रात्रौ जागरणं गीतं नृत्यवाद्यादिकैस्तथा । पुण्यपाठैश्च विविधैर्धर्माख्यानैरुपोषणैः
ततः प्रभातसमये कृतपूर्वाह्णिक क्रियः । ब्राह्मणान्भोजयेद्भक्त्या यथाशक्त्या प्रपूजयेत्
स्वयं च पारणं कृत्वा प्रणिपत्य विसर्जयेत् । एवं संवत्सरं यावदहोरात्रं दृढव्रतः
दीपं पलसुवर्णेन तदर्द्धार्द्धेन वा पुनः । वर्तिस्तु राजती प्रोक्ता द्विपलार्द्धार्द्धिकापि वा
घृतपूर्णं तथा कुंभं ताम्रपात्रसमन्वितम् । लक्ष्मीनारायणो देवो यथाशक्त्या हिरण्मयः
कार्यो भक्तिमता पुंसा मुक्तिद्वारमभीप्सता । ततो निमंत्रयेद्विद्वान्ब्रह्मणान्साधुसत्तमान्
द्वादशोत्तमपक्षे तु विप्रान्षण्मध्यमे तथा । अन्यथा कारयेत्त्रीन्वा एकं कर्मकरं द्विजम्
सपत्नीकं द्विजं शांतं क्रियावंतं विशेषतः । इतिहासपुराणज्ञं धर्मज्ञं मृदुमेव च
पितृभक्तं गुरुपरं देवब्राह्मणपूजकम् । पादार्घदानविधिना वस्त्रालंकारभूषणैः
संपूज्य पत्न्या सहितमेकं भक्त्या च पूर्ववत् । लक्ष्मीनारायणं देवं दीपवर्तियुतं तथा
ताम्रपात्रोपरिस्थाप्य घृतकुंभेन संयुतम् । ब्राह्मणाय ततो दद्याद्ध्यात्वा नारायणं परम् । मंत्रेणानेन देवर्षे तमहं कथयामि ते
अविद्या तमसा व्याप्ते संसारे पापनाशनः । ज्ञानप्रदो मोक्षदश्च तस्माद्दत्तो मयानघ
इति दीपमंत्रः । दक्षिणां च यथाशक्त्या दत्त्वा विप्राय भक्तितः । भोजयेद्ब्राह्मणान्पश्चाद्घृतपायसमोदकैः
वस्त्रैराच्छादयेत्पश्चात्सपत्नीकं तथा द्विजम् । शय्यां सोपस्करां दद्याद्धेनुं चैव सवत्सकाम्
तेभ्यस्तु दक्षिणां दद्याद्यथावित्तानुसारतः । सुहृत्स्वजनबंधूश्च भोजयेत्पूजयेत्तथा
एवं महोत्सवं कुर्याद्दीपव्रत समापने । ततो विसर्जयेत्पश्चात्प्रणिपत्य क्षमापयेत्
एवं कृते तु यत्पुण्यं तथा सांक्रांतिकैश्च यत् । संवत्सराख्य दीपस्य तत्फलं प्राप्यते नरैः
मासव्रतैश्च यत्पुण्यं तत्पुण्यं प्राप्यते नरैः । संवत्सरस्य दीपस्य व्रतेन चरितेन च
दानव्रतैर्यथासंख्यैर्यश्च योगव्रतैस्तथा । तत्फलं समवाप्नोति दीपे सांवत्सरे कृते
गोभूहिरण्यदानानि गृहादीनां विशेषतः । यत्फलं लभते विद्वान्तत्फलं दीपदो भवेत्
दीपदः कांतिमाप्नोति दीपदो धनमक्षयम् । दीपदो ज्ञानमाप्नोति दीपदः परमं सुखम्
दीपदानाच्च सौभाग्यं विद्यामत्यंतनिर्मलाम् । आरोग्यं परमामृद्धिं लभते नात्र संशयः
दीपदः सुभगां भार्यां सर्वलक्षणसंयुताम् । पुत्रान्पौत्रान्प्रपौत्रांश्च संततिं चाक्षया लभेत्
ब्राह्मणः परमं ज्ञानं क्षत्रियो राज्यमुत्तमम् । वैश्यो धनपशून्सर्वाञ्छूद्रः सुखमवाप्नुयात्
कुमारी चापि भर्तारं सर्वलक्षणसंयुतम् । प्राप्नोति परमायुश्च पुत्रान्पौत्रांश्च पुष्कलान् 6.30.
वैधव्यं नैव युवती कदाचिदपि पश्यति । न वियोगमवाप्नोति दीपदानप्रभावतः
नाधयो व्याधयश्चैव जायंते दीपदानतः । भयात्प्रमुच्यते भीतो बद्धो मुच्येत बंधनात्
ब्रह्महत्यादिभिः पापैर्दीपव्रतपरायणः । मुच्यते नात्र संदेहो ब्रह्मणो वचनं यथा
चांद्रायणानि कृच्छ्राणि चरितानि न संशयः । येन सांवत्सरो दीपो बोधितः शाश्वतो हरेः
ते धन्यास्ते महात्मानस्तैः प्राप्तं जन्मनः फलम् । यैः संपूज्य हरिं भक्त्या दीपःसांवत्सरः कृतः