यद्रहोऽनुभवस्तस्य पार्थेनापि महात्मना । दृष्टं कृतं च यद्यत्तत्प्रसंगात्कथितं मयि
तत्तेऽहं कथयाम्येतच्छृणुष्वावहितः परम् । किंत्वेतद्यत्र कुत्रापि न प्रकाश्यं कदाचन
अर्जुन उवाच-। शंकराद्यैर्विरिंच्याद्यैरदृष्टमश्रुतं च यत् । सर्वमेतत्कृपांभोधे कृपया कथय प्रभो
किं त्वया कथितं पूर्वमाभीर्यस्तव वल्लभाः । तास्ताः कतिविधा देव कति वा संख्यया पुनः
नामानि कति वा तासां का वा कुत्र व्यवस्थिताः । तासां वा कति कर्माणि वयोवेषश्च कः प्रभो
काभिः सार्द्धं क्व वा देव विहरिष्यसि भो रहः । नित्ये नित्यसुखे नित्यविभवे च वने वने
तत्स्थानं कीदृशं कुत्र शाश्वतं परमं महत् । कृपा चेत्तादृशी तन्मे सर्वं वक्तुमिहार्हसि
यदपृष्टं मयाप्येवमज्ञातं यद्रहस्तव । आर्तार्तिघ्न महाभाग सर्वं तत्कथयिष्यसि
श्रीभगवानुवाच-। तत्स्थानं वल्लभास्ता मे विहारस्तादृशो मम । अपि प्राणसमानानां सत्यं पुंसामगोचरः
कथिते दृष्टुमुत्कंठा तव वत्स भविष्यति । ब्रह्मादीनामदृश्यं यत्किं तदन्य जनस्य वै
तस्माद्विरम वत्सैतत्किं नु तेन विना तव । एवं भगवतस्तस्य श्रुत्वा वाक्यं सुदारुणम्
दीनः पादांबुजद्वंद्वे दंडवत्पतितोऽर्जुनः । ततो विहस्य भगवान्दोर्भ्यामुत्थाप्य तं विभुः
उवाच परमप्रेम्णा भक्ताय भक्तवत्सलः । तत्किं तत्कथनेनात्र द्रष्टव्यं चेत्त्वया हि यत्
यस्यां सर्वं समुत्पन्नं यस्यामद्यापि तिष्ठति । लयमेष्यति तां देवीं श्रीमत्त्रिपुरसुंदरीम्
आराध्य परया भक्त्या तस्यै स्वं च निवेदय । तां विनैतत्पदं दातुं न शक्नोमि कदाचन
श्रुत्वैतद्भगवद्वाक्यं पार्थो हर्षाकुलेक्षणः । श्रीमत्यास्त्रिपुरादेव्या ययौ श्रीपादुकातलम्
तत्र गत्वा ददर्शैनां श्रीचिंतामणिवेदिकाम् । नानारत्नैर्विरचितैः सोपानैरतिशोभिताम्
तत्र कल्पतरुं नाना पुष्पैः फलभवैर्नतम् । सर्वर्त्तुकोमलदलैः स्नवन्माध्वीकशीकरैः
वर्षद्भिर्वायुनालोलैः पल्लवैरुज्ज्वलीकृतम् । शुकैश्च कोकिलगणैः सारिकाभिः कपोतकैः
लीलाचकोरकै रम्यैः पक्षिभिश्च निनादितम् । यत्र गुंजद्भृंगराज कोलाहलसमाकुलम्
मणिभिर्भास्वरैरुद्यद्दावानल मनोहरम् । श्रीरत्नमंदिरं दिव्यं तले तस्य महाद्भुतम्
रत्नसिंहासनं तत्र महाहैमाभिमोहनम् । तत्र बालार्कसंकाशां नानालंकारभूषिताम्
नवयौवनसंपन्नां सृणिपाशधनुः शरैः । राजच्चतुर्भुजलतां सुप्रसन्नां मनोहराम्
ब्रह्मविष्णुमहेशादि किरीटमणिरश्मिभिः । विराजितपदांभोजामणिमादिभिरावृताम्
प्रसन्नवदनां देवीं वरदां भक्तवत्सलाम् । अर्जुनोऽहमिति ज्ञातः प्रणम्य च पुनःपुनः
विहितांजलिरेकांते स्थितो भक्तिभरान्वितः । सा तस्योपासितं ज्ञात्वा प्रसादं च कृपानिधिः
उवाच कृपया देवी तस्य स्मरणविह्वला । भगवत्युवाच-। किं वा दानं त्वया वत्स कृतं पात्राय दुर्लभम्
इष्टं यज्ञेन केनात्र तपो वा किमनुष्ठितम् । भगवत्यमला भक्तिः का वा प्राक्समुपार्ज्जिता
किं वास्मिन्दुर्लभं लोके किं वा कर्म शुभं महत् । प्रसादस्त्वयि येनायं प्रपन्ने च मुदा किल
गूढातिगूढश्चानन्य लभ्यो भगवता कृतः । नैतादृङ्मर्त्यलोकानां न च भूतलवासिनाम्