एवंविधं सकलजनपार्थिववधं कुर्वतो जरासंधस्य समुद्यमानो भीमार्जुनसहितस्तस्य गृहे विप्रवेषेणैव प्रविवेश
स तु तान्दृष्ट्वा दंडवत्प्रणतो भूत्वा यथोचितासनेषु निवेश्य मधुपर्कविधानेन संपूज्य धन्योस्मि कृतकृत्योस्मि किमर्थं भवन्तो मे समीप आगतास्तद्वक्तव्यमहं तत्सर्वं भवद्भ्यो दास्यामीत्युवाच
तेषां वासुदेवः प्रहसन्पार्थिवं तमुवाच कृष्णभीमार्जुना युद्धार्थमागताः स्म अस्माकमन्यतमं द्वंद्वयुद्धार्थं वृणीष्वेत्यवदत्
सोऽपि तथेत्यवदत्ततो द्वंद्वयुद्धार्थं मारुतिं वरयामास
ततो भीमजरासंधयोरभितो भयंकरं मल्लयुद्धं निरंतरं पंचविंशतिवासरमभूत्
ततः कृष्णेनैव संचोदितो वायुपुत्रस्तस्य शरीरं द्विधाकृत्य भूमौ निपातयामास ।। एवं जरासंधं पांडुपुत्रेण हत्वा तान्जरासंधनिरोधितान्वासुदेवोऽपि पार्थिवान्मोचयामास
निहत्य वायुपुत्रेण जरांसंधं यदूद्वहः । तद्गृहे सन्निरुद्धांस्तु मोचयामास पार्थिवान्
ते च तत्र नमस्कृत्य स्तुत्वा च मधुसूदनम् । स्वान्स्वान्जनपदान्सर्वे जग्मुः कृष्णेन रक्षिताः
अथ ताभ्यामिंद्रप्रस्थं गत्वा वासुदेवस्तत्र महाक्रतुं राजसूयं युधिष्ठिरं कारयामास
तत्र समाप्ते क्रतौ अग्रपूजां भीष्मानुमतेन कृष्णाय दत्तवान्
तत्र शिशुपालः कृष्णं बहून्याक्षेपवाक्यान्युक्तवान्
कृष्णोऽपि सुदर्शनेन तस्य शिरश्चिच्छेद
असौ जन्मत्रयावसाने हरेः सारूप्यमगमत्
अथ शिशुपालं निहतं श्रुत्वा दंतवक्त्रः कृष्णेन योद्धुं मथुरामाजगाम
कृष्णस्तु तच्छ्रुत्वा रथमारुह्य तेन योद्धुं मथुरामाययौ
दंतवक्त्रवासुदेवयोरहोरात्रं मथुरापुरद्वारि यमुनातीरे संग्रामः समवर्त्तत कृष्णस्तु गदया तं जघान
स तु चूर्णितसर्वांगो वज्रनिर्भिन्न महीधर इव गतासुरवनितले पपात
सोऽपि हरेः सायुज्यं योगिगम्यं नित्यानंदसुखं शाश्वतं परमं पदमवाप
इत्थं जयविजयौ सनकादिशापव्याजेन केवलं भगवतोलीलार्थं संसृताववतीर्य जन्मत्रयेऽपि तेनैव निहतौ जन्मत्रयावसाने मुक्तिमवाप्तौ
कृष्णोऽपि तं हत्वा यमुनामुत्तीर्य नंदव्रजं गत्वा प्राक्तनौ पितरावभिवाद्य आश्वास्य ताभ्यां साश्रुकंठमालिगितः सकलगोपवृद्धान्प्रणम्याश्वास्य रत्नाभरणादिभिस्तत्रस्थान्संतर्पयामास
कालिंद्याः पुलिने रम्ये पुण्यवृक्षसमावृते । गोपनारीभिरनिशं क्रीडयामास केशवः
रम्यकेलिसुखेनैव गोपवेषधरो हरिः । बद्धप्रेमरसेनात्र मासद्वयमुवास ह
अथ तत्रस्था नंदगोपादयः सर्वेजनाः पुत्रदारसहिताः पशुपक्षिमृगादयश्च वासुदेवप्रसादेन दिव्यरूपधरा विमानमारूढाः परमं वैकुंठलोकमवापुः
कृष्णस्तु नंदगोपव्रजौकसां सर्वेषां परमं निरामयं स्वपदं दत्वा दिवि देवगणैः संस्तूयमानो द्वारवतीं श्रीमतीं विवेश
तत्र वसुदेवोग्रसेनसंकर्षणप्रद्युम्नानिरुद्धाक्रूरादिभिः प्रत्यहं संपूजित षोडशसहस्रभार्याभिरष्टाभिर्दिव्यमहिषीभिश्च विश्वरूपधरो दिव्यरत्नमय नानागृहांतरेषु सुतकुसुमांचित श्लक्ष्णतरपर्यंकेषु रमयामास
अथ रामकृष्णसतीर्थ्यो विप्रो बालसखा सदात्यंतदारिद्र्यपीडितो मुष्टिमात्रान्याचनाप्तपृथुकाञ्जीर्णवाससि निबध्य वासुदेवं द्रष्टुं श्रीमतीं द्वारकानगरीमाजगाम
स तु रुक्मिण्यंतःपुरद्वारि क्षणं तूष्णीं तस्थौ
कृष्णोऽपि समागतं ब्राह्मणं ज्ञात्वा प्रद्युम्नेन नमस्कृत्वा वामकरं गृहीत्वा गृहांतरे स्वासने निवेश्य भयाद्वेपमानं तं रुक्मिणीहस्तगतसुवर्णकलशजलेन पादौ प्रक्षाल्य मधुपर्केण पूजयामास
सुधामृतोपमैरन्नपानाद्यैस्तर्पयित्वा तस्य जीर्णवस्त्रांतरे याचनाप्तपृथुकान्स्वयमेव हस्तेन गृहीत्वा प्रहसन्जग्रास
कृष्णेन पृथुके भक्षिते तस्मिन्नेव क्षणे तस्य बहुधनधान्यवस्त्राभरणसंभूतं महदैश्वर्यमभूत्