तस्माद्विरम वत्सैतत्किं नु तेन विना तव । एवं भगवतस्तस्य श्रुत्वा वाक्यं सुदारुणम्
दीनः पादांबुजद्वंद्वे दंडवत्पतितोऽर्जुनः । ततो विहस्य भगवान्दोर्भ्यामुत्थाप्य तं विभुः
उवाच परमप्रेम्णा भक्ताय भक्तवत्सलः । तत्किं तत्कथनेनात्र द्रष्टव्यं चेत्त्वया हि यत्
यस्यां सर्वं समुत्पन्नं यस्यामद्यापि तिष्ठति । लयमेष्यति तां देवीं श्रीमत्त्रिपुरसुंदरीम्
आराध्य परया भक्त्या तस्यै स्वं च निवेदय । तां विनैतत्पदं दातुं न शक्नोमि कदाचन
श्रुत्वैतद्भगवद्वाक्यं पार्थो हर्षाकुलेक्षणः । श्रीमत्यास्त्रिपुरादेव्या ययौ श्रीपादुकातलम्
तत्र गत्वा ददर्शैनां श्रीचिंतामणिवेदिकाम् । नानारत्नैर्विरचितैः सोपानैरतिशोभिताम्
तत्र कल्पतरुं नाना पुष्पैः फलभवैर्नतम् । सर्वर्त्तुकोमलदलैः स्नवन्माध्वीकशीकरैः
वर्षद्भिर्वायुनालोलैः पल्लवैरुज्ज्वलीकृतम् । शुकैश्च कोकिलगणैः सारिकाभिः कपोतकैः
लीलाचकोरकै रम्यैः पक्षिभिश्च निनादितम् । यत्र गुंजद्भृंगराज कोलाहलसमाकुलम्
मणिभिर्भास्वरैरुद्यद्दावानल मनोहरम् । श्रीरत्नमंदिरं दिव्यं तले तस्य महाद्भुतम्
रत्नसिंहासनं तत्र महाहैमाभिमोहनम् । तत्र बालार्कसंकाशां नानालंकारभूषिताम्
नवयौवनसंपन्नां सृणिपाशधनुः शरैः । राजच्चतुर्भुजलतां सुप्रसन्नां मनोहराम्
ब्रह्मविष्णुमहेशादि किरीटमणिरश्मिभिः । विराजितपदांभोजामणिमादिभिरावृताम्
प्रसन्नवदनां देवीं वरदां भक्तवत्सलाम् । अर्जुनोऽहमिति ज्ञातः प्रणम्य च पुनःपुनः
विहितांजलिरेकांते स्थितो भक्तिभरान्वितः । सा तस्योपासितं ज्ञात्वा प्रसादं च कृपानिधिः
उवाच कृपया देवी तस्य स्मरणविह्वला । भगवत्युवाच-। किं वा दानं त्वया वत्स कृतं पात्राय दुर्लभम्
इष्टं यज्ञेन केनात्र तपो वा किमनुष्ठितम् । भगवत्यमला भक्तिः का वा प्राक्समुपार्ज्जिता
किं वास्मिन्दुर्लभं लोके किं वा कर्म शुभं महत् । प्रसादस्त्वयि येनायं प्रपन्ने च मुदा किल
गूढातिगूढश्चानन्य लभ्यो भगवता कृतः । नैतादृङ्मर्त्यलोकानां न च भूतलवासिनाम्
स्वर्गिणां देवतादीनां तपस्वीश्वरयोगिनाम् । भक्तानां नैव सर्वेषां नैव नैव च नैव च
प्रसादस्तु कृतो वत्स तव विश्वात्मना यथा । तदेहि भज बुद्ध्वैव कुलकुंडं सरो मम
सर्वकामप्रदा देवी त्वनया सह गम्यताम् । तत्रैव विधिवत्स्नात्वा द्रुतमागम्यतामिह
तदैव तत्र गत्वा स स्नात्वा पार्थस्तथागतः । आगतं तं कृतस्नानं न्यासमुद्रार्पणादिकम्
कारयित्वा ततो देव्या तस्य वै दक्षिणश्रुतौ । सद्यः सिद्धिकरी बाला विद्यानिगदिता परा
हकारार्द्धपरा द्वीपा द्वितीया विश्वभूषिता । अनुष्ठानं च पूजां च जपं च लक्षसंख्यकम्
कोरकैः करवीराणां प्रयोगं च यथातथम् । निर्वर्त्य तमुवाचेदं कृपया परमेश्वरी
अनेनैव विधानेन क्रियतां मदुपासनम् । ततो मयि प्रसन्नायां तवानुग्रहकारणात्
ततस्तु तत्र पर्य्यंतेष्वधिकारो भविष्यति । इत्ययं नियमः पूर्वं स्वयं भगवता कृतः
श्रुत्वैवमर्जुनस्तेन वर्मणा तां समर्चयत् । ततः पूजां जपं चैव कृत्वा देवी प्रसादिता