श्रीराधिकोवाच-। अस्या यावद्भवेत्पूर्णं पुरश्चरणमुत्तमम् । तावद्धि पालयैनां त्वं सावधाना सहालिभिः
इत्युक्त्वा सा ययौ कृष्णपादांबुरुहसन्निधिम् । छायामात्मभवामात्मप्रेयसीनां निधाय च
तस्थौ तत्र यथापूर्वं राधिका कृष्णवल्लभा । अत्र प्रियंवदादेशात्पद्ममष्टदलं शुभम्
गोरोचनाभिर्निर्माय कुंकुमेनापि चंदनैः । एभिर्नानाविधैर्द्रव्यैः संमिश्रैः सिद्धिदायकम्
लिखित्वा यंत्रराजं च शुद्धं मंत्रं तमद्भुतम् । कृत्वा न्यासादिकं पाद्यमर्घ्यं चापि यथाविधि
नानर्तुसंभवैः पुष्पैः कुंकुमैरपि चंदनैः । धूपदीपैश्च नैवेद्यैस्तांबूलैर्मुखवासनैः
वासोलंकारमाल्यैश्च संपूज्य नंदनंदनम् । परिवारैः समं सर्वैः सायुधं च सवाहनम्
स्तुत्वा प्रणम्य विधिवच्चेतसा स्मरणं ययौ । ततो भक्तिवशो देवो यशोदानंदनः प्रभुः
स्मितावलोकितापांग तरंगिततरेंगितम् । उवाच राधिकां देवीं तामानय इहाशु च
आज्ञप्ता चैव सा देवी प्रस्थाप्य शारदां सखीम् । तामानिनाय सहसा पुरोवासुरसात्मनः
श्रीकृष्णस्य पुरस्तात्सा समेत्य प्रेमविह्वला । पपात कांचनीभूमौ पश्यंती सर्वमद्भुतम्
कृच्छ्रात्कथंचिदुत्थाय शनैरुन्मील्य लोचने । स्वेदांभः पुलकोत्कंप भावभाराकुलासती
ददर्श प्रथमं तत्र स्थलं चित्रं मनोरमम् । ततः कल्पतरुस्तत्र लसन्मरकतच्छदः
प्रवालपल्लवैर्युक्तः कोमलो हेमदंडकः । स्फटिकप्रवालमूलश्च कामदः कामसंपदाम्
प्रार्थकाभीष्टफलदस्तस्याधो रत्नमंदिरम् । रत्नसिंहासनं तत्र तत्राष्टदलपद्मकम्
शंखपद्मनिधी तत्र स व्यापसव्यसंस्थितौ । चतुर्दिक्षु यथा स्थानं सहिताः कामधेनवः
परितो नंदनोद्यानं मलयानिलसेवितम् । ऋतूनां चैव सर्वेषां कुसुमानां मनोहरैः
आमोदैर्वासितं सर्वं कालागुरुपराजितम् । मकरंदकणावृष्टिशीतलं सुमनोहरम्
मकरंदरसास्वाद मत्तानां भृंगयोषिताम् । वृंदशो झंकृतैः शश्वच्चैवं मुखरितांतरम्
कलकंठी कपोतानां सारिकाशुकयोषिताम् । अन्यासां पत्रिकांतानां कलनादैर्निनादितम्
नृत्यैर्मत्तमयूराणामाकुलं स्मरवर्द्धनम् । रसांबुसेकसंसृष्ट तमांजनतनुद्युतिम्
सुस्निग्धनीलकुटिल कषायावासिकुंतलम् । मदमत्तमयूराद्य शिखंडाबद्धचूडकम्
भृंगसेवितसव्योपक्रमपुष्पावतंसकम् । लोलालकालिविलसत्कपोलादर्शकाशितम्
विचित्रतिलकोद्दाम भालशोभाविराजितम् । तिलपुष्पपतंगेश चंचुमंजुलनासिकम्
चारुबिंबाधरं मंदस्मितदीपितमन्मथम् । वन्यप्रसूनसंकाश ग्रैवेयकमनोहरम्
मदोन्मत्तभ्रमद्भृंगी सहस्रकृतसेवया । सुरद्रुमस्रजाराजन्मुग्धपीनांसकद्वयम्
मुक्ताहारस्फुरद्वक्षः स्थलकौस्तुभभूषितम् । श्रीवत्सलक्षणं जानुलंबिबाहुमनोहरम्
गंभीरनाभिपंचास्य मध्यमध्यातिसुंदरम् । सुजातद्रुमसद्वृत्त मदूरजानुमंजुलम्
कंकणांगदमञ्जीरैर्भूषितं भूषणैः परैः । पीतांशुकलयाविष्ट नितंबघटनायकम्
लावण्यैरपि सौंदर्यजितकोटिमनोभवम् । वेणुप्रवर्त्तितैर्गीतरागैरपि मनोहरैः