नृत्यैर्मत्तमयूराणामाकुलं स्मरवर्द्धनम् । रसांबुसेकसंसृष्ट तमांजनतनुद्युतिम्
सुस्निग्धनीलकुटिल कषायावासिकुंतलम् । मदमत्तमयूराद्य शिखंडाबद्धचूडकम्
भृंगसेवितसव्योपक्रमपुष्पावतंसकम् । लोलालकालिविलसत्कपोलादर्शकाशितम्
विचित्रतिलकोद्दाम भालशोभाविराजितम् । तिलपुष्पपतंगेश चंचुमंजुलनासिकम्
चारुबिंबाधरं मंदस्मितदीपितमन्मथम् । वन्यप्रसूनसंकाश ग्रैवेयकमनोहरम्
मदोन्मत्तभ्रमद्भृंगी सहस्रकृतसेवया । सुरद्रुमस्रजाराजन्मुग्धपीनांसकद्वयम्
मुक्ताहारस्फुरद्वक्षः स्थलकौस्तुभभूषितम् । श्रीवत्सलक्षणं जानुलंबिबाहुमनोहरम्
गंभीरनाभिपंचास्य मध्यमध्यातिसुंदरम् । सुजातद्रुमसद्वृत्त मदूरजानुमंजुलम्
कंकणांगदमञ्जीरैर्भूषितं भूषणैः परैः । पीतांशुकलयाविष्ट नितंबघटनायकम्
लावण्यैरपि सौंदर्यजितकोटिमनोभवम् । वेणुप्रवर्त्तितैर्गीतरागैरपि मनोहरैः
मोहयंतं सुखांभोधौ मज्जयंतं जगत्त्रयम् । प्रत्यंगमदनावेशधरं रासरसालसम्
चामरं व्यजनं माल्यं गंधंचंदनमेव च । तांबूलं दर्पणं पानपात्रं चर्वितपात्रकम्
अन्यत्क्रीडाभवं यद्यत्तत्सर्वं च पृथक्पृथक् । रसालं विविधं यंत्रं कलयंतीभिरादरात्
यथास्थाननियुक्ताभिः पश्यंतीभिस्तदिंगितम् । तन्मुखांभोजदत्ताक्षि चंचलाभिरनुक्रमात्
श्रीमत्या राधिका देव्या वामभागे ससंभ्रमम् । आराधयंत्या तांबूलमर्पयंत्या शुचिस्मितम्
समालोक्यार्जुनी यासौ मदनावेशविह्वला । ततस्तां च तथा ज्ञात्वा हृषीकेशोऽपि सर्ववित्
तस्याः पाणिं गृहीत्वैव सर्वक्रीडावनांतरे । यथाकामं रहो रेमे महायोगेश्वरो विभुः
ततस्तस्याः स्कंधदेशे प्रदत्तभुजपल्लवः । आगत्य शारदां प्राह पश्चिमेऽस्मिन्सरोवरे
शीघ्रं स्नापय तन्वंगीं क्रीडाश्रांतां मृदुस्मिताम् । ततस्तां शारदा देवी तस्मिन्क्रीडासरोवरे
स्नानं कुर्वित्युवाचैनां सा च श्रांता तथाकरोत् । जलाभ्यंतरमाप्तासौ पुनरर्जुनतां गतः
उत्तस्थौ यत्र देवेशः श्रीमद्वैकुंठनायकः । दृष्ट्वा तमर्जुनं कृष्णो विषण्णं भग्नमानसम्
मायया पाणिना स्पृष्ट्वा प्रकृतं विदधे पुनः । श्रीकृष्ण उवाच-। धनंजय त्वामाशंसे भवान्प्रियसखो मम
त्वत्समो नास्ति मे कोपि रहोवेत्ता जगत्त्रये । यद्रहस्यं त्वया पृष्टमनुभूतं च तत्पुनः
कथ्यते यदि तत्कस्मै शपसे मां तदार्जुन । सनत्कुमार उवाच-। इति प्रसादमासाद्य शपथैर्जातनिर्णयः
ययौ हृष्टमनास्तस्मात्स्वधामाद्भुतसंस्मृतिः । इति ते कथितं सर्वं रहो यद्गोचरं मम
गोविंदस्य तथा चास्मै कथने शपथस्तव । ईश्वर उवाच-। इति श्रुत्वा वचस्तस्य सिद्धिमौपगविर्गतः
नरनारायणावासं वृंदारण्यमुपाव्रजत् । तत्रास्तेऽद्यापि कृष्णस्य नित्यलीलाविहारवित्
नारदेनापिपृष्टोऽहं नाब्रवं तद्रहस्यकम् । प्राप्तं तथापि तेनेदं प्रकृतित्वमुपेत्यच
तुभ्यं यत्तु मया प्रोक्तं रहस्यं स्नेहकारणात् । तन्नकस्मैचिदाख्येयं त्वया भद्रे स्वयोनिवत्
इमं श्रीभगवद्भक्तमहिमाध्यायमद्भुतम् । यः पठेच्छृणुयाद्वापि स रतिं विंदते हरौ