कृत्वा ततः शुभं होमं स्नानं च विधिना ततः । कृतकृत्यमिवात्मानं प्राप्तप्रायमनोरथम्
करस्थां सर्वसिद्धिं च स पार्थः सममन्यत । अस्मिन्नवसरे देवी तमागत्य स्मितानना
उवाच गच्छ वत्स त्वमधुना तद्गृहांतरे । ततः ससंभ्रमः पार्थः समुत्थाय मुदान्वितः
असंख्यहर्षपूर्णात्मा दंडवत्तां ननाम ह । आज्ञप्तस्तु तया सार्द्धं देवी वयस्ययार्जुनः
गतो राधापतिस्थानं यत्सिद्धैरप्यगोचरम् । ततश्च स उपादिष्टो गोलोकादुपरिस्थितम्
स्थिरं वायुधृतं नित्यं सत्यं सर्वसुखास्पदम् । नित्यं वृंदावनं नाम नित्यरासमहोत्सवम्
अपश्यत्परमं गुह्यं पूर्णप्रेमरसात्मकम् । तस्या हि वचनादेव लोचनैर्वीक्ष्य तद्रहः
विवशः पतितस्तत्र विवृद्धप्रेमविह्वलः । ततः कृच्छ्राल्लब्धसंज्ञो दोर्भ्यामुत्थापितस्तया
सांत्वनावचनैस्तस्याः कथंचित्स्थैर्यमागतः । ततस्तपः किमन्यन्मे कर्त्तव्यं विद्यते वद
इति तद्दर्शनोत्कंठाभरेण तरलोऽभवत् । ततस्तया करे तस्य धृत्वा तत्पददक्षिणे
प्रतिपेदे सुदेशेन गत्वा चोक्तमिदं वचः । स्नानायैतच्छुभं पार्थ विश त्वं जलविस्तरम्
सहस्रदलपद्मस्थ संस्थानं मध्यकोरकम् । चतुःसरश्चतुर्धारमाश्चर्यकुलसंकुलम्
अस्यांतरे प्रविश्याथ विशेषमिह पश्यसि । एतस्य दक्षिणे देश एष चात्र सरोवरः
मधुमाध्वीकपानं यन्नाम्ना मलयनिर्झरः । एतच्च फुल्लमुद्यानं वसंते मदनोत्सवम्
कुरुते यत्र गोविंदो वसंतकुसुमोचितम् । यत्रावतारं कृष्णस्य स्तुवंत्येव दिवानिशम्
भवेद्यत्स्मरणादेव मुनेः स्वांते स्मरांकुरः । ततोऽस्मिन्सरसि स्नात्वा गत्वा पूर्वसरस्तटम्
उपस्पृश्य जलं तस्य साधयस्व मनोरथम् । ततस्तद्वचनं श्रुत्वा तस्मिन्सरसि तज्जले
कल्हारकुमुदांभोजरक्तनीलोत्पलच्युतैः । परागैरंजिते मंजुवासिते मधुबिंदुभिः
तुंदिले कलहंसादि नादैरांदोलिते ततः । रत्नाबद्धचतुस्तीरे मंदानिलतरंगिते
मग्ने जलांतः पार्थे तु तत्रैवांतर्दधेऽथ सा । उत्थाय परितो वीक्ष्य संभ्रांता चारुहासिनी
सद्यः शुद्धस्वर्णरश्मिगौरकांततनूलताम् । स्फुरत्किशोरवर्षीयां शारदेंदुनिभाननाम्
सुनीलकुटिलस्निग्धविलसद्रत्नकुंतलाम् । सिंदूरबिंदुकिरणप्रोज्ज्वलालकपट्टिकाम्
उन्मीलद्भ्रूलताभंगि जितस्मरशरासनाम् । घनश्यामलसल्लोल खेलल्लोचनखंजनाम्
मणिं कुंडलतेजोंशु विस्फुरद्गंडमण्डलाम् । मृणालकोमलभ्राजदाश्चर्यभुजवल्लरीम्
शरदंबुरुहां सर्वश्रीचौरपाणिपल्लवाम् । विदग्धरचितस्वर्णकटिसूत्रकृतांतराम्
कूजत्कांचीकलापांत विभ्राजज्जघनस्थलाम् । भ्राजद्दुकूलसंवीतनितंबोरुसुमंदिराम्
शिंजानमणिमंजीरसुचारुपदपंकजाम् । स्फुरद्विविधकंदर्पकलाकौशलशालिनीम्
सर्वलक्षणसंपन्नां सर्वाभरणभूषिताम् । आश्चर्यललनाश्रेष्ठामात्मानं सव्यलोकयत्
विसस्मार च यत्किंचित्पौर्वदेहिकमेव च । मायया गोपिकाप्राणनाथस्य तदनंतरम्
इति कर्त्तव्यतामूढा तस्थौ तत्र सुविस्मिता । अत्रांतरेंऽबरे धीर ध्वनिराकस्मिकोऽभवत्