श्रीकृष्णस्य पुरस्तात्सा समेत्य प्रेमविह्वला । पपात कांचनीभूमौ पश्यंती सर्वमद्भुतम्
कृच्छ्रात्कथंचिदुत्थाय शनैरुन्मील्य लोचने । स्वेदांभः पुलकोत्कंप भावभाराकुलासती
ददर्श प्रथमं तत्र स्थलं चित्रं मनोरमम् । ततः कल्पतरुस्तत्र लसन्मरकतच्छदः
प्रवालपल्लवैर्युक्तः कोमलो हेमदंडकः । स्फटिकप्रवालमूलश्च कामदः कामसंपदाम्
प्रार्थकाभीष्टफलदस्तस्याधो रत्नमंदिरम् । रत्नसिंहासनं तत्र तत्राष्टदलपद्मकम्
शंखपद्मनिधी तत्र स व्यापसव्यसंस्थितौ । चतुर्दिक्षु यथा स्थानं सहिताः कामधेनवः
परितो नंदनोद्यानं मलयानिलसेवितम् । ऋतूनां चैव सर्वेषां कुसुमानां मनोहरैः
आमोदैर्वासितं सर्वं कालागुरुपराजितम् । मकरंदकणावृष्टिशीतलं सुमनोहरम्
मकरंदरसास्वाद मत्तानां भृंगयोषिताम् । वृंदशो झंकृतैः शश्वच्चैवं मुखरितांतरम्
कलकंठी कपोतानां सारिकाशुकयोषिताम् । अन्यासां पत्रिकांतानां कलनादैर्निनादितम्
नृत्यैर्मत्तमयूराणामाकुलं स्मरवर्द्धनम् । रसांबुसेकसंसृष्ट तमांजनतनुद्युतिम्
सुस्निग्धनीलकुटिल कषायावासिकुंतलम् । मदमत्तमयूराद्य शिखंडाबद्धचूडकम्
भृंगसेवितसव्योपक्रमपुष्पावतंसकम् । लोलालकालिविलसत्कपोलादर्शकाशितम्
विचित्रतिलकोद्दाम भालशोभाविराजितम् । तिलपुष्पपतंगेश चंचुमंजुलनासिकम्
चारुबिंबाधरं मंदस्मितदीपितमन्मथम् । वन्यप्रसूनसंकाश ग्रैवेयकमनोहरम्
मदोन्मत्तभ्रमद्भृंगी सहस्रकृतसेवया । सुरद्रुमस्रजाराजन्मुग्धपीनांसकद्वयम्
मुक्ताहारस्फुरद्वक्षः स्थलकौस्तुभभूषितम् । श्रीवत्सलक्षणं जानुलंबिबाहुमनोहरम्
गंभीरनाभिपंचास्य मध्यमध्यातिसुंदरम् । सुजातद्रुमसद्वृत्त मदूरजानुमंजुलम्
कंकणांगदमञ्जीरैर्भूषितं भूषणैः परैः । पीतांशुकलयाविष्ट नितंबघटनायकम्
लावण्यैरपि सौंदर्यजितकोटिमनोभवम् । वेणुप्रवर्त्तितैर्गीतरागैरपि मनोहरैः
मोहयंतं सुखांभोधौ मज्जयंतं जगत्त्रयम् । प्रत्यंगमदनावेशधरं रासरसालसम्
चामरं व्यजनं माल्यं गंधंचंदनमेव च । तांबूलं दर्पणं पानपात्रं चर्वितपात्रकम्
अन्यत्क्रीडाभवं यद्यत्तत्सर्वं च पृथक्पृथक् । रसालं विविधं यंत्रं कलयंतीभिरादरात्
यथास्थाननियुक्ताभिः पश्यंतीभिस्तदिंगितम् । तन्मुखांभोजदत्ताक्षि चंचलाभिरनुक्रमात्
श्रीमत्या राधिका देव्या वामभागे ससंभ्रमम् । आराधयंत्या तांबूलमर्पयंत्या शुचिस्मितम्
समालोक्यार्जुनी यासौ मदनावेशविह्वला । ततस्तां च तथा ज्ञात्वा हृषीकेशोऽपि सर्ववित्
तस्याः पाणिं गृहीत्वैव सर्वक्रीडावनांतरे । यथाकामं रहो रेमे महायोगेश्वरो विभुः
ततस्तस्याः स्कंधदेशे प्रदत्तभुजपल्लवः । आगत्य शारदां प्राह पश्चिमेऽस्मिन्सरोवरे
शीघ्रं स्नापय तन्वंगीं क्रीडाश्रांतां मृदुस्मिताम् । ततस्तां शारदा देवी तस्मिन्क्रीडासरोवरे
स्नानं कुर्वित्युवाचैनां सा च श्रांता तथाकरोत् । जलाभ्यंतरमाप्तासौ पुनरर्जुनतां गतः