पार्वत्युवाच-। वृंदावनरहस्यं च बहुधा कथितं विभो । केन पुण्यविशेषेण नारदः प्रकृतिं गतः
ईश्वर उवाच- एकदाश्चर्यवृत्तांतं मया जिज्ञासितं पुरा । ब्रह्मणा कथितं गुह्यं श्रुतं कृष्णमुखांबुजात्
नारदः पृष्टवान्मह्यं तदाहं प्राप्तवानिदम् । अहं वक्तुं न शक्नोमि तन्माहात्म्यं कथंचन
किं कुर्वे शपनं तस्य स्मृत्वा सीदामि मानसे । इति श्रुत्वा मम वचो दुर्मनाः सोऽभवद्यदा
तदा ब्रह्माणमाहूय अहमादिष्टवान्प्रिये । त्वया यत्कथितं मह्यं नारदाय वदस्व तत्
ब्रह्मा तदा ममवचो निशम्य सह नारदः । जगाम कृष्णसविधं नत्वा पृच्छत्तदेव तु
ब्रह्मोवाच- किमिदं द्वात्रिंशद्वनं वृंदारण्यं विशांपते । श्रोतुमिच्छामि भगवन्यदियोग्योऽस्मि मे वद
श्रीभगवानुवाच- इदं वृंदावनं रम्यं मम धामैव केवलम् । यत्रेमे पशवः साक्षाद्वृक्षाः कीटा नरामराः
ये वसंति ममांत्ये ते मृता यांति ममांतिकम् । अत्र या गोपपत्न्यश्च निवसंति ममालये
योगिन्यस्तास्तु एवं हि मम देवाः परायणाः । पंचयोजनमेवं हि वनं मे देवरूपकम्
कालिंदीयं सुषुम्नाख्या परमामृतवाहिनी । यत्र देवाश्च भूतानि वर्त्तंते सूक्ष्मरूपतः
सर्वतो व्यापकश्चाहं न त्यक्ष्यामि वनं क्वचित् । आविर्भावस्तिरोभावो भवेदत्र युगेयुगे
तेजोमयमिदं स्थानमदृश्यं चर्मचक्षुषाम् । रहस्यं मे प्रभावं च पश्य वृंदावनं युगे
ब्रह्मादीनां देवतानां न दृश्यं तत्कथंचन । ईश्वर उवाच- तच्छ्रुत्वा नारदो नत्वा कृष्णं ब्रह्माणमेव च
आजगाम ह भूर्लोके मिश्रकं नैमिषं वनम् । तत्रासौ सत्कृतश्चापि शौनकाद्यैर्मुनीश्वरैः
पृष्टश्चाप्यागतो ब्रह्मन्कुतस्त्वमधुना वद । तच्छ्रुत्वा नारदः प्राह गोलोकादागतोऽस्म्यहम्
श्रुत्वा कृष्णमुखांभोजाद्वृंदावनरहस्यकम् । नारद उवाच- तत्र नानाविधाः प्रश्नाः कृताश्चैव पुनः पुनः
समस्ता मनवस्तत्र योगाश्चैव मया श्रुताः । तानेव कथयिष्यामि यथाप्रश्नं च तत्त्वतः
शौनकादय ऊचुः - वृंदारण्यरहस्यं हि यदुक्तं ब्रह्मणा त्वयि । तदस्माकं समाचक्ष्व यद्यस्मासु कृपा तव
नारद उवाच- कदाचित्सरयूतीरे दृष्टोऽस्माभिश्च गौतमः । मनस्वी च महादुःखी चिंताकुलितचेतनः
मां दृष्ट्वा गौतमो देवः पपात धरणीतले । उत्तिष्ठ वत्सवत्सेति तमुवाचाहमेव हि
कथं भवान्मनस्वीति प्रोच्य तां यदि रोचते । गौतम उवाच- श्रुतं तव मुखादेव कृष्णतत्त्वं च तादृशम्
द्वारकाख्यं माथुराख्यं रहस्यं बहुशो मया । वृंदावनरहस्यं तु न श्रुतं त्वन्मुखांबुजात्
यतो मे मनसः स्थैर्य्यं भविष्यति च सद्गुरो । नारद उवाच- इदं तु परमं गुह्यं रहस्यातिरहस्यकम्
पुरा मे ब्रह्मणा प्रोक्तं तादृग्वृंदावनोद्भवम् । रहस्यं वद देवेश वृंदारण्यस्य मे पितः
इतिजिज्ञासितं श्रुत्वा क्षणं मौनी स चाभवत् । ततो माऽह महाविष्णुं गच्छ वत्स प्रभुं मम
मयापि तत्र गंतव्यं त्वया सह न संशयः । इत्युक्त्वा मां गृहीत्वा च गतो विष्णोश्च धामनि
महाविष्णौ च कथितं मयोक्तं यत्तदेव हि । तच्छ्रुत्वा च महाविष्णुः स्वयं भुवमथादिशत्
त्वमेवादेशतो मह्यं नीत्वा वै नारदं मुनिम् । स्नानाय विनियुंक्ष्वामुं सरस्यमृतसंज्ञके
महाविष्णुसमादिष्टः स्वयंभूर्मां तथाकरोत् । तत्रामृतसरश्चाहं प्रविश्य स्नानमाचरम्