अत्र च श्लोका गीयंते । शस्त्रास्त्रमोक्षमजरं दग्ध्वा तद्बलमोजसा । कृत्यां भस्मावशेषं तां ततो वाराणसीं पुरीम्
प्रभूतरथमातंगां साश्वां पुंस्त्रीसमन्विताम् । साशेषकोषकोष्ठां तां दुर्निरीक्ष्यां सुरैरपि
द्वारोपलक्षिताशेष गृहप्राकारचत्वराम् । प्रददाह हरेश्चक्रं सकलामेव तां पुरीम्
अक्षीणगतिसामर्थ्यमसाध्यकृतसाधनम् । तच्चक्रं प्रज्वलद्भासं विष्णोरभ्याययौ करम्
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमामहेश्वरसंवादे श्रीकृष्णचरिते पौंड्रकपुत्रकृत्याविध्वंसनं नामैकपंचाशदधिक द्विशततमोऽध्यायः
श्रीरुद्र उवाच- अथ मगधाधिपः कंसवधानंतरं द्विषन्नेव यादवान्सदा पीडयामास ते दुःखिताः कृष्णमूचुः
स च भीमार्जुनावाहूय संमंत्रयामास कृष्णः अनेन रुद्र पूःजितस्तत्प्रसादाच्छस्त्रैरवध्यः परं केनापिप्रकारेण हंतव्य इति
अथ विचार्य भीममाह एनं प्रतिमल्लयुद्धं कुरु तत्तेन प्रतिज्ञातम्
अथ सकल चराचरजगद्वंद्यो वासुदेवो भीमार्जुनसहितो जरासंधस्य पुरीं गत्वा विप्रवेषेण तस्यांतःपुरमवाप
सोऽपि महावीर्यान्क्षत्त्रियान्युद्धे निर्जित्य बलाद्गृहीत्वा स्ववेश्मनि निरुध्य मासिमासि कृष्णचतुर्दश्यामेकैकं हत्वा तद्रक्तेनैव बलिं भैरवायाकरोत्
एवंविधं सकलजनपार्थिववधं कुर्वतो जरासंधस्य समुद्यमानो भीमार्जुनसहितस्तस्य गृहे विप्रवेषेणैव प्रविवेश
स तु तान्दृष्ट्वा दंडवत्प्रणतो भूत्वा यथोचितासनेषु निवेश्य मधुपर्कविधानेन संपूज्य धन्योस्मि कृतकृत्योस्मि किमर्थं भवन्तो मे समीप आगतास्तद्वक्तव्यमहं तत्सर्वं भवद्भ्यो दास्यामीत्युवाच
तेषां वासुदेवः प्रहसन्पार्थिवं तमुवाच कृष्णभीमार्जुना युद्धार्थमागताः स्म अस्माकमन्यतमं द्वंद्वयुद्धार्थं वृणीष्वेत्यवदत्
सोऽपि तथेत्यवदत्ततो द्वंद्वयुद्धार्थं मारुतिं वरयामास
ततो भीमजरासंधयोरभितो भयंकरं मल्लयुद्धं निरंतरं पंचविंशतिवासरमभूत्
ततः कृष्णेनैव संचोदितो वायुपुत्रस्तस्य शरीरं द्विधाकृत्य भूमौ निपातयामास ।। एवं जरासंधं पांडुपुत्रेण हत्वा तान्जरासंधनिरोधितान्वासुदेवोऽपि पार्थिवान्मोचयामास
निहत्य वायुपुत्रेण जरांसंधं यदूद्वहः । तद्गृहे सन्निरुद्धांस्तु मोचयामास पार्थिवान्
ते च तत्र नमस्कृत्य स्तुत्वा च मधुसूदनम् । स्वान्स्वान्जनपदान्सर्वे जग्मुः कृष्णेन रक्षिताः
अथ ताभ्यामिंद्रप्रस्थं गत्वा वासुदेवस्तत्र महाक्रतुं राजसूयं युधिष्ठिरं कारयामास
तत्र समाप्ते क्रतौ अग्रपूजां भीष्मानुमतेन कृष्णाय दत्तवान्
तत्र शिशुपालः कृष्णं बहून्याक्षेपवाक्यान्युक्तवान्
कृष्णोऽपि सुदर्शनेन तस्य शिरश्चिच्छेद
असौ जन्मत्रयावसाने हरेः सारूप्यमगमत्
अथ शिशुपालं निहतं श्रुत्वा दंतवक्त्रः कृष्णेन योद्धुं मथुरामाजगाम
कृष्णस्तु तच्छ्रुत्वा रथमारुह्य तेन योद्धुं मथुरामाययौ
दंतवक्त्रवासुदेवयोरहोरात्रं मथुरापुरद्वारि यमुनातीरे संग्रामः समवर्त्तत कृष्णस्तु गदया तं जघान
स तु चूर्णितसर्वांगो वज्रनिर्भिन्न महीधर इव गतासुरवनितले पपात
सोऽपि हरेः सायुज्यं योगिगम्यं नित्यानंदसुखं शाश्वतं परमं पदमवाप
इत्थं जयविजयौ सनकादिशापव्याजेन केवलं भगवतोलीलार्थं संसृताववतीर्य जन्मत्रयेऽपि तेनैव निहतौ जन्मत्रयावसाने मुक्तिमवाप्तौ
कृष्णोऽपि तं हत्वा यमुनामुत्तीर्य नंदव्रजं गत्वा प्राक्तनौ पितरावभिवाद्य आश्वास्य ताभ्यां साश्रुकंठमालिगितः सकलगोपवृद्धान्प्रणम्याश्वास्य रत्नाभरणादिभिस्तत्रस्थान्संतर्पयामास