सद्यः शुद्धस्वर्णरश्मिगौरकांततनूलताम् । स्फुरत्किशोरवर्षीयां शारदेंदुनिभाननाम्
सुनीलकुटिलस्निग्धविलसद्रत्नकुंतलाम् । सिंदूरबिंदुकिरणप्रोज्ज्वलालकपट्टिकाम्
उन्मीलद्भ्रूलताभंगि जितस्मरशरासनाम् । घनश्यामलसल्लोल खेलल्लोचनखंजनाम्
मणिं कुंडलतेजोंशु विस्फुरद्गंडमण्डलाम् । मृणालकोमलभ्राजदाश्चर्यभुजवल्लरीम्
शरदंबुरुहां सर्वश्रीचौरपाणिपल्लवाम् । विदग्धरचितस्वर्णकटिसूत्रकृतांतराम्
कूजत्कांचीकलापांत विभ्राजज्जघनस्थलाम् । भ्राजद्दुकूलसंवीतनितंबोरुसुमंदिराम्
शिंजानमणिमंजीरसुचारुपदपंकजाम् । स्फुरद्विविधकंदर्पकलाकौशलशालिनीम्
सर्वलक्षणसंपन्नां सर्वाभरणभूषिताम् । आश्चर्यललनाश्रेष्ठामात्मानं सव्यलोकयत्
विसस्मार च यत्किंचित्पौर्वदेहिकमेव च । मायया गोपिकाप्राणनाथस्य तदनंतरम्
इति कर्त्तव्यतामूढा तस्थौ तत्र सुविस्मिता । अत्रांतरेंऽबरे धीर ध्वनिराकस्मिकोऽभवत्
अनेनैव पथा सुभ्रु गच्छ पूर्वसरोवरम् । उपस्पृश्य जलं तस्य साधयस्व मनोरथम्
तत्र संति हि सख्यस्ते मा सीद वरवर्णिनि । ता हि संपादयिष्यंति तत्रैव वरमीप्सितम्
इति दैवीं गिरं श्रुत्वा गत्वा पूर्वसरोऽथ सा । नानापूर्वप्रवाहं च नानापक्षिसमाकुलम्
स्फुरत्कैरवकह्लारकमलेंदीवरादिभिः । भ्राजितं पद्मरागैश्च पद्मसोपानसत्तटम्
विविधैः कुसुमोद्दामैर्मंजुकुंजलताद्रुमैः । विराजितचतुस्तीरमुपस्पृश्य स्थिता क्षणम्
तत्रांतरे क्वणत्कांची मंजुमंजीररंजितम् । किंकिणीनां झणत्कारं शुश्रावोत्कर्णसंपुटे
ततश्च प्रमदावृंदमाश्चर्ययुतयौवनम् । आश्चर्यालंकृतिन्यासमाश्चर्याकृतिभाषितम्
अद्भुतांगमपूर्वं सा पृथगाश्चर्यविभ्रमम् । चित्रसंभाषणं चित्रहसितालोकनादिकम्
मधुराद्भुतलावण्यं सर्वमाधुर्यसेवितम् । चिल्लावण्यगतानंतमाश्चर्याकुलसुंदरम्
आश्चर्यस्निग्धसौंदर्यमाश्चर्यानुग्रहादिकम् । सर्वाश्चर्यसमुदयमाश्चर्यालोकनादिकम्
दृष्ट्वा तत्परमाश्चर्यं चिंतयंती हृदा कियत् । पादांगुष्ठेना लिखंती भुवं नम्रानना स्थिता
ततस्तासां संभ्रमोऽभूद्दृष्टीनां च परस्परम् । केयं मदीयजातीया चिरेणानस्तकौतुका
इति सर्वाः समालोक्य ज्ञातव्येयमिति क्षणम् । आमंत्र्य मंत्रणाभिज्ञाः कौतुकाद्द्रष्टुमागताः
आगत्य तासामेकाथ नाम्ना प्रियमुदा मता । गिरा मधुरया प्रीत्या तामुवाच मनस्विनी
प्रियमुदोवाच-। कासि त्वं कस्य कन्यासि कस्य त्वं प्राणवल्लभा । जाता कुत्रासि केनास्मिन्नानीता वा गता स्वयम्
एतच्च सर्वमस्माकं कथ्यतां चिंतया किमु । स्थानेऽस्मिन्परमानंदे कस्यापि दुःखमस्ति किम्
इति पृष्टा तया सा तु विनयावनतिं गता । उवाच सुस्वरं तासां मोहयंती मनांसि च
अर्जुन उवाच- । का वास्मि कस्य कन्या वा प्रजाता कस्य वल्लभा । आनीता केन वा चात्र किं वाथ स्वयमागता
एतत्किंचिन्न जानामि देवी जानातु तत्पुनः । कथितं श्रूयतां तन्मे मद्वाक्ये प्रत्ययो यदि
अस्यैव दक्षिणे पार्श्वे एकमस्ति सरोवरम् । तत्राहं स्नातुमायाता जाता तत्रैव संस्थिता