वर्णप्रभा समाख्याता सुप्रभेयं मणिप्रभा । इयं हारावली तारा मालिनीयं शुभा मता
मालतीयमियं यूथी वासंती नवमल्लिका । मल्लीयं नवमल्लीयमसौ शेफालिका मता
सौगंधिकेयं कस्तूरी पद्मिनीयं कुमुद्वती । एषैव हि रसोल्लासा चित्रवृंदा समा त्वियम्
रंभेयमुर्वशी चैषा सुरेखा स्वर्णरेखिका । एषा कांचनमालेयं सत्यसंततिका परा
एताः परिकृताः सर्वाः परिचेयाः परा अपि । सहितास्माभिरेताभिर्विहरिष्यसि भामिनि
एहि पूर्वसरस्तीरे तत्र त्वां विधिवत्सखि । स्नापयित्वाथ दास्यामि मंत्रं सिद्धिप्रदायकम्
इति तां सहसा नीत्वा स्नापयित्वा विधानतः । वृंदावनकलानाथ प्रेयस्या मंत्रमुत्तमम्
ग्राहयामास संक्षेपाद्दीक्षाविधिपुरस्सरम् । परं वरुणबीजस्य वह्निबीजपुरस्कृतम्
चतुर्थस्वरसंयुक्तं नादबिंदुविभूषितम् । पुटितं प्रणवाभ्यां च त्रैलोक्ये चातिदुर्ल्लभम्
मंत्रग्रहणमात्रेण सिद्धिः सर्वा प्रजायते । पुरश्चर्याविधिर्ध्यानं होमसंख्याजपस्य च
तप्तकांचनगौरांगीं नानालंकारभूषिताम् । आश्चर्यरूपलावण्यां सुप्रसन्नां वरप्रदाम्
कल्हारैः करवीराद्यैश्चंपकैः सरसीरुहैः । सुगंधकुसुमैरन्यैः सौगंधिकसमन्वितैः
पाद्यार्घ्याचमनीयैश्च धूपदीपैर्मनोहरैः । नैवेद्यैर्विविधैर्दिव्यैः सखीवृंदाहृतैर्मुदा
संपूज्य विधिवद्देवीं जप्त्वा लक्षमनुं ततः । हुत्वा च विधिना स्तुत्वा प्रणम्य दंडवद्भुवि
ततः सा संस्तुता देवी निमेषरहितांतरा । परिकल्प्य निजां छायां माययात्मसमीहया
पार्श्वेऽथ प्रेयसीं तत्र स्थापयित्वा बलादिव । सखीभिरावृता हृष्टा शुद्धैः पूजाजपादिभिः
स्तवैर्भक्त्या प्रणामैश्च कृपयाविरभूत्तदा । हेमचंपकवर्णाभा विचित्राभरणोज्ज्वला
अंगप्रत्यंगलावण्य लालित्य मधुराकृतिः । निष्कलंक शरत्पूर्णकलानाथ शुभानना
स्निग्धमुग्धस्मितालोक जगत्त्रयमनोहरा । निजया प्रभयात्यंतं द्योतयंती दिशो दश
अब्रवीदथ सा देवी वरदा भक्तवत्सला । देव्युवाच-। मत्सखीनां वचः सत्यं तेन त्वं मे प्रिया सखी
समुत्तिष्ठ समागच्छ कामं ते साधयाम्यहम् । अर्जुनी सा वचो देव्याः श्रुत्वा चात्ममनीषितम्
पुलकांकुरमुग्धांगी बाष्पाकुलविलोचना । पपात चरणे देव्याः पुनश्च प्रेमविह्वला
ततः प्रियंवदां देवीं समुवाच सखीमिमाम् । पाणौ गृहीत्वा मत्संगे समाश्वास्य समानय
ततः प्रियंवदा देव्या आज्ञया जातसंभ्रमा । तां तथैव समादाय संगे देव्या जगाम ह
गत्वोत्तरसरस्तीरे स्नापयित्वा विधानतः । संकल्पादिकपूर्वं तु पूजयित्वा यथाविधि
श्रीगोकुलकलानाथमंत्रं तच्च सुसिद्धिदम् । ग्राहयामास तां देवी कृपया हरिवल्लभा
व्रतं गोकुलनाथाख्यं पूर्वं मोहनभूषितम् । सर्वसिद्धिप्रदं मंत्रं सर्वतंत्रेषु गोपितम्
गोविंदेरितविज्ञासौ ददौ भक्तिमचंचलाम् । ध्यानं च कथितं तस्यै मंत्रराजं च मोहनम्
उक्तं च मोहने तंत्रे स्मृतिरप्यस्य सिद्धिदा । नीलोत्पलदलश्यामं नानालंकारभूषितम्
कोटिकंदर्पलावण्यं ध्यायेद्रासरसाकुलम् । प्रियंवदामुवाचेदं रहस्यं पावनेच्छया