विषमोत्कंठिता पश्चात्पश्यंती परितो दिशम् । एकमाकाशसंभूतं ध्वनिमश्रौषमद्भुतम्
अनेनैव पथा सुभ्रु गच्छ पूर्वसरोवरम् । उपस्पृश्य जलं तस्य साधयस्व मनोरथम्
तत्र संति हि सख्यस्ते मा सीद वरवार्णिनि । ताहि संपादयिष्यंति तत्र ते वरमीप्सितम्
इत्याकर्ण्य वचस्तस्य तस्मादत्र समागता । विषादहर्षपूर्णात्मा चिंताकुलसमाकुला
आगतास्य जलं स्पृष्ट्वा नानाविधशुभध्वनिम् । अश्रौषं च ततः पश्चादपश्यं भवतीः पराः
एतन्मात्रं विजानामि कायेन मनसा गिरा । एतदेव मया देव्यः कथितं यदि रोचते
का यूयं तनुजाः केषां क्व जाताः कस्य वल्लभाः । तच्छ्रुत्वा वचनं तस्याः सा वै प्रियमुदाब्रवीत्
अस्त्वेवं प्राणसख्यः स्म तस्यैव च वयं शुभे । वृंदावनकलानाथ विहारदारिकाः सुखम्
ता आत्ममुदितास्तेन व्रजबाला इहागताः । एताः श्रुतिगणाः ख्याता एताश्च मुनयस्तथा
वयं बल्लवबाला हि कथितास्ते स्वरूपतः । अत्र राधापतेरंगात्पूर्वायाः प्रेयसीतमाः
नित्या नित्यविहारिण्यो नित्यकेलि भुवश्चराः । एषा पूर्णरसा देवी एषा च रसमंथरा
एषा रसालया नाम एषा च रसवल्लरी । रसपीयूषधारेयमेषा रसतरंगिणी
रसकल्लोलिनी चैषा इयं च रसवापिका । अनंगसेना एषैव इयं चानंगमालिनी
मदयंती इयं बाला एषा च रसविह्वला । इयं च ललिता नाम इयं ललितयौवना
अनंगकुसुमा चैषा इयं मदनमंजरी । एषा कलावती नाम इयं रतिकला स्मृता
इयं कामकला नाम इयं हि कामदायिनी । रतिलोला इयं बाला इयं बाला रतोत्सुका
एषा चरति सर्वस्व रतिचिंतामणिस्त्वसौ । नित्यानंदाः काश्चिदेता नित्यप्रेमरसप्रदाः
अतःपरं श्रुतिगणास्तासां काश्चिदिमाः शृणु । उद्गीतैषा सुगीतेयं कलगीता त्वियं प्रिया
एषा कलसुराख्याता बालेयं कलकंठिका । विपंचीयं क्रमपदा एषा बहुहुता मता
एषा बहुप्रयोगेयं ख्याता बहुकला बला । इयं कलावती ख्याता मता चैषा क्रियावती
अतःपरं मुनिगणास्तासां कतिपया इह । इयमुग्रतपा नाम एषा बहुगुणा स्मृता
एषा प्रियव्रता नाम सुव्रता च इयं मता । सुरेखेयं मता बाला सुपर्वेयं बहुप्रदा
रत्नरेखा त्वियं ख्याता मणिग्रीवा त्वसौ मता । सुपर्णा चेयमाकल्पा सुकल्पा रत्नमालिका
इयं सौदामिनी सुभ्रूरियं च कामदायिनी । एषा च भोगदाख्या ता इयं विश्वमता सती
एषा च धारिणी धात्री सुमेधा कांतिरप्यसौ । अपर्णेयं सुपर्णैषा मतैषा च सुलक्षणा
सुदतीयं गुणवती चैषासौ कलिनी मता । एषा सुलोचना ख्याता इयं च सुमनाः स्मृता
अश्रुता च सुशीला च रतिसुखप्रदायिनी । अतः परं गोपबाला वयमत्रागतास्तु याः
तासां च परिचीयंतां काश्चिदंबुरुहानने । असौ चंद्रावली चैषा चंद्रिकेयं शुभा मता
एषा चंद्रावली चंद्ररेखेयं चंद्रिकाप्यसौ । एषा ख्याता चंद्रमाला मता चंद्रालिकात्वियम्
एषा चंद्रप्रभा चंद्रकलेयमबला स्मृता । एषा वर्णावली वर्णमालेयं मणिमालिका