दृष्ट्वा तत्परमाश्चर्यं चिंतयंती हृदा कियत् । पादांगुष्ठेना लिखंती भुवं नम्रानना स्थिता
ततस्तासां संभ्रमोऽभूद्दृष्टीनां च परस्परम् । केयं मदीयजातीया चिरेणानस्तकौतुका
इति सर्वाः समालोक्य ज्ञातव्येयमिति क्षणम् । आमंत्र्य मंत्रणाभिज्ञाः कौतुकाद्द्रष्टुमागताः
आगत्य तासामेकाथ नाम्ना प्रियमुदा मता । गिरा मधुरया प्रीत्या तामुवाच मनस्विनी
प्रियमुदोवाच-। कासि त्वं कस्य कन्यासि कस्य त्वं प्राणवल्लभा । जाता कुत्रासि केनास्मिन्नानीता वा गता स्वयम्
एतच्च सर्वमस्माकं कथ्यतां चिंतया किमु । स्थानेऽस्मिन्परमानंदे कस्यापि दुःखमस्ति किम्
इति पृष्टा तया सा तु विनयावनतिं गता । उवाच सुस्वरं तासां मोहयंती मनांसि च
अर्जुन उवाच- । का वास्मि कस्य कन्या वा प्रजाता कस्य वल्लभा । आनीता केन वा चात्र किं वाथ स्वयमागता
एतत्किंचिन्न जानामि देवी जानातु तत्पुनः । कथितं श्रूयतां तन्मे मद्वाक्ये प्रत्ययो यदि
अस्यैव दक्षिणे पार्श्वे एकमस्ति सरोवरम् । तत्राहं स्नातुमायाता जाता तत्रैव संस्थिता
विषमोत्कंठिता पश्चात्पश्यंती परितो दिशम् । एकमाकाशसंभूतं ध्वनिमश्रौषमद्भुतम्
अनेनैव पथा सुभ्रु गच्छ पूर्वसरोवरम् । उपस्पृश्य जलं तस्य साधयस्व मनोरथम्
तत्र संति हि सख्यस्ते मा सीद वरवार्णिनि । ताहि संपादयिष्यंति तत्र ते वरमीप्सितम्
इत्याकर्ण्य वचस्तस्य तस्मादत्र समागता । विषादहर्षपूर्णात्मा चिंताकुलसमाकुला
आगतास्य जलं स्पृष्ट्वा नानाविधशुभध्वनिम् । अश्रौषं च ततः पश्चादपश्यं भवतीः पराः
एतन्मात्रं विजानामि कायेन मनसा गिरा । एतदेव मया देव्यः कथितं यदि रोचते
का यूयं तनुजाः केषां क्व जाताः कस्य वल्लभाः । तच्छ्रुत्वा वचनं तस्याः सा वै प्रियमुदाब्रवीत्
अस्त्वेवं प्राणसख्यः स्म तस्यैव च वयं शुभे । वृंदावनकलानाथ विहारदारिकाः सुखम्
ता आत्ममुदितास्तेन व्रजबाला इहागताः । एताः श्रुतिगणाः ख्याता एताश्च मुनयस्तथा
वयं बल्लवबाला हि कथितास्ते स्वरूपतः । अत्र राधापतेरंगात्पूर्वायाः प्रेयसीतमाः
नित्या नित्यविहारिण्यो नित्यकेलि भुवश्चराः । एषा पूर्णरसा देवी एषा च रसमंथरा
एषा रसालया नाम एषा च रसवल्लरी । रसपीयूषधारेयमेषा रसतरंगिणी
रसकल्लोलिनी चैषा इयं च रसवापिका । अनंगसेना एषैव इयं चानंगमालिनी
मदयंती इयं बाला एषा च रसविह्वला । इयं च ललिता नाम इयं ललितयौवना
अनंगकुसुमा चैषा इयं मदनमंजरी । एषा कलावती नाम इयं रतिकला स्मृता
इयं कामकला नाम इयं हि कामदायिनी । रतिलोला इयं बाला इयं बाला रतोत्सुका
एषा चरति सर्वस्व रतिचिंतामणिस्त्वसौ । नित्यानंदाः काश्चिदेता नित्यप्रेमरसप्रदाः
अतःपरं श्रुतिगणास्तासां काश्चिदिमाः शृणु । उद्गीतैषा सुगीतेयं कलगीता त्वियं प्रिया
एषा कलसुराख्याता बालेयं कलकंठिका । विपंचीयं क्रमपदा एषा बहुहुता मता
एषा बहुप्रयोगेयं ख्याता बहुकला बला । इयं कलावती ख्याता मता चैषा क्रियावती