त्वयापि कृष्णचंद्रस्य केवलं धामचित्कलम् । गोपनीयं प्रयत्नेन मातुर्जारइव प्रियम्
यथा प्रोक्तं मया शिष्ये गौतमे सरहस्यकम् । तथा भवत्सु कार्त्स्न्येन कथितं चातिगोपितम्
यत्र कुत्र कदाचित्तु प्रकाश्यं मुनिपुंगवाः । तदा शापो भवेद्विप्राः कृष्णचंद्रस्य निश्चितम्
इमं कृष्णस्य लीलाभिर्युतमध्यायमुत्तमम् । यः पठेच्छृणुयाद्वापि स याति परमं पदम्
इति श्रीपद्मपुराणे पातालखंडे वृंदावनमाहात्म्ये नारदीयानुनये पंचसप्ततितमोऽध्यायः
ईश्वर उवाच-। अत्र शिशुपालं निहतं श्रुत्वा दंतवक्त्रः कृष्णेन योद्धुं मथुरामाजगाम
कृष्णस्तु तच्छ्रुत्वा रथमारुह्य तेन सह मथुरामाययौ
अथ तं हत्वा यमुनामुत्तीर्य नंदव्रजं गत्वा पितरावभिवाद्याश्वास्य ताभ्यामालिंगितः सकल गोपवृद्धान्परिष्वज्य तानाश्वास्य बहुवस्त्राभरणादिभिस्तत्रस्थान्सर्वान्संतर्पयामास
कालिंद्याः पुलिने रम्ये पुण्यवृक्षसमाकीर्णे गोपस्त्रीभिरहर्निशं क्रीडासुखेन त्रिरात्रं तत्र समुवास